________________
७६० न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे मृदिति, अथवा नामूर्तस्य द्रव्यं नामशब्दः, मूर्त्तत्वान्मृद्वत् , यदमूर्तस्यावगाहादेव्यं न तन्मूर्तं यथाऽऽकाशमिति, उक्तं हीत्यादि ज्ञापकमाह-न हि मूर्तममूर्त्तत्वं-वर्णादिमत्पुद्गलद्रव्यं मूर्त सवर्णाद्यात्मकत्वममूर्तत्वं न गच्छति न तथा परिणमति जीवाकाशधर्माधर्मत्वं न याति, नामूर्तमेति मूर्त्तत्वं-नाप्याकाशाद्यमूर्त मूर्त्तत्वं
प्रयाति, द्रव्यं त्रिष्वपि-अतीतानागतवर्तमानेषु कालेषु न कदाचिदित्यर्थः, यस्मात् नात्मभावं-यावद्र्व्य5 भावी यो धर्मः स आत्मभावः, तमात्मभावं न कदाचित् परित्यजति द्रव्यमिति ।
अत्राह
नन्वन्योन्यानुगतस्वरूपत्वात् निवृत्त्युपकरणेन्द्रियज्ञानतन्वात्मद्रव्यवत् घटाकाशवच्च, द्रव्यं कारणं ज्ञानस्य-द्रव्येन्द्रियं मूर्तममूर्तस्य ज्ञानस्य द्रव्यं शरीरादि कारणं भवान्तरात्मनः, घटश्च घटाकाशस्य । 10 नन्वन्योन्यानुगतेत्यादि यावद्धटाकाशस्येति, नात्मभावं त्यजति पररूपं नाप्नोत्येतदयुक्तं,
अन्योन्यानुगतस्वरूपत्वात् क्षीरोदकवत् , अन्योन्यानुगतस्वरूपत्वनिदर्शनं निर्वृत्तीत्यादि यावद्व्यवत् , वत्करणं निर्वृत्त्युपकरणेन्द्रियज्ञानवत् , तन्वात्मद्रव्यवञ्चेति प्रत्येकं परिसमाप्यते, द्रव्यं कारणं मूर्त्तममूर्तस्य ज्ञानस्य, द्विविधं द्रव्येन्द्रियं निर्वृत्तिरुपकरणञ्च, निर्वृत्तिः पक्ष्मपुटकृष्णतारादिद्रव्यनिष्पत्तिः, निवृत्तमुपकरोतीत्युपकरणं मसूरकाकारश्चक्षुर्मध्यप्रदेशः, प्रकाशाञ्जनादयश्चोपकरणानि, एतद्विविधमपि ज्ञानस्य द्रव्यं 15 दृष्टम् , तस्य व्याख्यानं-द्रव्येन्द्रियं मूतममूर्तस्य ज्ञानस्य द्रव्यम् , तथा तन्वात्म[द्रव्य]वदित्यस्य व्याख्याशरीरादि कारणं भवान्तरात्मनः, घटश्च घटाकाशस्येति-मूर्तो घटोऽवगाहानुमेयस्याकाशस्यावगाहात्मन इति ।
प्रदर्शयितुं तथोक्तं अर्थप्रदर्शनसाधनमिति । नामशब्दमेव धर्मितयाऽऽह-अथ वेति, एतेन व्याख्यावैचित्र्येण मूर्त्तद्रव्यं । नामूर्तस्य कारणं, अमूर्तञ्च न मूर्त्तद्रव्यहेतुकमिति सिद्धमिति तदर्थप्रकाशिका प्राचां कारिका प्रदर्शयति-उक्तं हीति एतत्समानार्थिका 20 कारिका सम्मतिटीकायां प्रथमकाण्डे ५३ गाथाव्याख्याने टीकाकृद्भिरित्थमुपन्यस्ता दृश्यते 'नामूर्त मूर्ततामेति मूर्त नायायमूर्त्तताम् । द्रव्यं कालत्रयेऽपीत्थं च्यवते नात्मरूपतः ॥' इति । प्रथमपादं व्याचष्टे-वर्णादीति, मूर्त्तममूर्ततया न परिणमतीति भावः । अमूर्त्तमपि न मूर्त्ततया परिणमतीत्याह-नामूर्त्तमिति । कदाचिदपि द्रव्यं न यावद्रव्यभावितं धर्म जहातीत्याह-द्रव्यं त्रिष्वपीति । ननु क्षीरे नीरमिव नीरे च क्षीरमिव परस्परं मूर्त्तामूर्तयोरनुगतस्वरूपत्वात् मूर्त्तद्रव्यमप्यमूर्तस्य कारणं भवितुमर्हतीत्या
शङ्कते-नन्वन्योन्येति । व्याचष्टे-नात्मभावमिति । निर्वृत्त्युपकरणेन्द्रियज्ञानतन्वात्मद्रव्ये इवेति निवृत्त्युपकरणेन्द्रियज्ञान25 तन्वात्मद्रव्यवदिति व्युत्पत्तिमभिप्रेत्याह-वत्करणमिति । प्रथमदृष्टान्तं व्याकरोति-द्रव्यं कारणमिति । भावेन्द्रियमुपयोगः, द्रव्येन्द्रियन्तु निवृत्तिरूपमुपकरणरूपञ्च, उभयमपीदं पुद्गलद्रव्यपरिणामरूपत्वाव्यम्, अझोपाङ्गनामनिर्माणनामकर्मभ्यां निर्वर्तिताः औदारिकादिशरीरत्रयावयवविशेषा निवृत्तीन्द्रियमुच्यन्ते, तच्च नानाकारं तत्र चक्षुषः पक्ष्मपुटकृष्णतारादि, निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारि उपकरणेन्द्रियम् , यथा तस्यैव प्रकाशाजनादि, एतदुभयमपि द्रव्येन्द्रियं ज्ञानस्य द्रव्यं भवतीत्यमूर्त्तस्य मूर्त कारणं सिद्धमि- त्साह-द्विविधमिति । द्वितीयं दृष्टान्तं व्याकरोति-तन्वात्मद्रव्यवदिति, शरीरादि आत्मद्रव्यस्य द्रव्यं भवेत् , कस्यात्मद्रव्यस्येति 30 चेत् भवान्तरात्मनः-भवः संसारः तदन्तर्गत आत्मा भवान्तरात्मा तस्य, संसारिण इति भावः, भावान्तरं मनुष्यादिपर्यायं गत
आत्मा तस्य भावान्तरात्मन इति पाठे बोध्यम्। तृतीयमुदाहरणमाह-घटश्चेति.घटावच्छिन्नाकाशं प्रति घटो द्रव्यं स्यादिति भावः।
१ सि. क्ष. छा. कारणादावा०।
२ सि.क्ष. घटस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org