________________
लिङ्गाभावापादनम् ]
द्वादशारनयचक्रम्
नात्मकत्वं तस्यार्थस्य सिद्धं त्वयैवाभ्युपगतत्वात् त्र्यात्मकत्वस्य, स्त्रीवदिति - स्तनकेशवत्याः प्रसवाभाववदिति, एवं शेषसाधने गतार्थे, यावत् स्त्रीपुंसवदिति, एष बाह्यख्यादिनिदर्शनबलेन गोचरनिषेधः कृतः, अधुना तस्यैवार्थस्य त्रित्वापेक्षया क्रियते-अथ चेत्यादि साधनानि गतार्थानि यावत्तटीवदिति, एवं लिङ्गाभाव एव तटत्वादीनां प्रसवादिधर्माभावे गोचरविशेषाभावादित्युपनयः ।
न लिङ्गाभाव एव दोषः, किं तर्हि ? -
ततश्चासत्त्वमप्येषां मूलोद्वर्त्तनेनाक्रियाव्ययत्वे सत्यलिङ्गत्वात् खपुष्पवत्, अथोच्येत नन्वेवं प्रपञ्चेन संस्त्यानात्मकत्वादिना त्रिलिङ्गत्वं व्यवस्थापितमेवेत्येतच्च न, लिङ्गव्यवस्थापनहेत्वभावात्, एकार्थे सन्निधिभावे वा स पुमानेव न स्यात् स्त्रीत्वाद्देवदत्तादिवत्, न स्त्री पुंस्त्वात्, ततोऽस्त्रीपुंसौ नपुंसकत्वात्, पर्वतनदीभवनविषयत्वात्रिलिङ्गत्वं विशिष्टविषयमित्येतच्च न, पुमादिभिन्नबाह्वाद्येक लिङ्गत्वात्, अर्धर्चादिषु च विशेषादर्शनादपरिहारात् ।
10
( ततश्चेति ततञ्च सत्त्वमप्येषां मूलोद्वर्त्तनेनाक्रियाव्ययत्वे सत्यलिङ्गत्वात्, खपुष्पवत्, मा भूत्पचत्यादिस्वरौद्याख्याताव्ययाभिधेयार्थवत् सत्त्वाऽऽशङ्केत्य क्रियाव्ययविशेषणम्, अथोच्येतेत्यादि, परे - णोच्येत परिहारः- नन्वेवं प्रपचन- गोचरलिङ्गनिराकरणव्याख्यानेन संस्त्यानात्मकत्वादित्यादिना त्रिलिङ्गत्वं स्वं स्वं लिङ्गव्यवस्थापनहेतुं परिगृह्णता व्यवस्थापितमेव त्वया, यथा न तटी संस्त्यान[म् ] प्रसवात्मकत्वात्, पुरुषवादित्यात्थ तथा न स्त्रीलिङ्गम्, प्रसवात्मकत्वात् पुरुषवदिति, आदिग्रहणात् संस्त्यानानुभयत्वाभ्यामपि 15 त्रयाणां त्रिलिङ्गत्वहेतुत्वमित्येतच्च न, लिङ्गव्यवस्थापन हेत्वभावात्, - ननूक्तं त एव हि प्रसवादयो लिङ्गव्यवस्थापनहेतवो न सन्तीति साधितमनन्तरमेव, तस्मान्न किञ्चिदेतत्, अभ्युपगम्यापि प्रसवादीनां एकार्थे सन्निधिभावे वा स पुमानेव न स्यात् स्त्रीत्वाद्देवदत्तादिवत् तस्य स्त्रीत्वं त्वयाऽभ्युपगतम्
www.
७७३
संस्त्यानादयः, यदा च त एव परस्परात्मकास्तदा ते कथं व्यवस्थापका भवेयुः, अव्यावृत्तत्वादिति तात्पर्यम् । प्रसवादीनां परस्परात्मकत्वं प्रसाध्य तटादौ लिङ्गाभावं साधयति अधुनेति, दोषान्तरमभिदधाति - ततश्चेति । व्याकरोति ततञ्चासत्त्वमिति, तटा - 20 दयोऽसन्तः, अक्रियाव्ययत्वे सत्यलिङ्गत्वात्, खपुष्पवदिति मानेनैतेषामसत्त्वमेव भवेत्, लिङ्गादेर्मूलभूतस्य निदानस्य निराकृतत्वादिति भावः । सत्यन्तविशेषणकृत्यमाह मा भूत् पचत्यादीति, पचत्यादयोऽलिङ्गाः सन्तश्च तद्वत् तटादीनामलिङ्गत्वेऽपि सत्त्वं स्यात्तद्वारणाय सत्यन्तमिति भावः । ननु गोचरविशेषस्य लिङ्गस्य चाभावं साधयता भवतैव तटादेर्लिङ्ग व्यवस्थापन हेतुवर्णनद्वारा त्रिलिङ्गत्वं व्यवस्थापितमेवेत्याशङ्कते - नन्वेवं प्रपञ्चेनेति । तद्दर्शयति-यथा न तटीति, अनेन तव्याः संस्त्यानात्मकत्वाभावं साध प्रसवात्मकत्वं व्यवस्थापितम् । तथा तटी न स्त्रीलिङ्गं प्रसवात्मकत्वादित्यनेनापीत्याह तथा नेति । एवं न तटः प्रसवः संस्त्याना - 25 त्मकत्वात्, स्त्रीवत् न तट: पुलिङ्गम्, संस्त्यानात्मकत्वात् स्त्रीवत् न तटं नपुंसकं, अनुभयात्मकत्वात्, स्त्रीपुंस भिन्नत्वे सति स्त्रीपुंसदृशो नपुंसको भवतीत्येवं त्र्यात्मकत्वं व्यवस्थापितमित्याह - आदिग्रहणादिति । लिङ्गव्यवस्थापन हेतोरेव प्रसवादेरभावस्यान्योन्यखरूपापत्त्या प्रसञ्जितत्वेन नायं दोष इत्युत्तरयति - ननूक्तमिति । ननु तटादेः प्रसवाद्येकैकात्मकत्वे स्यान्नामैकै कलिङ्गता, प्रसवादीनामभ्युपगमेऽपि यदा तु तटादि सदा त्र्यात्मकमेव तदा केन लिङ्गेन तेन भाव्यमित्याशयेनाह - अभ्युपगम्यापीति । देवदत्ता यथा न पुमान् स्त्रीत्वादिति दृष्टान्तमाह-देवदत्तादिवदिति । तटशब्दस्य त्रिलिङ्गत्वं विषयविशेषापेक्षम्, विषयविशेषाव 30
१ सि. क्ष. छा. डे. 'गतत्वादात्मकस्य । २ क्ष. व्यषन्ने । ३ सि. छा. स्वराव्याख्याता० । ४ सि. क्ष. डे. छा. तथातः पुलिङ्गं ।
Jain Education International 2010_04
For Private & Personal Use Only
5
www.jainelibrary.org