________________
७७८ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे . अत एवेत्यादि, व्याकरणं हि लक्ष्याधिगतये लक्षणम् , कथं नाम शब्दादर्थे ज्ञानमविपरीतं स्यादिति, तस्माद्व्याकरणाध्ययने यत्न आस्थेयः, उक्तं हीत्यादि श्लोकद्वयं व्याकरणस्तवनार्थ निदर्शयति वागादिषु गोशब्द एकोऽनेकार्थः, एकस्मिन् पृथुबुनादिलक्षणेऽर्थे घटकुटकुम्भादिशब्दोऽनेक[:]प्रवृत्त इत्येवमादेः प्रकाश्यस्यार्थस्य प्रकाशकं व्याकरणम् , स्थावरजङ्गमानामिव प्रकाश्यानां सूर्यः, तथा न व्याकरणमन्तरेण 5 वाच्यस्य सूक्ष्मस्य ज्ञानम् , वाचकस्य च शब्दस्य यः शब्दः शब्दकर्मको वाचमेव ब्रूते हसतिजल्पत्यादिः तद्विषयं च ज्ञानं न सम्भवति, तच्च सर्वं व्याकरणज्ञो वेद, तथा अर्थप्रवृत्तितत्त्वानामित्यादि, अर्थाःअभिधेयाः, प्रवृत्तयः-क्रियाः पुरुषहितहेतवः, अहितहेतवः, तेषामुभयेषां तत्त्वानि स्वान्यविपरीतानि रूपाणि शब्दैरेव ज्ञायन्ते, शब्दानां पुनस्तत्त्वं[न]व्याकरणादृते ज्ञायते, अथवाऽर्थस्य प्रवृत्तितत्त्वानि-यथास्वमेकैकस्यानन्तधर्मात्मविपरिणामाः, तानि शब्दैयिन्ते, शब्दा व्याकरणेनेति, अथवाऽर्थाः-धर्मार्थकाममोक्षाः 10 ततवः प्रवृत्तयः, तासां तत्त्वानि-यथावं साध्यसाधनभावाः, इत्यादिव्याख्याविशेषेषु तद्विषयसम्यग्ज्ञानस्य शब्दाः कारणानि, शब्दज्ञानस्य तु व्याकरणमिति ।
यदप्युच्येत स्त्रीपुंनपुंसकव्यक्तीनां विरुद्धानां पुष्यनक्षत्रतारार्थानामयुक्तमैकाधिकरण्यं पुनर्वसू नक्षत्रमित्यादिसंख्याविरोधादयुक्तेः, विज्ञानमपि तद्विषयमयुक्तम् , इत्यादिवचनखेदोऽयमकस्मात् क्रियते त्वया, अभिजल्पो हि शब्दार्थः, स च शब्द एव, न लिङ्गादिविचार15 खेदेनार्थोऽसद्विषयत्वात् , खपुष्पविषयविचारखेदवत् , 'सोऽयमित्यभिसम्बन्धात् रूपमेकी कृतं यदा। शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥' (वाक्यप० का० २ श्लो. १३०) तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि । किश्चिदेव क्वचिद्रूपं प्राधान्येनावतिष्ठते ॥ लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्त्तते । शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ (वा. कां. २ श्लो.
यत्नः कर्त्तव्य इत्याह-अत एवेति । व्याचष्टे-व्याकरणं हीति, लघुनोपायेन लक्ष्याणि न विपरीतरूपतः प्रकाशयति 20 व्याकरणमतस्तदध्येयमिति भावः । तत्स्तावकश्लोकद्वयमुपन्यस्यति-उक्तं हीति । प्रथमकारिकाभावार्थमाचष्टे-बागादिष्विति, एकः शब्दोऽनेकार्थः, यथा वागादिशब्दाः, एकोऽर्थोऽनेके शब्दाः यथा पृथुबुध्नोदरायेकार्थे घटकुटकुम्भादिशब्दा इत्येवमादीनां शब्दानां प्रकाशकं व्याकरण मित्यर्थः । दृष्टान्तमाह-स्थावरेति । तथा वाच्यवाचकज्ञानमपि व्याकरणादेवेत्याह-तथा नेति, वाक्यार्थभ्यः पदाथान् पदार्थभ्यः प्रकृतिप्रत्ययाथोन् विभज्य वाक्येभ्यः पदानि पदेभ्यश्च प्रकृतिप्रत्ययान् विभज्य प्रकृत्यर्थे
प्रकृतेः प्रत्ययार्थे प्रत्ययस्य शक्तिः साधुत्वञ्च व्याकरणेन लघूपायेन बोध्यते, तद्वारेण च पदार्थे पदस्य वाक्याथै च वाक्यस्य शक्तिः 25 साधुत्वं सुग्रहमिति भावः । शब्दकर्मक इति, शब्दः कर्म कारकं येषां ते शब्दकर्मकाः हसतिजल्पत्यादयः हसनजल्पनक्रियायामेते धातवो वर्त्तन्ते । द्वितीयां कारिकां व्याचष्टे-अर्थप्रवृत्तीति, अर्थप्रत्यायकत्वं साध्वसाधुशब्दानां धर्माधर्मसाधनत्वञ्चति भावः । तद्भावस्तत्त्वं तस्यैव भावो नान्यस्येत्याशयेनाह-स्वान्येति, खेतरेभ्यो व्यावृत्तानीत्यर्थः, सर्वो हि व्यवहारः शब्दमूलः, नानुच्चार्य शब्दं कश्चिद्व्यवहर्तुं शक्नोतीति भावः । ननु एतावता किमायातं व्याकरणस्य, शब्दस्वरूपबोधस्य श्रोनेन्द्रियादेव
भावादत आह-शब्दानामिति, शब्दानां तत्त्वं-अवैकल्यं साधुत्वं यथार्थबोधकत्वं वा तस्यावबोधो-निर्णयः व्याकरणादेव 30 भवति न श्रोत्रादिभ्य इति भावः । प्रकारान्तरेण व्याचष्टे-अथवेति. अर्थगता येऽनन्ता धर्मास्तदवबोधः शब्दैरिति भावः । व्याख्यान्तरमाह-अथवेति धर्मादीनां तत्प्रवृत्तीनाञ्च कार्यकारणभावविषययथार्थज्ञानं शब्दाधीनमिति भावः । अथ पुष्यो नक्षत्रं तारा वेत्यादौ पुष्यस्य स्त्रीनपुंसकलिङ्गसामानाधिकरण्यं पुनर्वसू नक्षत्रमित्यादौ द्विवचनान्तस्यैकवचनान्तेन च सामानाधिकरण्यं तद्विषयं विज्ञानञ्चायुक्तमिति यदुक्तं तदकस्मात् खेद एवेति निरूपयति-यदप्युच्येतेति । व्याचष्टे-स्त्रीनपुसंकेति, स्पष्टम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org