________________
विभिन्नषचनकत्वानुपपत्तिः] बादशारनयचक्रम्
७६३ तद्भावयति
यद्येकं न तर्हि व्यादि, यदि व्यादि नैकम् , विरोधित्वादेकत्वद्वित्वयोरित्यादि सर्व यथाविषयं प्रतिविधातव्यम् , घटपटादिवदन्योऽन्यस्वरूपापत्तिर्नास्ति विशेषाणां सामान्यात् , दृष्टाच नक्षत्रपुनर्वस्वादिषु, प्रतीतेस्तादर्थ्यमेवेति चेन्न, प्रत्यवयवप्रतीतेरेव वयमपि ब्रूमः 'व्येकयोर्द्विवचनैकवचने, बहुषु बहुवचनम्' (पा० १-४-२१-२२) इति, यद्येकवचनान्तः शब्दः । अभिधानार्थेनाप्येकेन भवितव्यम् , न यादिना, अथ व्यादिः नैकवचनेन शब्देन भवितव्यमुक्तवत् , इदन्त्वभिधानाभिधेयप्रत्यययोर्विसंवादात् प्रतीतिविरुद्धम् , कुमारब्रह्मचारिपितृत्ववत् ।
___ यद्येकमित्यादि साधनद्वयमनिष्टापादनं विरोधित्वादेक[त्व]द्वित्वयोरित्यादि सर्व यथाविषयं प्रतिविधातव्यमित्यतिदेशाल्लिङ्गकालादावप्यनिष्टापादनसाधनानि द्रष्टव्यानि, यदि पुनर्वसू पुमांसौ न नक्षत्रं नपुंसकम् , पुंस्त्वावृक्षवत् , अथ [नक्षत्रं न पुमांसौ] नपुंसकत्वात् कुण्डवदित्यादि, तथा तारा स्त्रीत्वादित्यादि 10 योज्यम् , घटपटादिवदिति, विशिष्टयोर्घटपटयोरिवान्योन्यस्वरूपापत्तिर्नास्ति विशेषाणां, सामान्याद्, दृष्टी च नक्षत्रपुनर्वस्वादिषु, तस्मादयुक्तमुक्तं सामान्यनिरपेक्षो विशेष एव शब्दार्थो विवक्षितत्वादिति, प्रतीतेस्तादर्थ्यमेवेति चेत् स्यान्मतं लोकप्रतीतत्वान्नक्षत्रार्थ एव पुनर्वस्वर्थः, पुनर्वस्वर्थ एव च नक्षत्रार्थ इति लोके प्रसिद्धमागोपालादि, तस्मात् सामान्यस्य विशेषत्वाददोषः, इतरथा नैरर्थक्यमेव स्यादिति, अत्रोच्यते-न, प्रत्यवयवप्रतीतेरेवेत्यादि, वयमपि लोकप्रतीतेरेव ब्रूमः 'व्येकयोर्द्विवचनैकवचने, बहुषु 15 बहुवचनम्' (पा० १-४-२१-२२) इति अर्थानामवयवमवयवं प्रति विवक्षितानामेकत्वाद्यपेक्षयैकवचनादिशब्दप्रयोगप्रसिद्धः, यद्येकवचनान्तः शब्दोभिधानार्थेनाप्येकेन भवितव्यं न व्यादिना, अथ
खतोऽभिन्नलिङ्गवचनत्वात् , न चैवं दृश्यत इति भावः । स्वत एव विशिष्टेनाभिन्नलिङ्गवचनादिना भवितव्यमित्यर्थ विशदयतियद्यकमिति, स विशेषः खत एव विशिष्टो यद्यसहाय एकस्तर्हि न स द्विबह्वादिरूपो द्विबहुवचनादिसमानाधिकरणो भवेत् , यदि द्विबहुवचनादिरूपः तर्हि ससहायत्वान्नैकः स्यादिति भावः । तझ्याचष्टे-साधनद्वयमिति, यद्येकं न तर्हि व्यादि, विरोधित्वात् 20 यदि व्यादि न तर्खेकम् , विरोधित्वादिति साधनद्वयमित्यर्थः । लिङ्गकालादावनिष्टापादनसाधनान्येव दर्शयति-यदीति । तथा तारेति, यदि तारा स्त्री न नक्षत्रं स्त्रीत्वात् , रमावत् , यदि नक्षत्रं न स्त्री, नपुंसकत्वात् , कुण्डवदिति भावः। तदेवमेकत्वद्वित्वाद्योः पुंस्त्वस्त्रीत्वाद्योर्विरोधादन्योन्यस्वरूपापत्तिर्न स्यात्, विरुद्धधर्माभ्यां घटत्वपटत्वाभ्यां विशिष्टयोर्घटपटयोरिव, न हि घटः पटरूपतां पटो वा घटरूपतामापद्यते विशिष्टत्वात् , आपद्यते च नक्षत्रं पुनर्वस्खादिरूपं पुनर्वस्वादि च नक्षत्ररूपम् , तस्मात् सामान्यनिरपेक्ष एव विशेष इत्ययुक्तमित्याह-घटपटादिवदिति । शङ्कते-प्रतीतेरिति, सामान्यविशेषयोरमिन्ना प्रतीतिर्लोके दृश्यते, नक्षत्रपुन-25 वसुशब्दयोरेकार्थत्वं नक्षत्रं पुनर्वसू इत्यभेदार्थकप्रथमाविभक्तिसमानाधिकरणप्रयोगान्नीलो घट इत्यादिप्रयोगवदवगम्यत इति विशेषसामान्ययोरैक्यमिति भावः । तथैव व्याचष्टे-स्यान्मतमिति । सामान्यस्य विशेषात्मकत्वे लोकेनैव विरोधं दर्शयति-अत्रोच्यत इति, वयमपि यदेकं तन्न व्यादीति लोकप्रतीतेरेव ब्रूमः, लोकप्रतीतिश्च व्येकयोर्दिवचनैकवचने, बहुषु बहुवचनमिति दृश्यत इति दर्शयति-न प्रत्यवयवेति, समुदायरूपार्थावयवगतैकत्वादिसंख्यापेक्षया समुदायादेकवचन द्विवचनादिप्रयोगो भवतीति भावः। एवञ्च शब्दस्यैकवचनान्तत्वेऽर्थेनाप्येकेनैव भवितव्यम्, न तु व्यादिना, द्विवचनान्तत्वे चार्थेन व्यात्मकेन भवितव्यम्, न त्वेकवच-30 नान्तशब्दवाच्येनेत्यभिधानाभिधेयप्रत्ययनियम इति दर्शयति-यद्येकवचनान्त इति । नक्षत्रपुनर्वखादौ तूक्तनियमभङ्गो दृश्यत
१ सि. स्त्रीत्वास्त्रीस्खादित्यादि । २ सि. क्ष. डे. छा. दृष्टं च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org