________________
व्याकरणस्याध्येयता ]
इतरथाऽर्थोपदेशाभावः, अर्थप्रत्यायनार्थत्वाच्छब्दप्रयोगस्यार्थपरतन्त्रस्यानन्तरीयकत्ववल्लिङ्गादिभेदानन्तरीयकत्वमित्येतञ्च न, क्रियाव्युत्पत्त्यादिभेदेन व्याख्यानोपपत्तेः, तद्दर्शयति- उक्तं हीत्यादिज्ञापकेन - ' क्रियाकारकभेदेनेति, द्रव्यवदाश्रयवृत्तिः स्वस्थापरसाधना त्र्यभिहित [[ ] द्वे शून्ये क्षयिणी चेत्यष्टौ ज्ञेयाः क्रियाभेदाः, कारकभेदाः कर्त्तादयः षडष्टौ वा कालोपायसहिताः त एव पर्यायवचने घटकुटकुम्भादीनां वाक्यान्तरे च, 'स्थानिवदादेशोऽनल्विधौ' ( पा० १-१-५६ ) इत्यस्य 'स्थान्यादेशपृथक्त्वादादेशे स्थानिवदनुदेशः ' 5 ( महाभा० १-१-५६) गुरुवद्गुरुपुत्रे वर्त्तितव्यमैन्यत्रोच्छिष्टभोजनात् पादोपसङ्ग्रहणाच्च' (महाभा० १-१-५६ सूत्रे ) इत्यादि, अथवाऽऽचार्येणैव क्रियाभेदेन दिवु क्रीडेत्यादि व्याख्यातमेव यावत् स वृक्ष इति गतार्थः, इहापीति सिद्धं व्याख्यानं प्रदर्श्य प्रस्तुतं योजयति - क्रियाकारकभेदाभ्यां पुष्यतीत्यादि यावत् खपुष्पमिति गतार्था व्याख्या, अथवाऽन्या व्याख्या - उपोद्घातेत्यादि यावद्भेदलक्षणाया इति व्याख्यायाः का कथं वेहानुपपत्तिः लिङ्गाद्यभेदेऽपीति सम्भत्स्यते, अथायमपरो व्याख्यामार्गः - तद्यथा - अधिकरणयोग- 10 पदार्थेत्यादि यावत् का कथं वाऽनुपपत्तिः लिङ्गाद्यभेदेऽपीति, सोदाहरणं त्वस्य व्याख्यानं तन्त्रार्थसङ्ग्रहादिभ्योऽधिगन्तव्यम्, इतश्च व्याख्या [ना]त् लिङ्गाद्यभिन्नार्थगतिरुपपद्यते, अनेकार्थैकशब्दग्रहणेनापीत्यादि व्याख्यातृभिरेकः शब्दोऽनेकार्थ इति ब्रुवद्भिर्व्याख्यानात् लिङ्गाद्यभेदेऽप्यर्थाधिगतिरभ्युपगतैवेति, तद्दर्शयति यथाह - 'वाग्दिग्भूरश्मी' ( ) त्यादिश्लोकोऽयमाचार्येणैव व्याख्यातो यावद् दृष्या वेति ग्रन्थेनैव, एवं निरवशेषव्याख्येयविषयव्यापिता व्याख्यायाः प्रदर्शिता ।
द्वादशारनयचक्रम्
wwww
अत एव व्याकरणं लक्ष्याधिगतये लक्षणम्, तस्माद्व्याकरणाध्ययने यत्न आस्थेयः, उक्तं हि - ' ॥ अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् । तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥' ( वाक्यप० कां० १ श्लोक १३ ) इति ।
Jain Education International 2010_04
७७७
इतरथेति, विशेषणानामनुपादान इत्यर्थः, यत्किञ्चिद्धर्मपुरस्कारेणैव वाचां प्रवृत्तेः तदन्तरेणोपदेशासम्भव इति भावः । अर्थं प्रत्याययिष्यामीति वक्त्रा शब्दप्रगोगाद्यथा शब्दोऽर्थपरतंत्रो नार्थमन्तरेण शब्दः प्रवर्त्तते तथैव लिङ्गादिविशेषमन्तरेणापि शब्दो न प्रवर्त्तत इति 20 लिङ्गादिभेदानान्तरीयकः शब्द इत्याह- अर्थप्रत्यायनेति । प्रकारान्तरेणाप्युपदेशसम्भवेन त्वदीयोपदेशविधानमयुक्तमेवेत्युत्तरयतिक्रियाव्युत्पत्त्यादीति । कारकभेदा इति, कर्मादिभेदेन षड्मेदाः, क्रियाकारकपूर्वकसम्बन्धाभिधायकषष्ठ्याः कारकत्वात् सप्तविधत्वं, अष्टविधत्वन्तु कालोपायसहितास्त एवं कर्त्तादय इति भावः । स्थानिवदादेश इति, अतिदेशसूत्रमिदम्, स्थानिका र्यमादेशेऽतिदिश्यते, यद्यपि तत्स्थानापन्नस्तद्धर्मं लभत इति स्थानिकार्याण्यादेशाः प्राप्नुवन्तीति सूत्रवैयर्थ्यं भाति तथापि स्थान्यादेशयोः पृथक्त्वात् स्थानिकार्यमादेशे न प्राप्नोतीति अतिदेश आवश्यकः, अतिदेशोऽन्यत्रान्यधर्मपरिप्रापणम्, स द्विविधः सामान्याति- 25 देशः, विशेषातिदेशः, आद्ये दृष्टान्तः यथा गुरुवद्गुरुपुत्र इति - गुरुवद्गुरुपुत्रे वर्त्तितव्यमिति गुरौ यत्कार्य तद्गुरुपुत्रेऽतिदिश्यते, एवमादेशभूतेऽल्यपि स्थानिकार्यप्राप्तौ तद्वारणायानल्विधाविति प्रतिषेधः क्रियते, तथा च विशिष्टं स्थानिकार्यमादेशेऽतिदिशति, अतिदेशप्राप्तं उच्छिष्टभोजनं पादोपसंग्रहणञ्च वर्जयित्वा गुरुपुत्रे गुरुकार्यमतिदिश्यत इति विशेषातिदेश इति सूत्रभाष्याभिप्रायः । दिवु क्रीडेति, दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु इति विधात्वर्था दश । अग्रेऽस्पष्टत्वा व्याक्रियते । वाग्दिग्भूरिति, 'स्वर्गेषुपशुवाग्वज्रदिड्नेत्रघृणिभूर्जले | लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः' इत्यम- 30 रकोशे गोशब्दार्थाः । अथ व्याकरणमिदं लक्ष्यशब्दव्यवस्थाकारि प्रकृतिप्रत्ययादिविभागान्वाख्यानादिद्वारेण, तस्मात्तदध्ययने
१ सि. क्ष. पृथक्तत्वात् स्थानिवदति देशः । २ सि. क्ष. वर्तितव्यानित्युच्छिष्ट० ।
For Private & Personal Use Only
15
www.jainelibrary.org