________________
७६५
पुरुषविषयविरोधः]
द्वादशारनयचक्रम् पितेति प्रत्ययवत् नक्षत्रपुनर्वस्वाद्येक[त्व]द्वित्वादिविरोध इति सम्बन्धः, एवं तावत् संख्याविषयप्रकृतिप्रत्ययप्रतिपत्तिविरोध उक्तः ।
अतःपरं पुरुषविषय उच्यते-तद्यथा
स वृक्ष आस्त इति पुरुषविषयप्रकृतिप्रत्ययसंवादेन स्वयं प्रतिपद्य पुनरेहि मन्य इति तद्विपरीतप्रतिपत्त्या प्रकृत्यादिलक्षणालक्षणीकरणं प्रतिपत्तेश्च तद्वदेवाप्रतिपत्तित्वम् , यदृच्छा- 5 प्रतिपत्तित्वात् , अत्र प्रयोगः-एहि मन्ये रथेन यास्यसि न हि यास्यसि यातस्ते पितेत्यादिवाक्यमयथार्थमगमकमसाधु प्रस्तुतक्रियासामानाधिकरण्यविसंवादात् त्वं यामि, अहं यासीति प्रयोगवत् , प्रस्तुतप्रत्ययविसंवादाद्वा, देवदत्तो भूयत इति यथा, अङ्गीकृतपुरुषार्थवैयधिकरण्यवृत्तत्वात् , त्वं पचतीति यथा ।
स वृक्ष आस्त इत्यादि यावदप्रतिपत्तित्वम् , स इति शेषोपपदे आस्त इति पुरुषविषयप्रति- 10 प्रत्ययसंवादेन स्वयं प्रतिपद्य पुनरेहि मन्य इति तद्विपरीतप्रतिपत्त्या प्रकृत्यादिलक्षणमलक्षणीकृतम्, प्रतिपत्तिश्चाप्रतिपत्तीकृती तद्वदेवेति-लक्ष्यतत्त्व[7]प्रतिपत्त्यव्यवस्थाद्वारेणेति, कस्मात् ? यदृच्छाप्रतिपत्तित्वात् असमीक्षितपौर्वापर्यप्रत्ययत्वात् ब्रह्मचारिपितृत्ववदित्येव सम्बन्धः, अत्र प्रयोगः-एहि मन्य इत्यादि यावदयथार्थमगमकमसाध्विति प्रतिज्ञाः तिस्रः, प्रस्तुता क्रिया-मन्यतिः, तया सामानाधिकरण्यं विसंवदति प्रत्ययस्योत्तमपुरुषाख्यस्य एहिशब्दप्रयुक्तमध्यमपुरुष[वि]संवादादिति हेत्वर्थः, त्वं यामि अहं यासीति प्रयो- 15
ma
मिति शब्दार्थविषयप्रत्ययोऽन्यः पुनर्वसू इति शब्दार्थविषयप्रत्ययोऽन्य इति, यथा कुमारब्रह्मचारीति शब्दार्थप्रत्ययः पितेतिशब्दार्थप्रत्ययादन्यः परस्परविरुद्धश्च तथा नक्षत्रं पुनर्वसू इत्यादिरपीति भावः । संख्याविषयविरोधनिरूपणमुपसंहरति-एवं तावदिति । अथ पुरुषविषयप्रकृतिप्रत्ययविसंवादं दर्शयति-स वृक्ष इति । व्याकरोति-स इतीति, लवाच्यकारकवाचियुष्मदर्थप्रतिपादकशब्दे उपपदे मध्यमः पुरुषः, तथाविधास्मदर्थप्रतिपादकशब्दे उपपदे उत्तमः पुरुषः युष्मदस्मच्छब्दार्थव्यतिरिक्तार्थः शेषस्तस्मिन् प्रथमपुरुषो भवति तत्र स इति युष्मदस्मदर्थव्यतिरिक्तार्थशेषपदं तस्मिन्नुपपदे आस्त इति प्रथमपुरुषप्रत्यय इत्यत्र पुरुष 20 विषयप्रकृतिप्रत्ययसंवादोऽस्तीति भावः । एहि मन्य इतीति, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्तेपिते 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्चे'(१-४-१०६) ति सूत्रस्योदाहरणम् , मन्यधातुरुपपदं यस्य धातोस्तस्मिन् प्रकृतिभूते सतिमध्यमः स्यात् परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात् स चैकार्थस्य वाचकः स्यादिति सूत्रार्थः, सत्यपि रथे परिहासशीलः शालकादि प्रतारयन् प्रयुक्ते वाक्यमिदम्-एहि मन्ये मन्यसे इत्यर्थः, अत्र युष्मदर्थप्रतिपादकशब्दसामानाधिकरण्येऽपि उत्तमपुरुषः क्रियत इति पुरुषविषयप्रकृतिप्रत्ययविसंवाद इति भावः । विपरीतप्रतिपत्त्येति, मन्य इति पदेन मध्यमपुरुषान्तपदजन्यबोधापेक्षया 25 विपरीता प्रतिपत्तिर्जायते, एनया च मध्यमपुरुषलक्षणमव्याप्तीकृतमुत्तमपुरुषलक्षणञ्चातिप्रसक्तीकृतमिति भावः।लक्ष्यभूतं तत्त्वं मध्यमपुरुषः, तस्याप्रतिपत्तेरव्यवस्थानाच्च मन्य इति प्रतिपत्तिरप्रतिपत्तिरेवेत्याह-प्रतिपत्तिश्चेति । हेतुमाह-यदृच्छति, नियमानपेक्षप्रतिपत्तित्वादित्यर्थः । स्वोक्तनियमविरुद्धप्रतिपत्तित्वं सूचयति-असमीक्षितेति, पूर्वस्मिन परस्मिन् वा खोक्तनियममनादृत्यः संजातप्रत्ययत्वादित्यर्थः । उक्तार्थमेव प्रयोगैः दर्शयति-अत्र प्रयोग इति । प्रस्तुतक्रियेति । मन्य इति मन ज्ञाने इति धातूत्तरमुत्तमपुरुषः श्रूयते, तस्याहङ्कारात्मकचेतन्यविशिष्टः कर्ता वाच्यः, तच्च कर्तृत्वं मनधातुवाच्यक्रियासामानाधिकरण्यं न 30 भजते तक्रियायाः मध्यमपुरुषवाच्यप्रश्नादिविषयत्वोपगमनयोग्यचैतन्यविशिष्टकर्तृत्वेन समानाधिकरणत्वादित्याशयेनाह-प्रस्तुता
१xx सि.। २ सि. प्रवृत्त्यादि।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org