________________
७८०
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे पुरुषस्योत्प्रेक्षया वाऽर्थमभिधेयत्वेनोपगृह्य-पूर्वोक्तचन्द्रादिवत् साकारं तत्र न्यग्भूतस्वशक्तिः-अस्वतंत्रीकताभिधानसामर्थ्यः बुद्धौ परिप्लवमानोऽयमित्थमनेन शब्देनोच्यत इत्यान्तरो विज्ञानलक्षणः शब्दात्मा श्रुत्यन्तरस्य बाह्यस्य ध्वन्यात्मकस्य प्रवृत्तौ हेतुः-उत्थापकः, सोऽभिजल्पाभिधेयाकारपरिग्राही बाह्याच्छब्दादन्य इति भर्तृहर्यादिमतम् । 5 वसुरातस्य भर्तृहर्युपाध्यायस्य मतन्तु स च स्वरूपानुगतार्थरूपमन्तरविभागेन सन्निवेश
यति, 'अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता । एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥' (वाक्यप० कां० २ श्लो० १३३ ) इहैकमेवार्थवस्तु एकस्यां पचनावस्थायामेकस्मिन् मुहूर्तादौ काले बहुभिर्वक्तृभिर्युगपदेकेन वा पर्यायेण वक्त्रोच्येत विरुद्धैधमैः, तद्यथा-ओदनं पचति, पाक
ओदनस्य, पार्क निर्वर्त्तयति, करोति निवृत्तिं पाकस्य, तत्र यदि अर्थवस्तु शब्देनोच्येत तर्हि 10 विरोधात् कथमोदनस्यैकस्य युगपत् क्रमेण वा कर्मत्वं सम्बंधित्वं पार्क निर्वर्त्तयति पाकस्य निवृत्तिं करोतीति कर्मत्वं शेषरूपत्वं च पाकस्य ! तस्मादविद्यमाना वा शब्दस्यैव शक्तयः बुद्ध्या बाह्यार्थनिरपेक्षं समध्यारोप्यन्ते सर्वशक्तियोगे वाऽर्थार्थत्वाच्छब्दप्रयोगस्य शब्दः प्रतिनियतमेवार्थ प्रकाशयति, तत्राशक्तिपक्षे वस्तुगता शक्तिरप्रयोजिका शब्दप्रयोगस्य, खपुष्पवदसत्त्वात् , न ह्यस्यावस्तुविषयाभ्यां सन्निधानासन्निधानाभ्यां किञ्चिदपि प्रयोजनमस्ति प्रयो15 जने सति प्रयोगः स्यात् , तस्यामसत्यामपि बाह्यार्थशक्तौ मत्पक्षे सम्भवत्येव शब्दप्रयोगः, योग्यशब्दनिबन्धना हि विवक्षा अनपेक्ष्यार्थगतशब्दं बुद्धौ शक्तिमध्यारोपयति ।
- (वसुरातस्येति) वसुरातस्य भर्तृहर्युपाध्यायस्य मतं तु-स च स्वरूपानुगतेत्यादि, स च-अभिजल्पः स्वरूपानुगतमर्थरूपमन्तरविभागेन सन्निवेशयतीति सत्यपि बाह्येऽर्थे तन्निरपेक्षं स्वातंत्र्यमभिजल्पस्य प्रदर्शयितुमाह- [अ]शक्तेः सर्वशैक्तेर्वे (वाक्यप० का० २ श्लो० १३३) त्यादि, या एताः गतिस्थितिजल्पनचि20 न्तनादयो धातुवाच्याः क्रिया बाह्यार्थशक्त्यभिमताः तद्वानसौ बाह्योऽर्थोऽस्तु अशक्तिरेव वा, द्वयोरपि शक्तिमदशक्तिपक्षयोस्ताः क्रियादिशैक्तयो नियता एव, जल्पनादि मनुष्यादीनामेव, सर्पणप्लवनाद्याः सर्पशकुना
शब्दा नार्थस्य वाचकाः, किन्तु योऽर्थः स शब्दः यः शब्दः सोऽर्थ इति शब्दार्थयोः तादात्म्यादाच्छादितपदार्थस्वरूपोऽभिजल्पनामातेभ्योऽभिव्यङ्गय आन्तरः शब्दो वाचकः, अयमेव स्फोटः, एतद्व्यञ्जकत्वादेव प्रयोक्ताऽर्थविवक्षया करणव्यापारप्रभवान्
ब्दान् प्रयङ्के, एतस्य शब्दस्य शक्तिरन्तःशब्दस्य व्यञ्जनमात्र एव, प्रत्याय्यप्रत्यायकत्वन्तु बौद्धशब्दार्थयोरेव, बौद्धशब्दस्य 25 बौद्धार्थेन अध्यासरूपसंकेतात्तयोस्तादात्म्यादिति भर्तृहरिमतमिति भावः । तद्गुरोर्वसुरातस्य मतमुपनिबध्नाति-वसुरातस्येति ।
तन्मतं विशदीकरोति-स चेति, अभिजल्पस्वरूपः शब्दः खान्तोऽर्थखरूपमभेदेन सन्निवेशयति यतोऽत एव स्वमाहात्म्योत्थापित एव शब्दार्थः, नार्थेषु पृथक् तस्य शक्तिरस्ति यथा च शब्दैरथो विधीयन्ते क्रियारूपतया सिद्धरूपतया वा तथैव तेऽवगम्यन्ते. तस्माद्वाह्यार्थनिरपेक्षाऽभि जल्पस्य शक्तिरिति भावः । एषोऽर्थो हरिकारिकया दर्शयति-अशक्तेरिति श्लोकाभिप्रायमाचष्टे-या एता
इति. अर्थः क्रियादिरूपः सर्वशक्तिमान् शक्तिरहितो वेत्यभिप्रायः।अशक्तिरेव वेति, अर्थेषु शक्तिर्मा वा भवत्वित्यर्थः । नियतत्वमेव 30 दर्शयति-जल्पनादीति, मनुष्यादीनामेव तत्र नैयत्यं सर्पणादौ सर्पस्य प्लवनादौ शकुनादेरित्यर्थः । एताः क्रिया अर्थस्य शब्द
सि.क्ष.डे. गतेऽपीत्यादि । सि.क्ष. छा.डे. रूपनंतर०।३सि. छा, सर्वे शक्तेऽर्थे.xxक्ष. छा.. सि.डे. गतिस्थितिजल्पिचिन्यादिधा०। ५ सि. तद्वावसौ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org