________________
न्यायागमानुसारिणीव्याख्यासमेतम्
उभयनियमारे . (तत एवेति) यस्मात्तत एव चास्योत्पत्तिः-शब्दस्य ज्ञानादेवोत्पत्तिः, वक्तुर्ज्ञानेनोत्थापितत्वात ज्ञानमेव शब्दस्य कारणम् , प्रवृत्तोऽपि शब्दः परतंत्रो ज्ञानार्थत्वात्-परतंत्रो ज्ञानोत्पादनार्थत्वात् श्रोतरीत्यत आह-प्रवृत्तेश्च, तादर्थेन-तन्मूलोत्पत्तितदर्थत्वाभ्यां ज्ञानं प्रधानमित्येतस्मिन्नर्थद्वये दृष्टान्तः-शिबिकावाहकयानेश्वरयानवदिति, वैतनिकानां यानं यात्राप्रेरितेश्वरेण प्रवृत्तं ईश्वरयानार्थमतोऽपि द्विधापि ईश्वर यान]प्राधान्यवत् ज्ञानप्राधान्यमिति, अतस्त्वदुक्तिवदित्यादि, [उप] सामीप्येन सर्वात्मना योग उपयोगः-रूपाद्यर्थसमीपे सर्वात्मप्रदेशानां तत्प्रवणता, शब्दो[प]योगात्मयोगवक्रतादेः तिर्यमनुष्यनामनिवर्तितं मृदादि कुम्भकारादि च यथासंख्यं भवति, रूपादिमदर्थविरचनात्मकत्वात् कुम्भकारादिकार्यवत् नानो भवति, 'आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया' (पाणिनिशिक्षा० का०६) इत्यादि सर्वं त्वदुक्तोपपत्ति
जातमुपयोगविशेषभवनप्राधान्यं साधयति, तत्कार्यत्वाच्छब्दस्य-उपयोगस्य शब्दः कार्य स एव कारणमु10 पयोगस्य कुम्भकारशरीरादेरिति तत्कारणं तदिति त्वयैव प्राग्भावितं विस्तरेणैतत् ।
___ अथोच्येत सामान्यमविशेषः तद्भवनमात्रम् , उभयोः परस्परकारणत्वाविशेषत्वादित्यत्रोत्तरम् , अथ कस्मात् उपयोग एव नामत्वमापद्यते ? उपयोगत्वप्राप्तेर्नाम्नः सर्वत्र विशेषप्रधानत्वम् , तस्यापि वा नामशब्दस्य उम्प्रभृति द्रव्यमिति नामद्रव्यार्थ हित्वा द्रव्यद्रव्या.. र्थोऽङ्गीकृतः, ततो मूर्त्तद्रव्यकारणत्वाभ्युपगमः ते विरोधाय आपद्यते, मूर्तममूर्तस्य हि द्रव्यं 15 न भवति नामशब्दो मूर्त्तः कुड्यादि प्रतिहतगतित्वात् , यथा लोष्टादि, तन्नाम नोपयोगस्य
द्रव्यम् , मूर्त्तत्वात् , मृद्धत्, वैधhणाकाशवत् , उक्तं हि 'न हि मूर्तममूर्त्तत्वं नामूर्त याति मूर्त्तताम् । द्रव्यं त्रिष्वपि कालेषु नात्मभावं जहाति हिं' ॥
अथोच्येतेत्यादि पूर्वपक्षो गतार्थो यावदविशेषत्वादिति, सामान्यमविशेषः तद्भवनमात्रं न विशेष
wwwwww
देवेत्यर्थः । व्याकरोति-यस्मादिति, शब्दस्य ज्ञानमूलोत्पत्तिानार्थी प्रवृत्तिश्चेति शब्दोऽप्रधानमिति भावः । तादर्थ्यनेति, 20 ज्ञानमूला हि शब्दस्योत्पत्तिज्ञानार्थत्वं चेति ज्ञानं प्रधानमिति भावः । शब्दस्याप्रधानत्वे ज्ञानस्य च प्राधान्ये चैकमेव दृष्टान्तं दर्शयति-शिविकेति खयानार्थ हीश्वरः वाहकानां यानं प्रेरयति तेन प्रवृत्तं तद्यानमीश्वरयानाथ भवति, अत ईश्वरयानं प्रधानं वाहकानां यानं स्वप्रधानमिति भावः । कुम्भकारमनुष्यशरीरमृदादि नामप्रभवम्, शब्दोपयोगसम्बन्धात् योगवक्रताविसंवादनादेः, रूपादिमदर्थविरचनात्मकत्वाच कुम्भकारकार्यवदिति यत्त्वयोक्तं तदप्युपयोगविशेषभवनप्राधान्यं साधयतीत्यादर्शयति-अतस्त्वदुक्तिवदिति। आत्मा हि सर्वात्मप्रदेशैः शब्दरूपादिमदर्थे उपयुज्यते तदा तस्य शब्दाधुपयोगः प्रभवति 23 स च ज्ञानमेव तत्सम्बन्धाद्योगवक्रताविसंवादनादेर्मनुष्यशरीरमृदादि भवतीति वदता त्वयैव शब्दाधुपयोगलक्षणक्षायोपशमिक
भावविशेषस्य ज्ञानस्य प्राधान्यमाविष्कृतमिति दर्शयति-शब्देति । शिक्षावचनं दर्शयति-आत्मेति, आत्मा बुद्धिद्वारेण रूपादि
मदान् सम्प्राप्य विवक्षया मनो युङ्क्ते इति तदर्थः, कथमुपयोगविशेषभवनप्राधान्यं साधयतीत्यत्राह-तत्कार्यत्वादिति । ननु .. शन्दात्मकोपयोगसम्बन्धात् सर्वं भवतीति तथा स हि शब्दो भवनात्मको भवनान्यवस्थाविशेषाः खप्नादिवत् पुरुषस्य तस्मात् शब्दः
कार्य कारणञ्चेति मयोक्तं, मदुक्तोपपत्तिजातेनोपयोगविशेषभवनप्राधान्यस्य यदि सिद्धिरिष्यते तर्हि भवनमात्रत्वादुपयोगस्य सामान्यता
...
सि.क्ष.डे. छाः प्रवृत्तिश्च ।
२ सि.क्ष.डे. छा. तमी।
३ सि.क्ष. छा. मात्रस्वं न ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org