________________
द्वादशारनयचक्रम्
लिङ्गविषयप्रयोगासाधुता]
१ वर्त्तते, एकस्मिंश्च सूक्ष्मशर्कराकणे सिकता इति, किंशब्दस्य क्षेपार्थत्वात् कया विवक्षया-किं तया विवक्षया विपरीतार्थयेति ।
नित्यमपि बहुवचनं बह्ववयववृत्तत्वादिति चेत् , एकघटेऽप्यत एव नित्यं बहुवचनं प्राप्तम् बिन्द्वादाविवापः, अप्सुवैकवचनं स्यात् नित्यमपि, बह्ववयववृत्तत्वाद्धटवत् , अतिशय्येकात्मनिरासेन त्वया विशेषविषयप्रयोगो गवादिवत्साधुरिष्टः सोऽपि तत एव न्यायाव्यभिचरति, 5 सोऽप्शब्द एकवचनान्त एव स्यात् , बह्ववयवात्मकत्वेऽप्येकमिति गृहीतत्वात्, तन्तुपटवत् ।
(नित्यमपीति) नित्यमपि [बहुवचनं] बह्ववयववृत्तत्वादिति चेत् स्यान्मतं बहवोऽवयवाः परमाणुव्यणुकादयो बिन्दावपि तदपेक्षया बहुवचनमाप इति, अत्रोच्यते-एकघटेऽपीत्यादि, अत एव-त्वदुक्तबह्ववयववृत्तत्वादिति हेतोरेकस्मिन् घटेऽपि नित्यं बहुवचनं प्राप्तम् , बिन्द्वादाविवाप इत्यनिष्टापादनद्वारेण परोक्तहेतोव्यभिचारः, अप्सु वेत्यादि-अपशब्दादप्येकवचनं स्यात् नित्यमपि, बह्ववयववृत्तत्वाद्भूटवत् , अनिष्टञ्चैतत् , 10 अतिशय्येकात्मकेत्यादि-यथाऽस्माभिरुक्तोऽतिशय्येक एवात्मा भवति यस्य किश्चिदिति तस्य निरासेन त्वया विशेषविषयप्रयोगो गवादिवत् साधुरितीष्टस्तत्रेदं तेऽनिष्टमापाद्यते, कस्मात् ? तत एव न्यायात्-बिन्दौ वर्तमानोऽप्शब्द एकवचनान्तो न प्रयुज्यते, विशेषविषयत्वात् , गवादिवदतोऽयमपि न्यायो व्यभिचरतीति, किञ्चान्यत्-सोऽपशब्द एकवचनान्त एव स्यात् , बह्ववयवात्मकत्वेऽप्येकमिति गृहीतत्वात् , तन्तुपटवदिति गतार्थत्वान्न व्याख्यायते, एवं तावदयं संख्याविषयो विचारो न घटते ।
लिङ्गविषयोऽपि विशेषप्रयोगसाधुत्वन्यायो न घटते, अथैकत्वसंख्याभेदानुपपत्तिवल्लिङ्गभेदानुपपत्तिरपीत्यत आह
तस्या विपरीतार्थवृत्तित्वादप्रमाणत्वमेवेत्याशयेनाह-किं शब्दस्येति। ननु बिन्द्ववयवगतं बहुत्वं विशेषमुपादायस मुदायसमुदायिनोरमेदादेको जलबिन्दुराप इति बहुवचनान्तेनोच्यत इति शङ्कते-नित्यमपीति । पूर्वपक्षं व्याचष्टे-स्यान्मतमिति । एवं तर्हि सर्वत्रावयवगतसंख्यामुपादायैकस्मिन्नपि घटादौ बहुवचनान्तो घटादिशब्दः प्रयुज्यतां बह्ववयववृत्तताया हेतोस्तत्रापि सत्त्वादित्युत्त- 20 रयति-अत्रोच्यत इति । यदि घटादौ समुदायगतैकत्वसंख्यापेक्षया घट इत्येवमेकवचनान्तेन प्रयुज्यते तर्हि अपशब्दादपि तथैवैकवचनं गृह्यतामित्याह-अपशब्दादपीति, सदा बह्ववयववृत्तत्वेऽप्येकत्वस्य विवक्षितत्वादित्याशयेन हेतुमाह-बह्वेति । ननु मयोक्तं ज्ञानमेव प्रधानं शब्दस्य च ज्ञानोपकारित्वम् , ज्ञानेनैव हि शब्द उत्थाप्यते, अर्थप्रत्यायनार्थत्वात् शब्दप्रयोगस्य, तस्मादर्थः प्रधानं न शब्दः, अर्थोऽपि ज्ञानार्थत्वान्न प्रधानम् , ज्ञानमेव प्रधानम्, न च शब्दज्ञानयोरैक्यम्, प्रत्यक्षप्रतीतिविरोधा. भ्यामिति, एतन्निरासेनान्योन्यरूपापत्तिमनभ्युपगच्छन् सामान्यनिरपेक्षो विशेष एव शब्दार्थ इति विशेषविषयविवक्षया विशेष एव र शब्दप्रयोग साधुं मन्यसे तथा च सति बिन्दौ वर्तमानस्यापशब्दस्य विशेषविषयत्वाद्यद्बहुवचनान्तत्वमिच्छसि तदपि घटादौ व्यमिचारान युज्यत इति स्वयमेव मूलकारो भाष्ययति-अतिशयोति । तत एव न्यायादित्युक्तं न्यायं दर्शयति-बिन्दाविति । व्यभिचारं ग्राहयति-सोऽपशब्द इति, तन्तूनामनेकत्वेऽपि पट इत्येकत्वेन गृहीतत्वाद्यथा एकवचनान्त एव भवति तथाऽपशब्दोऽपि बह्ववयवत्वे सत्यप्येकमिति गृहीतत्वात् एकवचनान्त एव स्यादन्यथा पटोऽपि बहुवचनान्त एव भवेदिति भावः । लिङ्गविषयेऽपि ये विशेषप्रयोगास्ते साधवो न भवन्तीत्येतमर्थ वर्णयतीति निरूपयति-लिङ्गविषयोऽपीति। लिङ्गविषयविशेषप्रयोगोपन्यसनमुखेन 30
१ सि. छा. यत्सकिंचिदिति तस्येनिराशेनतया। २सि. डे. छा. प्रयोगाव्यादिवत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org