________________
प्रत्ययायथार्थता] द्वादशारनयचक्रम्
७६७ प्रत्यययोरसम्भवात् , असम्भवश्च तथाऽनर्थकत्वात् भूलतिप्शबादीनाम् , किमिव ? काकवाशितवत्-यथा वायसवाशितादीनां न कश्चिदभिधेयोऽर्थोऽस्ति तथा भूल]तिबादीनां केवलानाम् , किमर्थं तर्हि भू सत्तायाम् , 'कर्तरि कृत्' (पा. ३-४-६७ ) 'लः कर्मणि चे' (पा. ३-४-६९) त्यादिप्रकृतिप्रत्ययार्थपाठः ? इति चेदुच्यते-शिक्षणार्थन्तु चित्रभक्तिबिन्दुविन्यसनवत्-पृथगध्ययनं शिष्यान् ग्राहयामीति विभज्य प्रकृतिप्रत्ययार्थो दयते, यथैकामेव काष्ठादिभक्तिं लेखयिष्यन् चित्रकराचार्यः शिष्यान् पूर्व बिन्दुविन्यासान् । कारयति पश्चात् संयोजयति ततः सा दर्शनीया चर्रमणीया पुष्पवल्लीगृहमनुष्यस्त्रीहस्त्यादिसंस्थाना संव्यवहारार्हा भक्तिर्भवत्येवं प्रकृतिप्रत्ययार्थोपदर्शनं पृथक् क्रियते, अपृथसिद्धसमुदायार्थप्रतिपत्त्युपायत्वात् , एवमेव कृत्वोक्तमिति ज्ञापकमाह-'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः, (महाभा० ३-१-६७ सूत्रे) इति प्राधान्येन प्रत्ययार्थो विवक्षितो गुणत्वेन प्रकृत्यर्थः, अत एव चेति, यदुक्तं भाष्ये 'प्रकृतिपर[एव] प्रत्ययः प्रयोक्तव्यः, प्रत्ययपरा[एव]प्रकृतिः, ( महाभा. ३-१-२ सूत्रे) इति प्रत्ययः परो-विशेषः प्रधानं 10 यस्याः सा प्रत्ययपरा प्रकृति[:] परशब्दस्य प्रधानार्थता वर्ण्यते, एवञ्च-अनेन न्यायेन प्रत्ययार्थं नापैति प्रकृतिः, तत्परत्वात् , अत एव च-प्रत्ययार्थानपायित्वात् मन्यतेरित्यादिना भावयित्वोपसंहरति यावदयथार्थाभिधानमिति, एहिशब्दप्रयोगप्रस्तुतसामानाधिकरण्यत्यागेनास्मत्समानाधिकरणोत्तमैकवचनप्रत्ययोऽयथार्थः, अङ्गीकृतपुरुषार्थवैयधिकरण्यवृत्तत्वात्, त्वं पचतीति प्रयोगवदिति साधूक्तम् , एवं तावत् प्रकृत्ययथार्थत्वं प्रत्ययायथार्थद्वारेणानपायित्वादुक्तम् ।। गात् तस्यैवार्थवत्त्वात् केवलयोः प्रकृतिप्रत्यययोरनर्थकत्वेनासम्भव इति भावः। आनर्थक्यमेवाह-असम्भवश्चेति । उक्तञ्च 'धात्वादीनां विशुद्धानां लौकिकोऽर्थो न विद्यते । कृत्तद्धितानामर्थश्च केवलानामलौकिकः' ॥ इति । भूलेति, भूशब्दः प्रकृतिप्रदर्शकः, लादयः
यद्योतकाः. एतेषां केवलानां लौकिकोऽर्थो न विद्यत इति भावः । दृष्टान्तमाह-काकवाशितवदिति. तिरश्चां वाशितं स्तम्। यद्येषामर्थों नास्ति तर्हि किमर्थ भू सत्तायामित्येवं भ्वादीनामर्थः पठ्यते काद्यर्थ लादीनामित्याशङ्कायामाह-किमर्थं तहीति, यद्यपि पचति भवतीत्यादयो विशिष्टार्थवृत्तयः संघाताः परमार्थतो निरंशाः तथापि परिकल्पितपूर्वोत्तरावयवप्रविभागेन व्युत्पाद्यन्त इति मन्दम- 20 तयोऽतिसारूप्यात् उपायोपेययोरक्यमध्यवस्यन्ति, न हि शृङ्गग्राहितया देवदत्तः पचति, गौस्तिष्ठतीत्यादयस्तावजन्मसहस्रेणापि बोधयितुं बोद्धश्च शक्याः, आनन्स्यात् , अतः प्रकृतिप्रत्ययविभागतत्तदर्थकल्पनारूपो लघुभूत उपायः समाश्रीयतेऽन्वयव्यतिरेकाभ्यामिति भावः । अत्र दृष्टान्तमाह-शिक्षणार्थन्त्विति। अपृथकृसिद्धति, निरवयवभूतवाक्यार्थबोधे प्रकृतिप्रत्ययार्थयोरुपायत्वादित्यर्थः । प्रकृतिप्रत्ययाविति. एतौ प्रतीयमानमर्थ सहकोपस्थितिविषयीकुरुतः, परस्परं विशेषणविशेष्यभावेन खार्थ ब्रूत इत्यर्थः, पचन् पचमान इत्यादौ प्रत्ययार्थप्राधान्यादिति भावः । प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यं दर्शयति-यदुक्तं भाष्य 25 इति, पातञ्जले महाभाष्य इत्यर्थः, प्रत्ययार्थस्य प्रधानत्वात् प्रत्ययः प्रधानमुच्यत इति भावः । अनेन न्यायेनेति, प्रकृतिपर एव प्रत्ययः प्रत्ययपरैव प्रकृतिः, न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः, प्रकृतिप्रत्यया प्रत्ययार्थ सह ब्रूत इत्यादिन्यायकलापेनेत्यर्थः, प्रकृतिः प्रधानत्वात् प्रत्ययार्थ न त्यजति यतोऽत एव एहिशब्दप्रयोगसामानाधिकरण्येन मन्यधातोः मध्यमपुरुषस्यैवाकांक्षितत्वेन तत्परित्यागेनोत्तमपुरुषप्रत्ययं नापेक्षते सः, तस्मादेहि मन्य इत्यादिवचनमयथार्थमेवेत्याशयेनाह-अत एव चेति यतः प्रत्ययार्थ नापैति प्रकृतिरत एवेत्यर्थः, निगमयति-पहिशब्देति। मन्यधातोर्मध्यमपुरुषस्याकांक्षितत्वात्तदर्थे प्रयुक्त उत्तमपुरुष- 30 प्रत्ययोऽयथार्थः, खावाच्यवाचकत्वेनोपन्यसनात , अत एव तत्प्रकृतिरपि मन्यधातुरयथार्थः खानाकांक्षिताकांक्षितत्वेनोपम्यसनादिति प्रत्ययाथार्थद्वारेण प्रकृत्ययथार्थत्वमुक्तमित्याह-एवं तावदिति । प्रकृत्ययथार्थत्ववत् प्रत्ययपुरुषयोरप्ययथार्थत्वं भावनीयमित्याह
15
सि.क्ष. छा.र्थान्नापै०।२सि.क्ष. छा.डे. प्रत्ययायार्थयमंगीकृत। द्वा० न० २० (९७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org