SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ अन्योऽन्यानुगमत्वासम्भवः] द्वादशारनयचक्रम् ७६१ अत्रोच्यते आगतं तर्खेतद्योऽर्थो द्रव्यं विशेषो वा योऽस्तु सोऽस्तु सर्वथाऽसावस्वतन्त्रो विशेषेण ज्ञानेन तथा तथा भाव्यते सर्वात्मनेति प्रधानं विशेष एव भवतीति, तत्र यदि सेन्द्रियाणि ज्ञानानि तानीन्द्रियकृतत्वादज्ञानानि स्युः, केवलमेवैकं ज्ञानं स्यात्, आत्मानश्च चेतनत्वात् स्वतंत्राः यदि तच्छरीरं स्वतंत्रश्च कर्त्ता, ततश्चाशरीरेण शुद्धेन सिद्ध केवलिना कृतं कर्मान्वेष्यं । स्यात्, अनिष्टं च न रागिकृतम् , इष्टमपि स्यात्, आत्मनोऽनन्यत्वात्, तथाऽऽकाशघटयोरनावृत्यावृत्त्यात्मकयोरावृत्त्यनावृत्त्यात्मकघटाकाशभवने घटाकाशमिति स्यात् तत्तु त्वन्मतेनाकाशमेवामूर्त तद्विपरीतो घट इति कुतो घटाकाशमुदाहरणं घटते ! एवं द्रव्यस्य भवने दृष्टान्तस्य विपर्ययसाधनत्वात् कुतः साऽन्योऽन्यानुगमरूपता ? द्रव्यस्य सदा रूपापरित्यागात् । आगतं तर्खेतदित्यादि यावद्विशेष एव भवतीति, योऽर्थो द्रव्यं सामान्यं विशेषो वा-प्रकृत्यर्थः 10 प्रत्ययार्थो वा भवनं भाव इति योऽस्तु सोऽस्तु सर्वथाऽसौ अस्वतंत्रो विशेषेण ज्ञानेन तथा तथा भाव्यते द्रव्येन्द्रियादि तत्सर्वात्मना ज्ञानमात्मा, च विशेषः, स भावयति यद्यपि भवत्सामान्यं भावस्ततोऽप्युपसर्जनम् , विशेषः प्रधानमित्युक्तं भवति, तत्र यदीत्याद्यनिष्टापादनं परस्य, यावदेकं ज्ञानं स्यादिति, हेतुहेतुमद्भावेन गतार्थम् , सेन्द्रियाणि मतिश्रुतावधिमनःपर्यवज्ञानानि तानीन्द्रियकृतत्वादज्ञानानि स्युः, केवलज्ञानमेवैकं ज्ञानं स्यादिति, किञ्चान्यत्-आत्मानश्चेत्यादि, आत्मैव स्वतंत्रश्चेतनत्वात् , यदि तच्छरीरम् , स्वतंत्रश्च कर्ता 15 ततश्चाशरीरेण शुद्धेन सिद्धकेवलिना कृतं कर्मान्वेष्यं स्यात् , तञ्चात्यन्तदुर्लभम् , मुक्तसंसारप्रसङ्गात् , . अनिष्टं च न स्तादिमद्रागिकृतम् , इष्टमपि स्यात् कर्म, तस्यैव संसारित्वेष्टेः, पूर्ववद्धेतुहेतुमद्भावेनापादनं यावदात्मनोऽ[न]न्यत्वात्, एवं प्राच्योदाहरणद्वयं व्यभिचारितम् , तृतीयमपि-तथाऽऽकाशघटयोर्यथासंख्यमनावृत्त्यात्मकत्वादाकाशमावृत्त्यात्मकघटीभवति, घटश्चानावृत्त्यात्मकाऽऽकाशीभवत्यावृत्त्यात्मकः सन् , अथ चैतन्यविरहिणो मूर्तस्यामूर्तस्य वा सामान्यस्य प्रकृत्यर्थस्य विशेषस्य प्रत्ययार्थस्य वा स्वातंत्र्याभावान्न कर्तृत्वं किन्तु ज्ञानं 20 चेतनच्च कर्त, तेनैव सर्वे भाव्यन्ते तस्मात् स एव विशेषः प्रधानञ्चेत्येतदागतं मूर्तस्याप्यमूर्तात्मकत्वं वदता त्वन्मतेनापि, अन्तःसन्निविष्टशब्दानुविद्धचैतन्यादेव सर्वस्य भवनाभ्युपगमादित्याशयेनोत्तरयति-आगतं तहीति । व्याचष्टे-योऽर्थ इति, भवनं सामान्यं प्रकृत्यर्थः, भावो विशेषः प्रत्ययार्थः, योऽस्तु सोऽस्तु मूर्तोऽमूतों वा भवतु तत्सर्वमचेतनमकते, न भावक, अस्वतंत्रत्वात खतंत्रो हि कर्ता तच्च ज्ञानमात्मा वा, तस्यैव सर्वार्थभावकत्वमिति भावः । निर्वृत्त्युपकरणेन्द्रियज्ञानवदिति परोक्तदृष्टान्तेऽनिष्टमापादयति-तत्र यदीति, अत्रापाद्यमज्ञानत्वं ज्ञानस्य, आपादकञ्च सेन्द्रियत्वं, यदि ज्ञानं सेन्द्रियं स्यात् तीज्ञानं स्यात् , सेन्द्रियत्वञ्च 25 स्वकृतत्वप्रयुक्तस्वात्मकत्वम् , तथा च ज्ञानस्य मूर्त्तत्वमापन्नं यच्च मूर्त तदज्ञानं दृष्टमिति तदिन्द्रियजन्यज्ञानमात्रस्य मतिश्रुतावधिमनःपर्यवात्मकभेदभिन्नस्याज्ञानत्वं प्रसक्तं केवलज्ञानमेवैकमनिन्द्रियत्वाज्ज्ञानं स्यादिति भावः । तन्वात्मद्रव्यवदिति दृष्टान्तेऽनिष्टमापादयति-किश्चान्यदिति, आत्मैव स्वतंत्रः चेतनत्वात् स्वतंत्रश्च कतैत्यभ्युपगम्यापाद्यापादकभावो वाच्य इत्याशयेनाहआत्मैवेति, यद्यात्मा तन्वादिकृतत्वात्तन्वाद्यात्मकस्तर्हि सोऽचेतनो भवेत् , एवञ्च स्वतंत्रश्चेतनस्तु अशरीरी सिद्धकेवल्येव स्यात्, तस्य स्वतंत्रचेतनत्वात् कर्तृत्वापत्त्या तत्कृतं किञ्चित्कार्यमभ्युपेयम्, तच्चाप्रसिद्धम् , तथापि यदि किञ्चित् कार्यमभ्युपगम्यते तर्हि ० मुक्तस्यापि संसारसमागमः सम्पद्यते, तत्रापीष्टापत्तौ स एव संसारी स एव च मुक्त इति मुक्तकृतकार्य यथेष्टं भवति तथा रागिपुरुषकृतमपि कर्म अनिष्टं न भवेदिष्टममि भवेदिति भावः। तृतीयं घटाकाशदृष्टान्तमधिकृत्याह-तृतीयमपीति, आवृत्तिस्वरूपो घटो यदाऽना १ सि. क्ष. डे. छा. तथा०। २क्ष. छा. अनिष्टंवन। ३ सि. शमावृत्त्यनावृत्यात्मकञ्चेदावृत्त्यात्मकघटी० । क्ष. शमावृत्त्यनावृत्त्यनात्मकघटी।छा.शमावृत्त्यनावृत्यात्मकं घटी। _Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy