________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे द्वयादिर्नैकवचनेन शब्देन भवितव्यमुक्तवत् , इदन्त्वभिधानाभिधेयप्रत्यययोर्विसंवादात् प्रतीतिविरुद्धम् , पुनर्वसुशब्दो द्वयर्थों द्विवचनान्तत्वादिति प्रत्ययो नक्षत्राभिधेयविषयप्रत्ययेन विसंवदति, स चानेन, किमिव ? कुमारब्रह्मचारिपितृत्ववत्-यदि कुमारब्रह्मचारी कथं पिता ? अथ पिता कथं कुमारब्रह्मचारीति, तद्वदिहेति ।
तद्भावयति
लक्षणं हि नाम प्रकृतिप्रत्ययादिविभागान्वाख्यानम् , तद्धि लक्ष्यान् शब्दान् व्यवस्थापयामीति, तेषाञ्चाव्यवस्था, प्रकृत्याद्यर्थायथार्थत्वात् , कुतस्तदन्यलक्षणत्वे प्रतिपत्तिः शब्दव्यवस्था च ? अविभक्तभावितस्वलक्षणविषयत्वात् , अविभक्तभावितस्खलक्षणविषयस्थाणुपुरुषप्रतिपत्तिव्यवस्थावत् , तथा लक्ष्याप्रतिपत्त्यव्यवस्थाभ्यामभिधानाभिधेयविषयप्रत्ययद्वयविसंवादः।
लक्षणं हि नामेत्यादि, शब्दानां लक्षणं प्रकृतिप्रत्ययादिविभागान्वाख्यानं तद्धि लक्ष्यान् शब्दान् व्यवस्थापयामीति, तेषाञ्च-प्रकृत्यादिविभागानामव्यवस्था, प्रकृत्याद्यर्थायथार्थत्वात् तथा चशब्दविषयप्रकृत्याद्यर्थाव्यवस्थायां तदाश्रितलक्षणाव्यवस्था, लक्षणाव्यवस्थानात् कुतस्तदन्यलक्षणत्वे प्रतिपत्तिः ? शब्दव्यवस्था च ? न स्तः, कस्मात् ? अविभक्तंभावितस्वलक्षणविषयत्वात् , दृष्टान्त:-अविभक्तभावितेत्यादि-यथाऽविभक्तौ भावितौ स्वलक्षणाभ्यां स्थाणुपुरुषौ, तत्र या स्थाणौ पुरुषप्रतिपत्तिर्व्यवस्था च मिथ्या15 प्रतिपत्तिव्यवस्थे ते, कस्मात् ? अविभक्तंभावितस्वलक्षणविषयत्वात् तथा शब्दानां लक्ष्याणां [अ]प्रतिपत्त्यव्यवस्थे, लक्ष्याप्रतिपत्त्यव्यवस्थाभ्यां चाभिधानाभिधेयविषयप्रत्ययद्वयविसंवादात् , कुमारब्रह्मचारी
इत्याह-इदन्स्विति । विसंवादमेव दर्शयति-पुनर्वसुशब्द इति, पुनर्वसुशब्दस्य व्यर्थत्वेन द्विवचनान्तत्वान्नक्षत्रशब्दस्यैकार्थत्वेनैकवचनान्तत्वादुमयोभिन्नार्थतया पुनर्वसू नक्षत्रमित्येकार्थप्रतिपादकत्वाभावात् पुनर्वस्वर्थ एव नक्षत्रार्थो नक्षत्रार्थ एव
पुनर्वस्वर्थ इति विप्रतिपत्तिरेव कुमारब्रह्मचारिपितृत्ववदिति भावः । तथापि यद्येकपुनर्वसुभवनलक्षणविशेषमात्राभिधायी पुनर्वसु20 शब्दः, नक्षत्रशब्दोऽप्येकनक्षत्रभवनलक्षणविशेषाभिधायकः नक्षत्रार्थ एव पुनवस्वर्थ इतीष्यते तर्हि लक्ष्यशब्दव्यवस्थापकलक्षण
व्यवस्था विशीयत इत्याह-लक्षणं हि नामेति । व्याचष्टे-शब्दानामिति प्रकृतिप्रत्ययादिविभागेन पदानि वाक्यानि च व्याकरणेन शब्दलक्षणशास्त्रेण व्याख्यायन्त इत्यर्थः । अन्वाख्यानस्य प्रयोजनमाह-तद्धीति, अर्थावबोधोपकारकसाधुशब्दव्यवस्थापनार्थमिति भावः, अत्रेदं तात्पर्यम्-देशकालकर्तृभेदेन वाक्यानामानन्त्यात् प्रतिवाक्यं संकेतग्रहासम्भवात् तदन्वाख्यानस्य
लघूपायेनाशक्यत्वाच्च कल्पनया पदानि प्रविभज्य पदे प्रकृतिप्रत्ययभागकल्पनेन कल्पितान्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्रमात्र25 विषयं परिकल्पयन्ति स्म व्याकरणाचार्याः। तत्र प्रकृतिर्यस्मात् प्रत्ययो विधीयते सा, प्रत्ययश्च प्रकृतिपरत्वव्याप्यतयाविधीयमानः इति ।
एतद्विभागस्य एकवचनादीनामेकाद्यभिधेयव्यभिचारित्वेऽव्यवस्था स्यात् , तदव्यवस्थायां व्येकयोर्द्विवचनैकवचनेत्यादिलक्षणाव्यवस्था भवेत् , क्लुप्तायाञ्च व्यवस्थायामनाश्वासे तदन्यलक्षणे वा को वा विश्वास इत्याह-तेषाञ्चति । शब्दाप्रतिपत्त्यव्यवस्थयोर्हेतुमाहअविभक्तति, लक्ष्यप्रतिपत्तिव्यवस्थे खलक्षणाभ्यामविभक्ततया भाविते-यथा स्थाणौ पुरुषप्रतिपत्तिर्व्यवस्था चाविभक्ततया
भावितत्वान्मिथ्याप्रतिपत्तिरव्यवस्था च भवति तथैवेयमपीति भावः । दार्टान्तिकं घटयति-तथा शब्दानामिति। लक्ष्यस्या30 प्रतिपत्तेरव्यवस्थायाश्च वाच्यवाचकविषयप्रत्ययद्वयं विसंवदति वाच्यविषयप्रत्ययोऽन्यः वाचकविषयप्रत्ययोऽन्य इति, अथवा नक्षत्र
१ सि.क्ष. छा. तद्विलक्ष्याच्छब्दाव्य । २ सि.क्ष. डे. छा. तस्यां ३-४-५ सि. क्ष. भविभक्तीभा०३ छा. भविविक्तीभा० ४ छा. अविभक्तीभावितेत्यादि यथा विवक्तौ०। ५xx सि. छा.। ६ सि. डे. पत्ति० य० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org