________________
७६६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
गवत्,
तदर्थनिदर्शनं हेत्वर्थानुरूपेण अन्यार्थस्वार्थयोर्मध्यमोत्तम विशिष्टयोर्भेदे सति विसंवादादयथार्थागमं - कासाधुत्ववदिति, प्रस्तुतप्रत्ययविसंवादाद्वेति द्वितीयो हेतु:, देवदत्तो भूयत इति यथेति दृष्टान्तः, देवदत्त इति प्रथमानिर्दिष्टः कर्त्रर्थः प्रकृत्यर्थमात्रवाचिना भावसाधनेन भूयतेशब्देन सामानाधिकरण्यं नार्हति, भवतीत्यनेन तु स्यात् तैथैहिशब्दे प्रस्तुतमध्यमपुरुषान्ते मन्य इत्युत्तमान्तेनायथार्थागमका साधुत्वान्युपनेयानि, प्रस्तुतप्रत्ययविसंवादस्फुटीकरणार्थमाह- अङ्गीकृतपुरुषार्थवै यधिकरण्यवृत्तत्वादिति, तस्य निदर्शनं त्वं पचतीति यथेति, त्वमिति युष्मदुपपदे पचतीति शेषोपपदप्रथमपुरुष प्रयोगो विसंवदति तथा एहि मन्ये यास्यसीति ।
M
अत्र प्रत्ययपरप्रकृतिनियमात् प्रयोगकाले केवलयोः प्रकृतिप्रत्यययोरसम्भवः, तथाऽनर्थकत्वम्, भूलतिप्शबादीनाम्, काकवासितवत्, शिक्षणार्थं तु चित्रभक्तिबिन्दुविन्यसनवत् 10 प्रकृतिप्रत्ययार्थोपदर्शनं पृथक् क्रियते, अपृथक् सिद्ध समुदायार्थप्रतिपत्त्युपायत्वात् एवमेव कृत्वोक्तम्- 'प्रकृतिप्रत्ययौ प्रत्ययार्थ सह ब्रूतः तयोः प्रत्ययार्थः प्रधानम्' (महाभा० ३-१-६७ सूत्रे ) इति, अत एव च 'प्रकृतिपर एव प्रत्ययः प्रयोक्तव्यः प्रत्ययपत्र प्रकृतिः ' ( महाभा० ३ - १ - २ सूत्रे) इति, एवञ्च प्रत्ययार्थं नापैति प्रकृतिः, तत्परत्वात्, अत एव च मन्यतेः एहिशब्दप्रयोगप्रस्तुत सामानाधिकरण्यत्यागेनास्मत्समानाधिकर णोत्तमैकवचनप्रत्ययो - 15 Sयथार्थाभिधानम् ।
अथ प्रत्ययेत्यादि, वाक्यावधिकेऽर्थे पदावधिके वा प्रतिपाद्ये वाक्यं पदं वा प्रतियोगिशब्दार्थापेक्षमेव गमयति, केवलस्याप्रयोगात् पदावधिके तावदयं नियमः ' प्रत्ययपरा [ एव ] प्रकृतिः प्रयोक्तव्या, प्रकृतेः परः[एव]प्रत्ययः' ( महाभा० ३ - १-२ ) इति व्यवस्थापितत्वात्, प्रयोगकाले केवलयोः प्रकृति
"
क्रियेति । यद्वोत्तमपुरुषप्रत्ययस्य एहीति मध्यमपुरुषेण नास्ति संवाद इत्याह- प्रत्ययस्येति । अन्यार्थस्वार्थयोरिति, 20 कर्तृकर्मविशेषणभूत परात्मवाचको मध्यमपुरुषः, तथाविधखात्मवाचक उत्तमपुरुषः तयोर्भिन्नत्वाद्विसंवाद इत्यर्थः । । कर्तृकर्मविशेषणत्वादेव पुरुषस्य भावविषयता नास्तीति भावलकारे शेषत्वात् प्रथमपुरुष एव प्रयुज्यते तत्र कर्त्रा तृतीयान्तपदवाच्येन भाव्यम्, तत्र च प्रथमान्तपदप्रयोगे प्रस्तुतप्रत्ययविसंवाद एव भवतीति दर्शयति- प्रस्तुतेति । अङ्गीकृतेति, एहीत्यत्राङ्गीकृतमध्यमपुरुषवाच्यार्थव्यधिकरणार्थवाचकोत्तमपुरुषघटितत्वान्मन्य इति पदस्येत्यर्थः । एहि मन्य इत्यादिवाक्यस्य प्रकृतिप्रत्ययाभ्यामयथार्थत्वमेव निरूपयतिअत्रेति । व्याचष्टे - वाक्यावधिक इति, परस्य बुभुत्सितार्थप्रत्यायनाय शब्दप्रयोगः, परस्य प्रवृत्त्यादिविषय एव प्रायेण बुभु25 त्सितः, स च वाक्यार्थ एवेति सर्वे शब्दाः तत्परा एव, यत्रापि केवलं वृक्ष इति प्रयुज्यते तत्राप्याकांक्षादिवशात् अस्ति चलति छिद्यते वेति पदान्तरार्थानामध्याहारः, एवं क्रियापदादिमात्रप्रयोगे यथाकांक्षं सर्वकारकाध्याहारः, अत एवोक्तं प्रतियोगिशब्दार्था - पेक्षमेवेति, एवं सर्वत्र वाक्यार्थस्यैव विषयत्वेऽपि अन्वाख्यानलाघवाय पदानि तत्र च प्रकृतिप्रत्ययभागाः, तत्तदर्थाश्च कल्प्यन्ते, तद्वारा पदार्थबोधनं वाक्यार्थबोधनञ्च शास्त्रफलमिति भावः । पदे नियमं दर्शयति-प्रत्ययपरेति, प्रत्ययो नित्यं सदा परः प्रयोक्तव्य इति नियमात् प्रत्ययः परो यस्याः सा प्रकृतिरित्यर्थः, एवं प्रत्ययोऽपि प्रकृतिपर एव प्रयोक्तव्यः, तेन न केवला प्रकृतिः प्रयोक्तव्या 30 न च केवलः प्रत्यय इति फलितार्थः । अमुमेवार्थं हेतूकुत्याह-प्रयोगकाल इति व्यवहारकाल इत्यर्थः, तदानीं वाक्यस्यैव प्रयो
Jain Education International 2010_04
,
१ सि. क्ष. छा. यार्थानर्थयोः । २ सि. कसाधुत्वति, क्ष. छा. कसाधुवदिति । ३ सि. क्ष. छा तथैहिशब्दप्रस्तुतमध्यमपुरुषान्तेन मन्य इत्युत्तमान्तायथार्था० ।
For Private & Personal Use Only
www.jainelibrary.org