________________
पक्षद्वये प्रयोगसाफल्यम् ]
७८१
www
दीनामेवेति, सर्वा एव तु एकस्य- - के[स्य ] चिदर्थस्यानेकाः शब्दैरेव प्रकल्पिताः - शब्दशक्त्युत्थापिता इत्यर्थः, एतमेवार्थं भाष्येण विवृणोति - इहैक मेवार्थवस्त्वित्यादि, वस्तुत एक ओदन एकस्यां · पचनावस्थायामेकस्मिन् मुहूर्तादौ काले बहुभिः वक्तृभिर्युगपदेकेन वा पर्यायेण वक्त्रोच्येत विरुद्वैर्धमैः, तद्यथेति निदर्शयतिओदनमिति, देवदत्तादिकर्त्तृसमारूढक्रियं कर्म, पाक ओदनस्येति षष्ठ्या सम्बन्धमात्रम्, पाककर्मत्रं, निर्वृत्तिं पाकस्येति च पाकसम्बन्धित्वमिति, तत्र यदीत्यादिना भावयति यावत् पाकस्येति, बाह्येऽर्थे विरुद्धधर्म सम्ब - 5 न्धाभावात् युगपदेककाले न घटत एव, नापि क्रमेण प्रयोगे वस्तुन एकत्वात् पाकसमवायिनः ओदनाख्यस्य पाकावस्थायाः कालस्य च तस्मादित्यादि, पारिशेष्यात् अविद्यमाना चेत्यादिना प्रथमविकल्पे दर्शयति-शब्दस्यैव शक्तयो यावत् समध्यारोप्यन्त इति, सर्वशक्तियोगे वेत्यादि द्वितीयविकल्पेऽपि शब्दशक्तिमेव दर्शयति-यावत् प्रकाशयतीति, तत्राशक्तिपक्षे वस्तुगता शक्तिर्नास्त्येवेत्यभ्युपगतत्वादप्रयोजिका शब्दप्रयोगस्य, खपुष्पवदसत्त्वात्, ने ह्यस्या इत्यादिभावनागतार्था यावत् किञ्चिदपि प्रयोजनमस्ति प्रयोजने 10 सति प्रयोगः स्यात्, तस्यामसत्यामपि बाह्यार्थशक्तौ मत्यक्ष सम्भवत्येव शब्दप्रयोगो यस्मात् योग्यशब्दनिबन्धनेत्यादि गतार्थं यावत् शक्तिमध्यारोपयति ।
सर्वशक्तिपक्षे तु मम विशेषणव्यवस्थितां कुतश्चिदनादेयां अव्यतिकीर्णामनन्यशब्दवाच्यां तां तां शक्तिमुपादाय स्वविषयनियताः शब्दाः प्रयुज्यंते प्रयोगसाफल्यमस्तीति, तस्मादुभयोरपि पक्षयोः शब्दप्रयोगसाफल्यं सम्भवतीति ।
शक्तिमहिम्नैवोत्थापिता इत्याह- सर्वा एव त्विति । एकरूपमेव दृश्यं वस्तु एकदा बहुभिर्नरैर्विरुद्धेर्धर्मैर्युगपदुच्यते ओदनं पचि ओदनस्य पाक इति तत्कथं युज्यते, यद्योदनं कर्म न तर्हि कर्मत्वनिवृत्तिरूपं सम्बन्धित्वं तस्य भवेत्, यदि सम्बन्धि ओदनं न तर्हि कर्म भवेत्, कर्मत्वसम्बन्धित्वयोर्विरोधादेकदैकत्रायुक्तेरित्यभिप्रायेणाह - वस्तुत एक इति, अत्र बहुभिर्वत्तृभिर्युगपत् एकेन वक्त्रा पर्यायेण विरुद्धधर्मैरुच्येतेति योजनीयम् । देवदत्तादीति कर्तृभूतदेवदत्तादिनिष्ठप्रधानीभूतव्यापारजन्यफलाश्रयमोदनं