________________
द्वादशारनयचक्रम्
wmammmmmmmm
मूर्त्तादमूर्तस्थासम्भवः] इत्येतदापन्नमिति भावितार्थः, उभयोः परस्परकारणत्वाविशेषत्वादिति, अत्रोत्तरम्-अथ कस्मादित्यादि यावत् सर्वत्र विशेषप्रधानत्वमिति, उपयोग एव नामत्वमापद्यत इति ? विशेषस्योपयोगस्य प्राधान्यम् , उपयोगत्वप्राप्तेर्नाम्नः, तस्यापि वा नामशब्दस्येत्यादि, नामशब्द इति वीणावेणुतालशब्दादिभ्यो विशिष्यते, प्रकृतत्वादोपयोगित्वाञ्च, तस्य उरःप्रभृतीत्यादि, नामद्रव्यार्थं हित्वा त्वया द्रव्यद्रव्यार्थोऽङ्गीकृतः, तद्यथोक्तम् 'आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ मारुत- 5 स्तूरसि चरन् मन्द्रं जनयति खनम्' (पाणिनिशिक्षा का० ६-७) इत्यादिना मूर्त्तद्रव्याभ्युपगमात्, आर्षमपि ज्ञापकं 'नो आगमतो द्रव्यं शरीर'मुक्तं तद्यथा-'अहो णं इमे णं सरीरसमुस्सयेणं आवस्सए त्ति पदं आपवितं पण्णवितं' (अनुयो० सू० १६) इत्यादि, तस्माच्छब्दकारणत्वत्यागेन मूर्त्तद्रव्यकारणत्वाभ्युपगमस्ते विरोधायापद्यते, अत आह-मूर्तममूर्तस्य द्रव्यं न भवति-परिणामिकारणमित्यर्थः, यथा मूर्तममूर्तस्य कारणं न भवतीत्ययमभ्युपगमः तथा नामशब्दस्य मूर्त्तत्वादऍोपयोगकारित्वं न युज्यते, स्यान्मतं 10 कथं मूर्तः शब्दो यतोऽस्यामूर्तिज्ञानकारित्वं न भवेदित्यत्र ब्रूमः, नामशब्दो मूर्त इति प्रतिपद्यताम् , कुड्यादिप्रतिहतगतित्वात्-यस्य गतिः कुड्यादिभिः प्रतिहन्यते तन्मूतं दृष्टं यथा लोष्टादीति, तन्नाम नोपयोगस्येत्यादि, अर्थप्रदर्शनसाधनं-उपयोगो न मूर्तद्रव्यहेतुकः, अमूर्त्तत्वादाकाशवत्, न ह्याकाशं मृदादिदण्डादिमूर्त्तद्रव्यस्य कार्यमिति साधर्म्यदृष्टान्तः, मृद्वदिति वैधhण, यन्मूर्त्तद्रव्यहेतुकं न तदमूर्तं यथा
प्राप्ता अविशेषत्वाच्छन्दवदित्याशङ्कते-अथोच्यतेति। हेतुमाह-उभयोरिति,शब्दोपयोगयोः परस्परमविशिष्टं कारणत्वम् , करो- 15 तीति कारणं द्रव्य, तच्चाविशिष्टं सामान्यमेव, शब्दोपयोगयोश्च परस्परकारणत्वे कारणधर्मानुस्यूतत्वेनोपयोगस्य शब्दात्मकत्वं स्यात् , यद्यदाकारानुबद्धं तत्तदात्मकमिति व्याप्तेरिति भावः । समाधत्ते-अथ कस्मादिति उभयोः परस्परकारणत्वे कथमुपयोग एव शब्दत्वमापद्यते, न तु शब्द उपयोगत्वमिति न चास्त्यत्र विशेष हेतुः तस्मादुपयोगस्य विशेषस्य प्राधान्यान्नामैवोपयोगत्वमापद्यत इति भावः। किञ्च त्वन्मतेन शब्दस्य न नामद्रव्यत्वं सम्भवति, उरःप्रभृतिभ्यो द्रव्येभ्यस्तदुत्पादाभ्युपगमात् तथा च द्रव्यद्रव्यत्वं प्राप्तमित्याशयेनाह-तस्यापि वेति नामशब्दस्यापि वेत्यर्थः । शब्दे नामत्वविशेषणव्यावर्त्यमाह-नामशब्द इतीति। शब्दस्योरआदिभ्य 20 उत्पत्तिप्रदर्शिकां पाणिनीयशिक्षांप्रमाणयति-तद्यथोक्तमिति। आत्मेति, अन्तःकरणावच्छिन्न आत्मा संस्काररूपेण स्वगतानान् बुद्ध्या-खवृत्त्या समेत्य-एकबुद्धिविषयान् कृत्वा तद्बोधनेच्छया मनो युक्तं करोति, तदिच्छावन्मनः कायाग्निमाहन्ति, स कायाग्निः प्रेरयति मारुतम् , स उदीर्णो मारुतः शब्दप्रयोगेच्छयोत्पन्नयत्नाभिहताग्निना नामिप्रदेशादूर्व प्रेरितो वेगान्मूर्धपर्यन्तं गत्वा प्रतिनिवृत्तो वक्त्रं प्राप्योक्तसहायेन तत्तत्स्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तत्स्थानान्याहत्यान्तःस्थित शब्दं वर्णत्वेनाभिव्यञ्जयतीति भावार्थः । उरःप्रभृतिस्थानजन्यत्वेन शब्दस्य मूर्त्तद्रव्यात्मकत्वमभ्युपगतं भवतीति नामद्रव्यार्थत्यागो द्रव्यद्रव्यार्थतापत्तिश्चेत्याह-मूलद्रव्येति। 25 अर्हदागममपि प्रमाणयति-आर्षमपीति । नामद्रव्यस्य मूर्त्तत्वाचामूर्तीपयोगस्य कारणं न भवतीत्याह-मूर्तममूर्तस्येति । परिणामीति, तेनार्थस्योपयोगकारणत्वेऽपि न क्षतिः निमित्तकारणत्वादिति भावः । शब्दस्य मूर्त्तत्वं साधयितुं शङ्कते-स्या
मिति शब्दो हि पुद्गलद्रव्यविशेषपरिणामः, मूर्तत्वान्न त्वमूर्तः आकाशगुणः, अपि तु मूर्तः शब्दो हि कुड्यादिप्रतिहतगतिः, तद्व्यवहितैः तदश्रवणात्, यस्य च गतिः कुड्यादिना प्रतिहता भवति तन्मूर्त दृष्टं यथा लोष्टादि, तथा शब्द इति, तस्मान्नामूर्तस्योपयोगस्य नाम परिणामिकारणं भवितुमर्हतीत्याह-नामशब्द इति । इतरथा मृद्रव्यमपि नामवदुपयोगस्य द्रव्यं भवेन चैवम् 30 तन्न नाम उपयोगकारणं न वोपयोगो मूलद्रव्यप्रभवः, अमूर्तत्वादाकाशवदित्याह-उपयोग इति, मूले नामशब्द पक्षीकृत्य नोपयोगस्य द्रव्यमिति साधितं मूर्तत्वहेतुना अत्र तूपयोगो न मूर्त्तद्रव्यहेतुक किन्तूपयोगो धर्मितयोच्यते तत्कथमित्याशङ्कायां भावार्थ
सि.क्ष. सूपरिचरन् । २ सि.क्ष.छा. सामा इ एत्ति । ३ सि.क्ष, डे. छा. दमूत्तोऽयं योगकारिण्यं । द्वा० न.१९ (१६)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org