________________
अतिदेशासम्भवः ]
द्वादशारनयचक्रम्
प्रकृत्यर्थस्य न्यग्भूतत्वात् कर्त्रर्थस्यैव सद्भावात् मन्मतेन, अपि चेत्यादि, तटशब्दस्यैकार्थस्यैकस्य त्रैलिङ्ग्यायुक्तिविचारे नानालिङ्गानां भूत्यादीनां नानाशब्दानामुपन्यासोऽतिविस्पर्धते, इतश्च न घटते तदुपन्यासः, द्रव्यार्थत्वात् सामान्यस्य भूतिभवनभावाख्यस्यैकत्वात् तद्विषयमुदाहरणं स्यात्, न पर्यायनयस्य विशेषविषयत्वाच्च, भावशब्दस्यात्र कतैवैको भवतीति भावो विशिष्ट एवैको घटादिर्न त्वेक एव भूत्यादिरूपो विशेषः कर्त्ता, तस्मादेकभवनासत्त्वार्थैकत्वमपि नैव, सामान्यभवनस्यैकस्य न्यग्भूतत्वात् विशेषभवनस्य भूत्यादिविशिष्टै - 5 करूपत्वान्नास्त्यर्थैकत्वमत्र नयेन द्रव्यार्थकृतं भूत्यादिष्वैक्यं तन्मां प्रत्यसिद्धमित्यर्थः, तस्माददृष्टान्त इति ।
किञ्चान्यत् त्वया
यदप्युक्तं नक्षत्रतारार्थातिदेशविषयो नक्षत्रं भवति पुष्योऽयं देवदत्त इति, वृक्षोऽर्थो भवतीति यथा वृक्षस्यार्थेनातिदेशस्तथानक्षत्रादिना देवदत्तस्येति, अत्र देवदत्तस्यैवं नक्षत्रादिनाऽतिदेशो न भवति नक्षत्रादीनामतद्विषयत्वात्, अर्थेन च सता वृक्षोऽतिदिश्यते प्रत्यक्षः 10 सन् परोक्षेण धर्मेण असता वा, वृक्षस्यार्थविषयत्वात् ।
यदप्युक्तं नक्षत्रतारार्थातिदेशेत्यादि तदुक्तप्रत्युच्चारणं सामान्यार्थातिदेशेन विशेषार्थातिसर्गे निदर्शनम्, अयं देवदत्त इति, वृक्षोऽर्थो भवतीति द्वितीयं[ स ] विशेषं गतार्थं सभावनं यावद्देवदत्तस्येति पूर्वपक्ष:, उत्तरपक्षस्तु अत्र युक्तौ देवदत्तस्यैवमित्यादिना वैधर्म्यं निदर्शयत्यतिदेशाभावभावनार्थं यावदतद्विषयत्वादिति प्रथम निदर्शनस्य, अर्थेन चेत्यादिना द्वितीयनिदर्शनवैधर्म्य दर्शयति- अर्थेन सता वृक्षोऽतिदिश्यते प्रत्यक्ष: 15 सन् परोक्षेण धर्मेण - विशेषेण सामान्येन [वाs] सता वा - खपुष्पादिना वा, नक्षत्रादीनामतद्विषयत्वात्प्रत्यक्षनिर्देश्यस्य पिण्डस्य देवदत्तार्थस्य [[] तद्विषयत्वात् वृक्षस्यार्थविषयत्वाच्च वैधर्म्यम्, तस्मान्न दृष्टान्तः, नक्षत्राद्यतिदेश्यो न भवति पुष्यः, अस्वविषयत्वात्, स्थाणुनेव पुरुषः, पुरुषेण वा स्थाणुरिति, यद्यतद्विषयेणाप्यतिदिश्येत घटादावपि नक्षत्रं तारा घट इत्यतिदेशवृत्तिर्युक्ता स्यात्, अतद्विषयत्वात्, पुष्यवदित्यतिप्रसङ्गः ।
१ सि. क्ष. डे. नयतिविष० । २ सि. क्ष. छा. डे. न सा० । ३ सि. क्ष. छा. 'नादृष्टा० । द्वा० २१ (९८)
त्रिलिङ्गता सम्भवति वा न वेति विचारे प्रस्तुते विभिन्नलिङ्गकनाना शब्दोपन्यासो विरुद्धः भूतिर्भवनं भाव इति, विभिन्नार्थत्वेनैकार्थत्वाभावादननुरूपत्वादित्याह-तटशब्दस्येति । किञ्च भूतिभवनभावशब्दानामेकार्थत्वे ते शब्दाः सामान्यवाचकाः सम्पन्नाः, तथा चेदमुदाहरणं सामान्यविषयम्, न विशेषविषयं पर्यायनयाभीष्टम्, पर्यायनये हि भावशब्दवाच्यः कर्तेवैको विशेषः प्रधानरूपः, न स प्रकृत्यर्थक्रियावाचकभूत्यादिशब्दगम्यः, तस्मान्न तस्य दृष्टान्तत्वमित्याह- इतश्च न घटत इति । पर्यायनयमतेन तदुदाहरणत्वासम्भवं निरूपयति-न पर्यायनयस्येति । विशिष्ट एवेति विलक्षण एवेत्यर्थः । भूत्यादिशब्दानां नास्त्यर्थेकत्वमेकभवनस्या- 25 सत्वात् तस्यासत्त्वच्च सामान्यरूपतया न्यग्भूतत्वात्, न्यग्भूतत्वच प्रकृत्यर्थत्वेनाप्रधानत्वादित्याह तस्मादिति । पर्यायनयसम्मतार्थमाह - विशेषभ वनस्येति, प्रत्ययार्थत्वेन प्रधानभूतं विशेषभवनं भूत्यादिशब्दवाच्यसामान्यार्थविलक्षणैकार्थरूपमतो भूत्यादिनानाशब्दवाच्यसामान्यरूपैकार्थासिद्ध्या न दृष्टान्ततेति भावः । अथ विवक्षाविशेषेण शब्दप्रवृत्तेः सामान्याथैर्नक्षत्रादिशब्दैर्देवदत्तविशेषविषयः पुष्योऽतिदिश्यते पुष्यो नक्षत्रमिति यथा घटोऽर्थेन सामान्येनातिदिश्यते घटोऽयमर्थ इति, तदुक्तं पूर्वपक्षिणाऽनूद्यः निराकरोति - यदप्युक्तमिति । व्याकरोति तदुक्तप्रत्युच्चारणमिति । दृष्टान्तदान्तिकयोरतद्विषयत्वतद्विषयत्वाभ्यां 30 वैषम्यान्न नक्षत्रतारार्थातिदेशविषयः पुष्य इति समाधत्ते - उत्तरपक्षस्त्विति । एतदेव मानमुखेनाह-नक्षत्राद्यति
Jain Education International 2010_04
جایی
For Private & Personal Use Only
20
www.jainelibrary.org