________________
अभिजल्पस्वरूपम्] द्वादशारनयचक्रम्
७७२ १३२.) दर्शनोत्प्रेक्षाभ्यामर्थमभिधेयत्वेनोपगृह्य तत्र न्यग्भूतस्वशक्तिर्बुद्धौ परिप्लवमानोऽयमित्थमनेन शब्देनोच्यत इत्यान्तरो विज्ञानलक्षणः शब्दात्मा श्रुत्यन्तरस्य बाह्यस्य ध्वन्यात्मकस्य प्रवृत्तौ हेतुः, सोऽभिजल्पाभिधेयाकारपरिग्राही बाह्याच्छब्दादन्य इति भर्तृहर्यादिमतम् ।
यदप्युच्यतेत्यादि, स्त्रीपुंनपुंसकव्यक्तीनां विरुद्धानां पुष्यनक्षत्रतारार्थानामयुक्तमैकाधिकरण्यम् पुनर्वसू नक्षत्रमित्यादिसंख्याविरोधादयुक्तर्विज्ञानमपि तद्विषयमयुक्तमित्यादिवचनखेदोऽयमकस्मात् क्रियते । त्वया, किं कारणं ? अभिजल्पो हि शब्दार्थः, हिशब्दो यस्मादर्थे, शब्दार्थस्याभिजल्पत्वान्न लिङ्गादिविचारखेदेनार्थः, असद्विषयत्वात् , खपुष्पविषयविचारखेदवत् , स्यान्मतं कोऽसावभिजल्प इत्यत्रोच्यतेस च शब्द एव, स चाभिजल्पः शब्द एव, कथमितिचेदुच्यते-'सोऽयमित्यभिसम्बन्धात्' (वा० का० २ श्लो० १३०) इति श्लोकः, योऽर्थः सोऽयं शब्दो घट इत्यभेदोपचारसम्बन्धाद्यदा शब्दस्वरूपमर्थेनैकीकृतं भवति तदा, यथेन्द्रकश्चन्द्रक इतीन्द्रचन्द्राद्यप्रत्यक्षार्थानभिज्ञोऽपि इन्द्रचन्द्रशब्दरूपापन्नगोपालादिमथ 10 प्रत्याययन् दृश्यते सोऽर्थेनैकीभूतः शब्द एवाभिजल्प इत्युच्यते [ तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि । किश्चिदेव कचिद्रूपं प्राधान्येनावतिष्ठते ॥ वा० का० २ श्लो. १३१] एवं शब्दार्थयोः क्षीरोदकवत् अपृथगात्मत्वम् , तयोरपृथगात्मत्वे सति अव्यभिचारिणि-अन्योऽन्याविनाभावित्वेऽपि रूढिवशादेव किश्चिद्रूपं प्राधान्येनावतिष्ठते शब्दरूपमर्थरूपं वा, यथा लौकिका अर्थप्रधानाः, शाब्दाः शब्दप्रधाना इति, तमर्थ प्रविभागेन दर्शयति-लोकेऽर्थरूपतामिति, श्लोको गतार्थः [लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्त्तते । शास्त्रे 15 तूभयरूपत्वं प्रविभक्तं विवक्षया ।। वा० कां० २ श्लो० १३२] अग्निमानयेत्युक्ते लोके दहनादिलक्षणेऽर्थे सम्प्रत्ययो न शब्दे, शास्त्रे तु 'स्त्रीभ्यो ढक्' (पा० ४-१-१२०) इति स्त्रीवाचकेषु सार्थकेषु शब्देषु, 'भुजो कौटिल्ये' इत्येवमादिष्वर्थेष्वेव सम्प्रत्ययः, तद्व्याख्या-दर्शनोत्प्रेक्षाभ्यामित्यादि, प्रधानादिदर्शनेन
अध्यासरूपत्वमागतः शब्द एव वरूपलक्षणः शब्दस्य वाच्यः, न त्वर्थस्तथा च संस्त्यानप्रसवादिलिङ्गस्वरूपविचारद्वारेण सामानाधिकरण्योपपत्त्यनुपपत्तिप्रसाधनं केवलं श्रम एव, तद्विचारस्यासद्विषयत्वादिति भर्तृहरिमतेनाह-अभिजल्पोहीति । शब्दस्याभिजल्प-20 रूपतामाह-स च शब्द एवेति। तत्र हरिकारिकामुपन्यस्यति-सोऽयमितीति, सोऽर्थोऽयं शब्द एव, कोऽयमर्थः ? गौरिति, किंनामा! गौरिति व्यवहारदर्शनादध्यासेन पदार्थस्वरूपमाच्छादितं सत् यदेकीकृतमिव प्रत्याय्यते तदाऽभिजल्पः शब्द उच्यते इति तदर्थः । असद्विषयत्वस्फोरणाय दृष्टान्तमाह-यथेन्द्रक इति, इन्द्रचन्द्रादेरर्थस्याप्रत्यक्षतयाऽनभिज्ञोऽपि गोपालादाविन्द्रचन्द्राध्यासेनकीकृत्य शब्दरूपतया गोपालाद्यर्थ जानातीति अतद्विषयत्वं स्पष्टमेवेति भावः। यदा शब्दार्थयोरध्यासेनैकरूपत्वेऽव्यभिचारिणि रूढिवशात् क्वचिल्लोकेऽर्थरूपता प्रतिपन्नः शब्दोऽयं गौरित्यर्थप्राधान्येन प्रवर्तते, क्वचिच शास्त्रे शब्दप्रधानः क्वचिच्चार्थप्रधानः प्रवर्त-25 त इत्याह-एवं शब्दार्थयोरिति । विवक्षाकृतविभागस्य दृष्टान्तमाह-अग्निमानयेति, लोके हि वस्तुबोधनाय शब्दः प्रयुज्यते स शब्दः क्रियासु न साधनत्वं प्राप्नोति, अर्थप्रत्यायनार्थत्वेन परतंत्रत्वादिति भावः। एवमेव स्त्रीभ्यो ढक्, भुजो कौटिल्ये इत्यादावपि स्त्रीभुजादिशब्दा अर्थपरा एव, एतावास्तु विशेषः, स्त्रीशब्देन स्त्रीवाचकाः शब्दा गृह्यन्ते, स्यादिरूपेऽर्थे ढगादिप्रत्ययासम्भवात्, भुजादिशब्दस्य तु कौटिल्याद्यर्थ एव वाच्यः, स्त्रीशब्दस्तु न ढगादिकार्यभाग, ग्राहकशक्तिमत्वेन संज्ञात्वात्, ग्राह्यत्वशक्तिमत्प्रयोगस्थसंज्ञिप्रत्यायनमात्रार्थत्वेन परतंत्रत्वादित्याशयेनाह-शास्त्रे त्विति. व्याकरणशास्त्रे वित्यर्थः । अभिजल्परूपशब्दस्य बाह्य- 30 शब्दविलक्षणस्य स्वरूपमुपदर्शयति हरिसम्मतम्-दर्शनोत्प्रेक्षाभ्यामिति, आगमेन तदनुगुणेन तर्केण वेत्यर्थः, उच्चार्यमाणाः
१ सि. छा, डे. °धाययुक्तैर्वि० । २ सि. क्ष. छा. संव्यवहारकालेऽर्थरूपतामिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org