________________
७७०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे र्थवत्सामानाधिकरण्यमुपपन्नम्, उक्तं हि 'यस्तु प्रयुक्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले। सोऽनन्तमाप्नोति जयं परत्र वाग्योगविदुष्यति चापशब्दैः'। (महाभा० १-१-पस्पशाह्निके) इति विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेर्विषयविशेषपरिग्रहणे साधुताऽसाधुता च शब्दानाम् , गावी गोणी गोता गोपोतलिका इत्यादयो गमका अगमकाश्च, यद्येवं तर्हि कया विशेषविवक्षया आप 5 इति दारा गृहा सिकताः? इति ।
ननु पुष्यस्येत्यादि पूर्वपक्षो विवक्षाविशेषार्थशब्दप्रयोगन्यायाश्रयेण दोषपरिहारार्थो यावद्गमकाश्चागमकाश्चेति, पुष्यः पुमान् 'देबविशेषः तद्विषयौ-तदर्थौ नक्षत्रतारासामान्यार्थी घटविशेषविषय
मृत्सामान्यार्थवत्सामानाधिकरण्यं तस्मादुपपन्नम् , अस्मिंश्च ज्ञापकमाह-उक्तं हीत्यादि-भाष्यकारेणोक्तम् _ 'यस्तु प्रयुते' (महाभाष्ये १-१ पस्पशाहिके) इति श्लोकः, विशेषे विवक्षिते प्रधाने गुणभूतान शब्दान प्रयुते 10 यः कुशलः, अर्थगत्यर्थत्वाच्छब्दप्रयोगस्य तदर्शयन्नाह-विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेरिति, यथावद्व्यवहारकाले यो यः शब्दो व्यवहारकाले यस्य विवक्षितार्थस्य विशिष्टस्य विशिष्ट एव गमक इत्यभिमतः स एव स एव तत्र प्रयुज्यते, नान्योऽन्यत्र वा, गौणमुख्यादिभावेन स्वाभिधेयप्रत्यायनसमर्थत्वात् सर्वशब्दानाम् , सोऽनन्तमाप्नोति जयं परत्र, कः ? वाग्योगवित्-य एवमुक्तविशेषविषयशब्दार्थसम्बन्धज्ञः, दुष्यति
चापशब्दैरवाग्योगवित्-विशेषविषयप्रयोगानभिज्ञः, तस्माद्विवक्षापूर्वकत्वाच्छब्दप्रवृत्तेर्विषयविशेषपरिग्रहणे 15 साधुताऽसाधुता च शब्दानाम्-असाधुत्वाभिमतानामपि ग[]व्यादीनां साधुत्वं विशेषविषयत्वात् , साधुत्वेनाभिमतानामपि गवादीनामसाधुत्वमिति, तदर्शयति-गावी गोणीत्यादि गतार्था भावना शब्दव्युत्पत्त्या, अत्राचार्य आह-यद्येवं तीत्यादि यावत् सिकता इति, एषोऽपि न्यायो व्यभिचारान्न प्रभवति, उदाहरणैयभिचारयिष्यन्नविजानन्निव पृच्छति तमेव-कया विशेषविवक्षयेति, आप इति बहुवचनमेकस्मिन्नपि बिन्दौ दृष्टम् , नात्र सामान्यविशेषभावोऽस्ति, तथैकयोषिति दारा गृहा इति बहुवचनं, कया [विशेष] विवक्ष्येति
20 विशेषे पुष्यशब्दो वत्तते नक्षत्रताराशब्दौ तु नक्षत्रसामान्यार्थी, तस्मात् सामान्यविशेषत्वात्तयोः सामानाधिकरण्यं युज्यते,
यथा घटो मृदिति तयोः सामानाधिकरण्यम्, विवक्षाविशेषेण शब्दप्रवृत्तः, यस्मिन्नर्थे विवक्षया शब्दः प्रयुज्यते तदर्थ एक स साधुर्भवति, अन्यार्थे त्वसाधुरिति भावः । एतदर्थसंवादिनं भाष्ये उपन्यस्तं कात्यायनकृतभ्राजाख्यश्लोकान्तर्गतं श्लोकमुपन्यस्यतिभाष्यकारेणोक्तमिति । तं व्याचष्टे-विशेषे विवक्षित इति । विवक्षितार्थव्यतिरिक्तार्थे शब्दः कथं वर्तत इत्यत्राह-गौणमुख्यादिभावेनेति, सर्वे सर्वार्थवाचका इत्यभियुक्तोक्तेः विवक्षाऽविवक्षाकृतो गौणमुख्यभावः, तेन सर्वार्थवाचकत्वं शब्दाना25 मिति भावः । पर्यवसितार्थमाह तस्माद्विवक्षेति, वक्तु रिच्छाधीना शब्दप्रवृत्तिः, व्यवहारकाले यं विशेषार्थमवलम्ब्य शब्द
: साधुरन्याथै चासाधुरिति भावः । असाधुत्वेनाभिमतोऽपि साधुर्भवति साधुत्वेनाभिमतोऽप्यसाधुर्भवतीति दर्शयति-असाधुत्वाभिमतानामपीति । विषयविशेषविवक्षया शब्दानां यदि साधुत्वासाधुत्वे तर्हि सा विवक्षा आपः दारा गृहा इत्यादौ प्रदर्शनीया, कया बिशेषविवक्षयाऽर्थस्यैकत्वे बहुवचनान्तेन शब्दः प्रयुज्यत इत्याचार्यः पृच्छति-यद्येवं तहीति । विषयविशेषविवक्षावैधुर्येऽबादिशब्दास्तथा प्रयुज्यन्त इति व्यभिचारं दर्शयति-आप इतीति । कस्याश्चिद्विवक्षायाः कल्पनेऽपि
१ देवो वि० छा. तद्विपर्ययौ। २ सि. क्ष. डे. छा. °हारयुक्तौ ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org