________________
७७६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे ननु पुरुषोऽपि..............................गवादि गोण्येति, सत्यमुच्यते शब्दो हि तेन प्रकारेण वाच्यविशेष संवादिनं ब्रवीति न तु तद्गतानां विशेषाणां विरोधेन यथा स्त्रीपुंनपुंसकादीनां एकद्विबहुत्वादीनाश्चैकार्थत्वेन...............संवादव्युदसनवृत्तिरिति ।
- ननु पुरुषोऽपीत्यादि, अखविषयत्वासिद्ध्युद्भावनं यावद्वादि गोण्येति, तदुत्तरं सत्यमुच्यते .5 इत्यादि, शब्दो हि तेन प्रकारेण वाच्यविशेषं संवादिनं ब्रवीति, तत्सम्परिग्रहणगुणेन सत्यमुच्यते सोऽर्थविशेषः
न तु तद्गतानां विशेषाणां विरोधेनोच्यते, यथा स्त्रीपुनपुंसकादीनामेकद्विबहुत्वादीनाञ्चैकार्थत्वेनेति संवादविसंवाददर्शनो ग्रन्थो यावत् संवादव्युदसनवृत्तिरिति गतार्थः, एवं लिङ्गसंख्याविसंवादवृत्तिहेतुप्रसङ्गेन चोद्यपरिहारप्रपञ्च उक्तः, एषः प्रकृत्यादिविसंवादेष्वप्यशेष आक्षेपपरिहारप्रपञ्च आयोज्यः, समानप्रचर्चत्वात् , प्रकृतिप्रत्ययाद्यक्षरविशेषोञ्चारणमात्रभेदः, प्रहासादिदमसत्यमेवेति चोद्योपक्रमप्रभृति यावदेतदवधि 10 लिङ्गादिशेषत्यागेन यथानुपूर्वोत्तरपक्षविरचनो नेय इति ।
___ नन्वेवमाख्यापुराख्यानकर्मणि प्रकृत्यर्थस्याख्येयार्थगतविशेषैरवश्यम्भाविभिर्विना तदाख्यानासम्भवान्नान्तरीयकसंख्यालिङ्गादिविशेषणोपादानम्, इतरथाऽर्थोपदेशाभाव इत्येतच्च न, क्रियाव्युत्पत्त्यादिभेदेन व्याख्यानोपपत्तेः, उक्तं हि-'क्रियाकारकभेदेन..................'
दिवुक्रीडाविजिगीषा.....................स वृक्षः, इहापि.........क्रियाकारकभेदाभ्यां 15 पुष्यति...............खपुष्पं,.........उपोद्घात.........भेदलक्षणाया इति व्याख्यायाः
अधिकरणयोगपदार्थ.........का कथं वाऽनुपपत्तिलिंगाद्यभेदेऽपि, इतश्च व्याख्यानात् लिङ्गाद्यभिन्नार्थगतिरुपपद्यते, यथाऽऽह-वाग्दिग्भूरश्मि.....................' ( ) ........................दृष्या वेति,
नन्वेवमित्यादि, नन्वाख्यापुराख्यानकर्मणिप्रकृत्य[र्थ] स्याख्येयार्थगतविशेषैरवश्यम्भाविभिर्विना 20 तदाख्यान[1]सम्भवान्नान्तरीयकं विशेषणोपादानम् , तानि च विशेषणानि संख्यालिङ्गादिभेदा एव,
देश्य इति । अखविषयत्वहेतोरसिद्धिमाशक्य समाधत्ते-अथ पुरुषोऽपीति, ग्रन्थोऽत्र नोपलभ्यते । व्याचष्टे-अस्वविषयत्वेति । वाच्यगतं संवादिनमर्थविशेष प्रतिपादयन् साधुर्भवति, अर्थोऽपि तथाविधशब्दप्रतिपाद्यविशिष्टो यथार्थ उच्यते, न तु वाच्यविरुद्धविशेषप्रतिपादकः शब्दः साधुन वाऽर्थो विरुद्धविशेषपरिग्राही यथार्थ इत्याशयेनोत्तरयति-शब्दो हीति । निश्चितेऽपि + वस्तुनः पुंस्त्वादौ पुष्यो नक्षत्रं तारा वेति निश्चितेऽपि वस्तुन एकत्वे दाराः, आपः, गृहा इत्येवं विरुद्धलिङ्गसंख्यासामानाधिकरण्यं 25 शब्दः कथं बोधयितुं क्षमते, इदं हि सामानाधिकरण्यं संवादिनं पुष्यगतं पुंस्त्वं दारार्थगतमेकत्वं व्युदस्यतीति भावः । प्रत्ययायथार्थत्वसाधकं लिङ्गसंख्याविसंवादवृत्तित्वसाधको अन्थो प्रकृत्ययथार्थत्वसाधनायापि योजनीय इत्याह-एष प्रकृत्यादीति । ननु व्याकरणेन लाघवेन प्रकृतिप्रत्ययकल्पनया पदानि वाक्यानि चान्वाख्यायन्ते, प्रकृत्या वस्तुन आख्यानं विशेषणमन्तरेण न सम्भ
वति विशेषणं किंचिद्वाह्य किञ्चिदान्तरं किञ्चिदसदपि कल्पितं भवति यथा चेतनवाचकप्रकृतिबहिर्विद्यमानं लिङ्गं स्तनकेशादिनिमित्तं - परिगृह्य वस्तु प्रकाशयति बहिरसतोऽपि तारादौ आन्तरं धर्मभेदमाश्रित्य ताराशब्दो बोधयति स्वार्थम् , राहोःशिर इत्यादावसन्तमपि 30 भेदं प्रकल्प्यान्वाख्यायते, एवं संख्यादावपि, तस्मान्नानुपपत्तिः कापीति शङ्कते-नम्वेवमिति । व्याचष्टे-नन्वाख्येति ।
१ सि.क्ष.डे. छा. प्रभृत्यस्याः ।
।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org