________________
७६८
न्यायागमानुसारिणीव्याख्यासमेतम् _[उभयनियमारे प्रत्ययपुरुषायथार्थत्वेऽप्येषैव भावना इत्यर्थत्रयविषयमयथार्थत्वम्, इदश्च द्रव्यतः, तथा घटपटादिशेषोपपदविषयो भिन्नव्यवहारो निराक्रियते ।
(प्रत्ययेति) प्रत्ययपुरुषायथार्थत्वेऽप्येषैव भावना, प्रकृत्यविनाभावित्वात् प्रत्ययस्य प्रत्ययत्वात् एहि मन्ये रथेन यास्यति इत्यस्मात्तद्विपरीतादपि तद्वदेव प्रतिपत्त्या प्रत्ययादिलक्षणालक्षणीकरणं प्रतिपत्ते5 श्वाप्रतिपत्तित्वं यदृच्छाप्रवृत्तत्वादित्यादि यावदयमवधिः समानभावतः प्रत्ययपुरुषानुरूपेण योज्यत इति, इत्यर्थत्रयविषयमयथार्थत्वमिति निगमनम् , इतिशब्द[स्य] निगमनार्थत्वात् , अनया भावनया भावितमेव भवति-अगमकमसाध्वित्यपि द्रष्टव्यं बुद्धिचक्षुषा, इदञ्च द्रव्यतोऽयथार्थत्वम्-यस्मादहंत्वमित्यस्मद्युष्मद्रव्यविपर्ययेणायथार्थत्वमेतत् , यथा चैतत् तथा घटपटादिशेषोपपदविषयो भिन्नव्यवहारो निराक्रियते त्वं
पचतीत्यादि, कुड्याक्रोष्टुक्यादिप्रयुक्तभिन्नलिङ्गादिविपर्ययार्थशब्दप्रयोगवदिति । 10 प्रहासादिदमसत्यमेवेति चेत् , बह्वेव तर्हि लक्षणालक्षणीकरणं लक्ष्यालक्ष्यीकरणं प्रति
पत्तेश्चाप्रतिपत्तित्वम् , सर्वस्यासत्यत्वात् , तदसत्यत्वं प्रत्याय्यार्थविपर्ययवृत्तत्वात् प्रहासोक्तिवत् , पर्वताधिकरणकर्मवचनासत्यमतिश्च, इह पर्वते वसतीत्येतस्मिन्नधिकरणार्थे पर्वतमधिवसति अध्यास्त इत्यादिकर्मत्वायुक्तेः, 'आधारोधिकरणम्' (पा० १-४-४५) .... अन्यस्यानाधारत्वाद्वा, एतच्च क्षेत्रतः, कालतश्च अग्निष्टोमयाजी पुत्रोऽस्य जनितेति भूतम15 नागतमिति च विरुद्धार्थम् , शतभिषजो नक्षत्रं गोदौ ग्रामः पुनर्वसू पञ्चतारकाः, देवमनुष्या उभौ राशी, इत्यादिषु भावतोऽयथार्थता, एवञ्च न वाचकता शब्दस्य, न वाच्यताऽर्थस्य, द्रव्यक्षेत्रकालभावविषयविसंवादवृत्तत्वात् , स्वोक्तार्थनिराकरणार्थत्वात् , उन्मत्तप्रलापवत् ।
__ (प्रहासादिति) प्रहासादिदमसत्यमेवेति चेत्-स्यान्मतमेहि मन्ये रथेन यास्यति न हि यास्यसि यातस्ते पितेत्येतदसत्यमेव, प्रहासविषयत्वात् , अत एव लक्षणमुक्तं- 'प्रहासे च मन्योपपदे मन्यतेरुत्तम 20 एकवच (पा० १-४-१०६) इति तथा द्वि[बहु]वचनविषयावप्युदाहृतौ यास्यथो यास्यथेति, अत्रोच्यते-बढेव प्रत्ययपुरुषेति । भावनामेव दर्शयति-प्रकृतीति, न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्यय इति न्यायेन प्रत्ययस्य प्रकृत्यविनाभावित्वात् प्रकृतिपर एव प्रत्यय इति न्यायेन च प्रकृतिपरत्व एव प्रत्ययत्वाद् एहि मन्य इत्यादौ युष्मदर्थसामानाधिकरण्यस्य मन्य इत्युत्तमपुरुषेऽभावात् स्खयोग्यप्रकृतिपरत्वाभावेन तद्विपरीतास्मदर्थसमानाधिकरणोत्तमपुरुषयोग्यप्रकृतिपरत्वाभावेन प्रकृतिपरत्वं नास्तीति प्रत्ययलक्षणस्यालक्षणीकरणात् तथाविधप्रत्ययजन्यप्रतिपत्तेरप्रतिपत्तित्वाच्च यदृच्छाप्रतिपत्तित्वादसमीक्षितपौर्वापर्यप्रत्यय25 त्वात् प्रस्तुतप्रत्ययविसंवादाद्वाऽयथार्थमगमकमसाधु एहि मन्य इत्यादिवाक्यमिति भावः। तदेवं प्रकृत्ययथार्थत्वात् प्रत्ययायथार्थत्वात्
पुरुषायथार्थत्वात्तद्वाक्यमयथार्थ विज्ञेयमित्याह-इत्यर्थत्रयेति । अनयैवायथार्थत्वभावनयाऽगमकत्वमसाधुत्वमपि भावितमेवेत्यतिदिशति-अनयेति । अस्मत्पदार्थयुष्मत्पदार्थयोरात्मपरभूतचेतनद्रव्यापेक्षयाऽयथार्थत्वमुपपादितम्, अनयैव दिशा शेषोपपदप्रथमपुरुषविषयायथार्थत्वमपि भावनीयमित्याह-इदश्शेति। एहि मन्य इत्यादिवचनं परिहासशीलेन शालकादिना प्रयुक्तत्वादसत्या.
थमेवेति शङ्कते-प्रहासादिदमिति । व्याचष्टे-स्यान्मतमिति । एहि मन्य इत्यादी प्रहासे उत्तमपुरुषविधायकं पाणिनिसूत्र30 माह-प्रहासे चेति । एतं एत वा मन्ये रथेन यास्यति न हि यास्यथः यास्यथ वा यातौ याता वा युवयोर्युष्माकं वा पितरौ पितर इत्येवं द्विबहुवचनयोरप्युदाहाावित्याह-तथेति । समाधत्ते-अत्रोच्यत इति प्रहासविषयलक्ष्यलक्षणयोरलक्ष्यत्वालक्षणत्वाभ्यु
१ सि. क्ष. डे. छा. यस्मानाहत्व० । २ सि. क्ष. डे. छा. कुटुकादिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org