________________
७७२
www
wor
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे . तथा तटस्तटी तटमित्यत्र कतम वा विशेषमुपादाय लिङ्गभेदः? कतमद्वा सामान्यमतिदिश्यते विशेषप्रतिपादनार्थम् ? ननु स्थितिप्रसवसंस्त्यानविशेषविषयो लिङ्गभेदः, न, तटतटीतटानां विषयविशेषो नास्त्यभिन्नस्वरूपत्वात् , घटघटस्वात्मवत् , गोचरविशेषोपपत्तौ वा सोऽपि विशेषो नास्ति, प्रसवस्य संस्त्यानात्मकत्वात् , स्त्रीवत् संस्त्यानस्य प्रसवात्मकत्वात् पुंवत् 5 संस्त्यानप्रसवयोः स्थित्यात्मकत्वात् , स्त्रीपुंसवत् , न तटी संस्त्यानम् , प्रसवात्मकत्वात् , तटवत् , न तटः प्रसवः, संस्त्यानात्मकत्वात् तटीवत् , न तटं नपुंसकम् , स्थित्यनात्मकत्वात् तटीवत् अथ च...............तटीवत् , एवं लिङ्गाभाव एव तटत्वादीनां, प्रसवादिधर्माभावे गोचरविशेषाभावात् ।
तथा तटस्तटीत्यादि, कतमं वाऽत्र विशेषमुपादाय लिङ्गभेदः ? कतमद्वा सामान्यमतिदिश्यते 10 विशेषप्रतिपादनार्थ ? न सम्भवतीत्यर्थः, आह-ननु स्थितिप्रसवसंस्त्यानविशेषविषयो लिङ्गभेदः, 'संस्त्याने स्यायते ट् स्त्री सूतेः सप्प्रसवे पुमान्' । 'उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ (महाभाष्ये० ४-१-३ सूत्रे) स्थितिर्नपुंसकं स्त्री[सं]स्त्यानं प्रसवः पुमानेवार्थाः सर्वमूर्तिषु सम्भवन्त्यत्र यो विशेषो विवक्ष्यते तद्विषयो लिङ्गभेद इत्येतच्च, न, तटतटीतटानां विषयस्य विशेषः एकत्वादर्थस्य स एव विशेषो नास्ति
यद्विषयो लिङ्गभेदः स्यात्-स नास्ति, अभिन्नस्वरूपत्वात् , घटघटस्वात्मवत्-यथा घट एव घट स्वात्मा 15 तथा तट एव तटी तटञ्च, अभिन्नस्वरूपत्वान्नास्ति विशेषः, आह-गोचरविशेषोपपत्तेः-भित्त्यादिसंस्थाना
तटी कटकादिसंस्थानस्तटः कुड्यादिसंस्थानं तटमिति, तस्मा द्विषयविशेषोपपत्तेर्लिङ्गविशेषोपपत्तिरित्यत्रोच्यतेगोचरविशेषोपपत्तौ वा सोऽपि विशेषो नास्ति, यस्मान्न तयोर्गोचरः प्रसवस्य संस्त्यानात्मकत्वात् , संस्त्याहेतुं पृच्छति-तथा तट इति। व्याचष्टे-कतममिति, नियतव्यञ्जनसम्बन्धरूपलौकिकलिङ्गत्रयस्याचेतने तटस्तटी तटमित्या
दावसम्भवाल्लिङ्गभेदप्रयोजको विशेषः क इति प्रश्नः, लिङ्गानां वा किं सामान्य स्वरूपम् , यद्भावादत्र तस्वाव्यावर्तकतया विशेषो 20 वाच्य इत्यपरः प्रश्नः । पूर्वपक्षसम्मतं लिङ्गखरूपमाह-नन स्थितीति. सामान्यं गुणरूपं स्थितिः
नामन्वयिप्रत्ययनिमित्तस्य सामान्यरूपतया नपुंसकम् , प्रसवः-पदार्थानामुपचयावस्था-आविर्भावः-प्रकाशः सत्त्वधर्मः, प्रवृत्तिः क्रिया रजोधर्मः, एवञ्च आविर्भावप्रकाशनियमरूपसत्त्वतमोनुगतः प्रवृत्ते रजोधर्मलक्षगाया विशेषः पुंस्त्वम् , संस्त्यानं तिरोभावो गुणानां स्त्री, इत्येवं लिङ्गभेद इत्यर्थः । तत्र भाष्यकारवचनमुपन्यस्यति-संस्त्यान इति. अस्योत्तरार्धी भाष्ये 'तस्योक्ती लोकतो नाम गुणो वा लुपि युक्तवत् इति दृश्यते। स्त्यायति-संहननमापद्यतेऽस्यां गर्भ इति स्त्री, स्त्यैधातोईट्प्रत्ययेन 25 सिद्धः, सूते:-सूधातोः सप सकारस्य पकारादेशो भवति सूते इति पुमान्-अपत्यं जनयतीत्यर्थः, मसुन् प्रत्ययेन निष्पन्नः, इति तदर्थः । तत्रैव भाष्ये वचनान्तरमुक्तं दर्शयति-उभयोरन्तरमिति । यत्र यत्र लिङ्गान्तराभावे तुल्यजातीयं स्त्रीपुंसव्यतिरेकेण लिङ्गान्तरं तन्नपुंसकमित्यर्थः, अस्य पूर्वा| भाष्ये-'स्तनकेशवती स्त्री स्यात् लोमशः पुरुषः स्मृतः' ॥ इति । कारिकां व्याचष्टे-स्थितिरिति । सर्वाश्च मूर्तयः स्थितिप्रसवसंस्त्यानरूपाः, तथापि योग्यशब्दनिबन्धनविवक्षानियमाश्रयेण कस्यचिदेव लिङ्गभेदस्य कस्मिंश्चिच्छब्दे संस्कारार्थ व्यापार इति विवक्षैव विशेष आश्रीयत इति भावः । तत्र आचार्यो दोषमाह30 तटतटीतटानामिति, अत्र तटस्यैकत्वेन विषयविशेषो नास्तीति कथं तटशब्दस्य लिङ्गत्रयोपपत्तिरिति भावः । अविशेषत्वे
हेतुमाह-अभिनेति, तटस्तटी तटमित्यत्र तटस्वरूपे भेदाभावादिति भावः। तं भावं दृष्टान्तेन व्यञ्जयति-यथा घट एवेति । विषयविशेषमुपपादयति वादी-गोचरेति, गोचरो विषयः । लिङ्गभेदप्रयोजकविषयाभावं संस्त्यानप्रसवस्थितीनां परस्परात्मकत्वादर्शयति-यस्मादिति, यतः संस्त्यानप्रसवयोर्विषयो नास्ति परस्परात्मकत्वात्तयोरिति भावः, पुलिङ्गादेर्व्यवस्थापकतया हीष्टाः
१ सर्वमूर्तिषु, इदं पदं सि. क्ष. डे. प्रतिषु नास्ति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org