कर्मेत्यर्थः । पाक ओदनस्येत्यत्रौदनशब्दोत्तरषष्ट्या पाककर्मत्वनिवृत्तिपूर्वकं सम्बन्धमात्रं प्रतीयते इत्याह-पाक ओदनस्येतीति । तस्मान्नार्थेषु 20 शक्तिः पृथगस्ति, न वा शब्देऽर्थनिरूपिता, किन्तु बुद्ध्या बाह्यार्थनिरपेक्षं बौद्धेऽभिजल्परूपे शब्दे शक्तयः समध्यारोप्यन्ते इत्याहपारिशेष्यादिति, बाह्यार्थे कर्मत्वतन्निवृत्तिलक्षणविरुद्धधर्मसम्बन्धासम्भवेनैकेन वक्त्रा क्रमेण बहुभिर्वा युगपत्तैर्धर्मैरेकस्य वक्तुमशक्तेः शब्दार्थयोर्वाच्यवाचकभावलक्षणाया वास्तवशक्तेरसम्भवादध्यासस्यैव शरणीकरणीयत्वादिति भावः । प्रथमविकल्पे - अर्थेषु शक्तिर्न पृथगस्तीत्यशक्तिपक्ष इत्यर्थः, सर्वशक्तिपक्षेऽपि शब्दः प्रतिनियतमेवार्थं प्रकाशयति, अर्थार्थत्वाच्छब्दप्रयोगस्येत्याहसर्वशक्तियोगे वेति । अर्थवस्तुन्यशक्तिपक्षे शक्त्यभावात्तदर्थबोधनेच्छ्या शब्दप्रयोगो निरर्थक एव, तत्र शक्तेः शब्दप्रयोगे 25 प्रयोजकत्वाभावात् असत्त्वात् खपुष्पवत्, तस्या अर्थस्य सन्निधानमसन्निधानं न हि भवति किञ्चित्करम्, यदि भवेत्तर्हि स्याच्छब्दप्रयोगो न चैवमस्ति ततो न बहिरर्थापेक्षया शक्तिः शब्दप्रयोगप्रयोजिकेत्याह-तत्राशक्तिपक्ष इति । तर्हि कथं शब्दप्रयोग इत्यत्राह-तस्यामसत्यामपीति, बाह्यार्थविषयशक्त्यभावेऽपीत्यर्थः, अर्थं प्रत्याययिष्यामीति गवाद्यर्थबोधनाय प्रयुक्तो गवादिशब्दः, एवञ्चोच्चारणात् प्रागन्तःकरणवृत्त्या योऽयं शब्दः सोऽर्थो योऽर्थः स शब्द इत्येवमध्यासादन्यव्यावृत्तरूपेण यस्मिन्नर्थे तादात्म्यमापन्नो यः शब्दः सोऽर्थप्रत्ययं जनयतीति नास्ति बहिरर्थगतशब्दापेक्षेति भावः । योग्येति, योग्यशब्दनिबन्धना 30 विवक्षा- योऽयं गोशब्दः स एव गवार्थः, योऽयं गवार्थः स एव गोशब्द इति गोशब्दोच्चारणात् प्रागन्यव्यावृत्तरूपेण बुद्ध्या बिषयीकृतार्थतादात्म्यापन्नशब्दबोधनेच्छेत्यर्थः, तदेवं शब्दप्रयोगसाफल्यमशक्तिपक्षे विज्ञेयम् । सर्वशक्तिपक्षे प्रयोगसाफल्यं दर्शयति - सर्वशक्तिपक्षे त्विति, अर्थस्य सर्वशक्तिमत्त्वेऽपि काञ्चिदेकामसाधारणीं शक्तिमादायैव शब्दाः स्वमहिम्नैव प्रति१ . क्वचिदर्थस्य । २ सि. क्ष. शक्ति यावत् । ३ सि.क्ष. न हि स्येत्यादि ।
Jain Education International 2010_04
द्वादशारनयचक्रम्
For Private & Personal. Use Only
15
www.jainelibrary.org