________________
७७४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे त्रिलिङ्गत्वात् , तथा न स्त्रीत्वं पुंस्त्वात् , ततोऽस्त्रीपुंसौ नपुंसकत्वात् , इतरवत् दृष्टान्तोऽत्र, पर्वतनदीत्यादि, स्यान्मतं पर्वतः पुमान् तद्विषयस्तटः, नदी स्त्री तद्विषया तटी भवनं नपुंसकं तद्विषयं तटं तस्मात् त्रिलिङ्गत्वं विशिष्टविषयमिति, एतच्च न, पुमादिभिन्नबाबाचेकलिङ्गत्वात् एकस्मिन् देहे बाहुः पुमान् ,
जिह्वा स्त्री, अक्षि नपुंसकमिति नियतलिङ्गत्वान्नैतदपि पुष्कलम् , किश्चान्यत् अर्धादिषु च विशेषादर्शना5 दपरिहारात् तन्निवर्त्तते, अर्धचः अर्धचं गोमयः गोमयमित्यादीनां स्त्रीलिङ्गाभावात् त्रिलिंगत्वं नैकार्थम् ।
आह
नन्वेकस्य दृष्टं त्रिलिङ्गत्वं भूतिभवनं भाव इतीति चेन्न, यदि वयं दृष्टत्वादेव त्वादृशा इव प्रतिपद्यामहे तदा किं विवादेन, तदेव दुईष्टम् , अपि चेदं साध्यम् , यथार्थाभिधानशब्द
नयमतेन भिन्नत्वात् , अपि च भावो वेत्येतदपि साध्यम् , प्रकृत्यर्थस्य न्यग्भूतत्वात् , कर्थस्यैव 10 सद्भावात् , अपि चैकस्य त्रैलिङ्गयायुक्तिविचारे नानालिङ्गनानाशब्दोपन्यासोऽतिविस्पर्धते, एक
भवनासत्त्वादर्थैकत्वमपि नैव, सामान्यभवनस्यैकस्य न्यग्भूतत्वात् विशेषभवनस्य भूत्यादिविशिष्टैकरूपत्वात् तस्माददृष्टान्तः।
__ (नन्विति) नन्वेकस्य दृष्टं त्रिलिङ्गत्वं भूतिर्भवनं भाव इत्यतोऽव्यभिचार इति चेन्नेत्युच्यते यदि वयमित्यादि, यदि लोके प्रयोगो दृष्ट इत्येतावता प्रतिपद्यामहे त्वादृशा इव परप्रत्ययाः तटे दृष्टत्वादेव कस्मान्न 15 प्रतिपद्यामहे ? किं विवादेन तस्मात्तदेव दुर्दृष्टं-प्रसिद्धिरेव दुःप्रसिद्धिरित्यर्थः, अपि चेदमित्यादि, भूतिर्भवनं भाव इत्येतेऽपि त्रयोऽर्था यथार्थाभिधानशब्दनयमतेन भिन्नाः, तस्मादेतत्साध्यं [अ]सावप्येकोऽर्थोऽनेक इति अपि चे भावो वेत्येतदपि साध्यं भावः-क्रिया न कर्ता, भूवादिशब्दाभिधेयः, स च शब्दनयस्य नास्ति,
पर्वतः नदी भवनश्चेति तत्सम्बन्धिनस्तटस्य सम्बन्धिलिङ्गतेति पूर्वपक्षयति-पर्वतेति। व्याचष्टे-स्यान्मतमिति । विषयविशेषा
भावेऽप्येकस्मिन्नेव पुरुषादौ बाह्वाद्यवयवानां विलक्षणलिङ्गता दृष्टेति विषयविशेषामिसम्बन्धाल्लिङ्गव्यवस्थापनमसम्भवीत्युत्तरयति20 पुमादिभिन्नेति । ननु वस्तुमात्रस्य स्थितिप्रसवसंस्त्यानलक्षणं त्रिलिङ्गत्वमपि नास्ति, अर्द्धर्चादिषु लिङ्गद्वयस्यैव दर्शनात् , अर्द्धः,
अर्द्धर्चमिति, तत्र हि स्त्रीलिङ्गं नास्ति, 'अर्द्धर्चाः पुंसि च' (२-४-३१) इति पुनपुंसकयोरेवानुशासनादित्याह-अर्द्धर्चादिषुचेति, लिङ्गविशेषव्यवस्थापनविशिष्टविषयताया अदर्शनाद्विशिष्टविषयत्वस्य दोषपरिहाराक्षमत्वात् सर्वत्र त्रिलिङ्गताया असिद्धेनैकं त्र्यात्मकमतो द्रव्यार्थतां त्यक्त्वा विशेष एव भवतीत्याशयः । त्रिलिङ्गत्वं नैकार्थमिति, लिङ्गानां न परस्परं सामानाधिकरण्यमित्यर्थः । अथ
तेषां परस्परं सामानाधिकरण्यमेव पुनः शङ्कते-नन्वेकस्येति । सङ्घटयति-नन्वेकस्य दृष्टमिति, इयं भूतिरिदं भवनमयं 25 भावः, इदं वस्तु इयं व्यक्तिरयमर्थ इति त्रिलिङ्गानां शब्दानां वस्तुमाने प्रवृत्तिदृश्यतेऽतो न व्यभिचारस्त्रिलिङ्गताया इति भावः ।
ननु दृश्यन्त एव लोके तथाविधाः प्रयोगाः, किं तैः, न हि वयं निमित्तविशेषव्यतिरेकेण त्रिलिङ्गतां लोकप्रयोगमात्रेण प्रतिपद्यामहे, यदि तन्मात्रतः प्रत्यपद्येमहि तर्हि व विवादः स्यात्, परन्तु तथाप्रयोगप्रसिद्धिः केवलं दुःप्रसिद्धिरेव, न तु स्वीकारयोग्येत्याशयेनोत्तरयति-यदि लोके प्रयोग इति । भूतिर्भवनं भाव इति त्रिलिङ्गमेकार्थमिति नास्माकं सम्मतमपि तु तत्प्रतिपाद्या
अर्था विभिन्ना एव, तस्मादेकस्यार्थस्यानेकत्वं साध्यमेव, न तु सिद्धमित्याह-भूतिर्भवनमिति । भूवादिधात्वर्थो भावः 30 क्रिया न तु कर्ता, सा नैव भावः, भवतीति भाव इति व्युत्पत्त्या तस्य कर्तृवाचित्वात् , क्रियायाश्च प्रकृत्यर्थत्वेन गुणभूतत्वात् कर्बर्थस्यैव प्रधानतया सत्त्वादेकात्मिकायाः क्रियाया भावत्वं साध्यमेवेत्याह-भावो वेति । ननु तटस्यैकस्य तटस्तटी तट मिति
१ सि. इतरवतहः । क्ष. छा. डे. इतरत्वना ।२ सि.क्ष... छा. त्रायाद्वा । ३ सि.क्ष. छा. 'चाभावो ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org