________________
७६२
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
ततो घटाकाशमिति स्यात्, तत्तु त्वन्मतेनाकाशमेवामूर्त्तं तद्विपरीतो घटो-मूर्त्त एवेति कुतो घटाकाशमुदाहरणं घटते ? घटात्मानापत्तेराकाशस्य, आकाशानात्मापत्तेर्घटस्य, आकाशं घटो वा तद्विपरीतगुणः [न] उदाहरणमिति । एवमित्यादि- अनेन प्रकारेण द्रव्यस्य भवने परिगृहीते दृष्टान्तस्य विपर्ययसाधनत्वात् कुतः साऽन्योऽन्यानुगमरूपता ? या त्वया प्रतिज्ञाता, एवं मदुक्तन्यायात् त्वन्मतेन च द्रव्यस्य कारणस्य सदा5 [ स्व] रूपापरित्यागादित्युक्तं परस्यानिष्टापादनम् ।
अत एव स्वत एव स्वमतविशेषप्रधानभवनसामान्योपसर्जन भवनप्रतिपादनार्थमाह
अन्यरूपानुगमात्तु चेतनाचे तनयोरात्मभावत्यागाद्द्रव्यस्य सामान्यभवनमुपसर्जनी कृत्य भवदेव च भवति तस्मात् केनचिदविशेषः, तदसत्त्वात् सामान्यासत्त्वमापन्नम्, तथाच विशिष्टे स्वविषयेऽप्येकवृक्षादिभवने द्विवचनादिविशेषान्तरनिरपेक्षेणैव तेन भवितव्यम्, न 10 पुनस्तथा भवति सः, नक्षत्र पुनर्वस्वादिसमानाधिकरणवचनलिङ्गादिभेददर्शनात् ।
अन्यरूपानुगमात्त्वित्यादि, तुशब्दः परमतव्यावृत्तिं स्वमतसिद्धिञ्च विशेषयति, चेतनाचेतनयोरात्मभावत्यागात् त्वदुक्तात् द्रव्यस्य सामान्यभवनं उप[ सर्जनीकृत्य ] भवदेव च भवति, तस्मादर्थान्तराभावात् भवत एव भवनाच्च केनचिदविशेषो न बाध्यते, यथोक्तं त्वया प्राक् 'वृक्षो वृक्षसामान्यमुपसर्जनीकृत्यैव भवति न द्व्यादिरपि विशेषवशवर्त्तित्वात् नाम्नः' इत्यादि, तस्मादिदमनिष्टं विशेषासत्त्वं प्रसक्तम्, तदसत्त्वात् 15 सामान्यासत्त्वं दृष्टविरुद्धमापन्नमिति, किञ्चान्यत् - तथा च विशिष्ट इत्यादि, यथा च सामान्येन प्रतिपक्षेण विना विशेषः तन्निरपेक्षो भवति, भवत्येव विशिष्टः, तथा स्वविषयेऽप्येकवृक्षादिभवने द्विवचनादिविशेषान्तरनिरपेक्षेणैव तेनाभिन्नलिङ्गवचनादिना भवितव्यं त्वन्मते, न पुनस्तथा भवति स विशेषः, नक्षत्रपुनर्वस्वादिसमानाधिकरणवचनलिङ्गादिभेददर्शनात् ।
wwwww
वृत्तात्मकाकाशखरूपः स्यात्तदा घटाकाशं स्यात्, तत्तु न सम्भवति, त्वन्मते आकाशस्यामूर्त्तमात्रताया घटस्य मूर्तमात्रतायाश्चा20 भ्युपगमादिति भावः, अथ वा आकाशं घटो भवति, अतोऽनावृत्त्यावृत्त्यात्मकम्, घटश्चाकाशं भवति, अत आवृत्त्यनावृत्त्यात्मकमिति यदि स्यात्तदा घटाकाशमिति स्यात्, यदा च घटो मूर्त एव, आकाशममूर्तमेवेति त्वदभ्युपगमः तदा कथं घटाकाशमिति स्याद्येन तद्दृष्टान्तो भवेदिति भावः । दृष्टान्तत्वासम्भवं दर्शयति-घटात्मेति । एवमन्योन्यानुगमरूपत्वमपि न सम्भवति मूर्त्तस्यामूर्त्तात्मकत्वे मूर्त्तत्वस्य, अमूर्त्तस्य मूर्त्तात्मकत्वेऽमूर्त्तत्वस्य च परित्यागादेकरूपमेवेत्याह- अनेन प्रकारेणेति । अथ सामान्यमुपसर्जनभूतं भवनं विशेषश्च प्रधानभूतं भवनमिति प्रतिपादनायाह - अन्यरूपानुगमात्त्विति । चेतनाचेतनयोः परस्पररूपापत्तौ परस्पररूप25 परित्यागस्य त्वदुक्तस्य बलादेव सामान्यमप्रधानं भवदपि भविता घट एव भवतीति भवतः सामान्यस्यैव घटीभवनात् सामान्यखरूपत्यागाच्च विशेषत्वेनाभिमतो घट एवास्ति, तथा च स कथं विशेषः, सति ह्यर्थान्तरभूते सामान्ये स विशेषः स्यात्, तच नास्तिस्वरूपपरित्यागादतः सोऽविशेष एव, तथा च सति विशेषस्यैवाभावः स्यात्तदभावे च किंनिरूपितं सामान्यं भवेदिति सामान्यस्याप्य - भावः प्रसक्तः, स च दृष्टविरुद्ध इत्याशयेन व्याचष्टे - चेतनेति । सामान्यानपेक्षस्यैव विशेषस्य विशिष्टत्वे स विशेषो विशेषान्तरनिरपेक्षेणैव विशेषान्तराद्विशिष्टः स्यात्, तथा च वृक्षादेर्विशेषस्य लिङ्गसंख्यादिविशेषान्तरनिरपेक्षतया खत एव विशिष्टता स्यात् अभिन्नलिङ्गसंख्यत्वात् दृष्टा च लिङ्गसंख्यादिभिर्विशिष्टतेत्याशयेनाह - तथा चेति, सर्वो ह्यर्थो एको द्वौ बहव इत्यादिसंख्या - युक्तो व्यवहियते, आश्रयेऽर्थे द्वित्वादिकया संख्यया भेद एकत्वसंख्यया चाभेद इति भेदाभेदविभागो लोकेन क्रियते, तत्र यदि विशेषः स्वत एव विशिष्टः तर्हि किं द्वित्वादिसंख्ययेति भावः । नक्षत्रेति, नक्षत्रमेकवचननपुंसकलिङ्गसमानाधिकरणम्, पुनर्वसू च पदं द्विवचनपुंलिङ्गसमानाधिकरणम्, नक्षत्रं सामान्यं पुनर्वसू च विशेषौ तौ यदि स्वतो विशिष्टौ स्यातां किं द्विवचनपुंलिङ्गाभ्याम्,
30
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org