________________
शब्दार्थयोरवाचकावाच्यत्वे ]
द्वादशारनयचक्रम्
७६९.
wwwwww
तत्यादि, बहूनां तर्हि लक्षणानां ' धातुसम्बन्धे प्रत्ययाः' ( पा० ३ | ४ | १ ) 'व्यत्ययो बहुलम्' ( पा० ३-१-८५ ) इत्येवमादीनामलक्षणीकरणं तल्लक्ष्याणाञ्च अग्निष्टोमयाजी अस्य पुत्रो जनिता इत्येवमादीनामलक्ष्यीकरणं प्रतिपत्तेश्चाप्रतिपत्तित्वं सर्वस्यासत्यत्वात्, तदसत्यत्वं प्रत्याय्यार्थविपर्ययवृत्तत्वात्, प्रहासोक्तिवदिति गतार्थम्, न च तेषु लक्षणेषु लक्ष्येषु चासत्यमतिर्भवति, किचान्यत्-पर्व - ताधिकरणर्कर्मवचनासत्यमतिः, इह पर्वते वसतीत्येतस्मिन्नधिकरणार्थे पर्वतमधिवसति अध्यास्त इत्यादि - 5 कर्मत्वायुक्तेः, अत्र प्रयोगः - पर्वतम् [ धिव] सतीत्याद्यसत्यमिदं स्वकारक व्यधिकरणप्रवृत्तत्वात् देवदत्तो भूयत इति, यथेति, एतस्य भावनार्थं 'आधारोऽधिकरणम्' ( पा० १- ४-४५ ) इत्यादि यावदन्यस्यानाधारत्वाद्वेति गतार्थो ग्रन्थः, एतच्च क्षेत्रविषयमयथार्थत्वमुक्तम्, तथा कालविषयमयथार्थत्वसाधनं भूतमनागतमिति च विरुद्धार्थमिति, अत उत्तरं शतभिषज इत्यादिभावायथार्थप्रतिपादनं गतार्थं यावत् इत्यादिषु भावतोऽयथार्थतेति एवञ्च न वाचकता शब्दस्य न वाच्यताऽर्थस्य अयथार्थत्वात् उक्तशब्दार्थवत् 'यथार्थाभिधानश्च 10 शब्द:' (तत्त्वार्थ अ. १ सू. ३५ भाष्ये) इत्युक्तम्, तत्सर्वमुपसंहृत्य साधनमाह - द्रव्यक्षेत्र कालभावविषयविसंवादवृत्तत्वादिति हेतुः व्याख्यातार्थः, खोक्तार्थनिराकरणार्थत्वादिति साधितार्थोपसंहारार्थो हेतु:, पृथगयथार्थप्रतिपादनार्थो वा उन्मत्तप्रलापवदिति दृष्टान्तः, इदञ्च साधनमतीतप्रपञ्चेन भावितार्थमिति न विक्रियते ।
NAWA
1
ननु पुष्यस्य देवविशेषविषयनक्षत्रतारासामान्यार्थत्वात् घटविशेषविषयमृत्सामान्या
पगमे बहूनां लक्ष्याणां तत्प्रतिपादकलक्षणसूत्राणाञ्चालक्ष्यत्वालक्षणत्वाभ्युपगमः प्रसज्यत इत्याह-बहूनां तर्हीति, धातुसम्बन्धे 15 प्रत्यया इति धात्वर्थानां सम्बन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः, व्यत्ययो बहुलम्, विकरणादीनां बहुलं व्यत्ययः स्याच्छन्दसीत्यर्थः, एवमादीनां लक्षणानामलक्षणीकरणं भवेदिति भावः । उदाहरणमाह-अग्निष्टोमयाजीति, अग्निष्टोमेन इष्टवा नित्यमिष्टोमयाजी भूते णिनि प्रत्ययः, जनितेति भविष्यत्कालस्तेन सहाग्निष्टोमयाजीत्यस्य भूतकालविशिष्टार्थस्य विरोधात् सम्बन्धो न स्यादित्येनेन सूत्रेणान्यथाकालप्रत्ययविधानं क्रियते, तस्मादीदृशवचनानामलक्षणत्वं, तलक्ष्याणाञ्चलक्ष्यत्वं तजन्य प्रतिपत्तेश्चाप्रतिपत्तित्वं प्राप्नोति, इष्टवानित्यादिपदानां स्वप्रत्याय्यभूतकालविशिष्टार्थविपरीतार्थप्रत्यायकत्वादेहि मन्य इत्यादिवाक्यवदिति भावः । इष्टापत्तिर्न 20 कर्त्तुं त्वया शक्येत्याह-न च तेष्विति, अग्निष्टोमयाजीति भूतकालावच्छिन्नोऽर्थो विरुद्धे भविष्यत्कालविशिष्टेऽर्थेऽध्यस्यते स्वकालमजहदेव, न ह्यध्यस्यमानं स्वरूपं जहाति गोत्वमिव वाहीके, तस्मान्नैतेषु लक्ष्येष्वसत्यत्वमतिर्भवतीति भावः । प्रहासोक्तिवदधिकरणादीनां कर्मत्वादिविधायक वचनमप्ययथार्थमित्याह- किञ्चान्यदिति, पर्वते वसतीत्यर्थे पर्वतमधिवसतीति प्रयोगो भवति, 'उपान्वध्यास:' ( १-४-४८ ) इति सूत्रेणोपादिपूर्वस्य वसतेराधारस्य कर्मत्ववचनात् पर्वतमध्यास्त इत्यत्र च ' अधिशीस्थासां कर्म ( १ - ४-४७ ) इत्याधारस्य कर्मत्वम् । अयथार्थत्वं मानप्रयोगतः साधयति -अत्र प्रयोग इति, देवदत्तो भूयत इत्यत्र देवदत्त - 25 शब्देन तृतीयान्तेन भवितव्यम्, भूयत इति भावप्रत्ययान्तत्वेन कर्तुरनभिधानादनभिहिते कर्त्तीरे तृतीयाप्रवृत्तेः, तत्र यदि देवदत्त इति प्रयुज्यते तर्हि तद्वाक्यं स्वयोग्यतृतीयाकारकासमानाधिकरणतयाऽसाधु यथा भवति तथा पर्वतमधिवसतीत्यादिवाक्यमपि स्वयोग्याधारसप्तमीव्यधिकरण विभक्तिघटितत्वेनासाध्विति भावः । एतस्येति, भावनाग्रन्थोऽत्र नोपलब्धः । तदेवं पर्वतादिक्षेत्रविषयमयथार्थत्वमुदितमित्याह - एतच्चेति । कालविषयमाह - तथाकालेति, अग्निष्टोमयाजी पुत्रोऽस्य भवितेत्यादौ भूतस्यैव भाविता गम्यते, सा च विरुद्धा, न हि यद्भूतं तदनागतम्, यच्चानागतं तद्भूतमित्ययथार्थं तथाविधं वाक्यमिति भावः । भाव- 30 विषयायथार्थत्वमाह - शतभिषज इति । पुष्यो नक्षत्रं तारा वेत्यत्र देवविशेषवाचकः पुष्यशब्दः, स च देवः सामान्यविषयेग नक्षत्रतारादिनाऽतिदिश्यतेऽतः पुष्यनक्षत्रादिशब्दयोः सामानाधिकरण्यं संभवति, यथा विशेषो घटः सामान्यभूतेनार्थेनातिदिश्यतेऽर्थोऽयं घट इति, विवक्षाविशेषेण शब्दप्रयोगादित्याशङ्कते - ननु पुष्यस्येति । व्याकरोति- पुष्यः पुमानिति, पुंसि देवादी १ सि. क्ष. डे. छा. कर्मवञ्चनासत्य० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org