________________
wwwm
शानमेव प्रधानम्] द्वादशारनयचक्रम्
७५७ विशेषेणैव भूयते, उक्ता शब्दार्थव्युत्पत्तिर्वस्त्वर्थश्च, स हि भावागमः, ततः उत्थाप्यते शब्दः, तस्माच्छन्दो द्रव्यागमः, तथा ह्याहुः 'आगमतो जाणए अणुवउत्ते दवसुतं' ( अनु० ३२ सू० इति ।
__ तथाचेत्यादि यावत् प्रब्रवीरन्नित्यनिष्टापादनम् , यदि शब्दस्य घटोत्पत्तौ द्रव्यत्वं स्यात् ततो घटार्थिनो भवतु घट इति प्रब्रवीरन् , अरिविनाशार्थिनश्च राजानो-विजिगीषवो न हस्त्यश्वं विभृयुः, 5 परबलमेति मा भूदितिवा ब्रूयुः, न च तद् दृष्टमिष्टं वा, तस्मात् प्रवृत्तिनिवृत्तिकारणमार्थिनाश्च क्षायोपशमिको भावः-ज्ञानावरणक्षयोपशमनिमित्तं ज्ञानमित्यर्थः, तत एव प्रवृत्तिनिवृत्तिदर्शनात्, सोऽपि द्रव्यार्थतां हित्वा-क्षायोपशमिको भावः क्षणे क्षणेऽन्यत्वात् द्रव्यार्थतां त्यक्त्वा भवति, क्षणिकत्वात् , तेनापि विशेषेणैव भूयते [सोऽपि] विशेष एव भवति, उक्त[T] शब्दार्थव्युत्पत्तिः, भवति भवत् प्रधानं भाव इत्युपक्रम्य यावद्वालादिभेदं दृश्यत एवेत्यक्षरार्थो गतः, वस्त्वर्थश्च भावितः-सामान्यमुपसर्जनं विशेषः प्रधानं भावः, 10 शिबिकावाहकयानेश्वरयानवदिति, स हि भावागमः-यस्मात् क्षायोपशमिको भावो ज्ञानं भावागम उच्यते तस्मात् प्रधानं भवति, [आ]मर्यादया अभिविधिना [वा गमोऽवबोधः ततः शब्दस्यागमत्वं तत उत्थाप्यते शब्दो ज्ञानात् , तस्माच्छब्दो द्रव्यागमः, तथा ह्याहुरिति-शब्दद्रव्यागमत्वे ज्ञापकमार्षम् 'आगमतो जाणए अणुवउत्ते दव्वसुतं' ( अनु० ३२ सू०) इति । .. इतश्च ज्ञानमेव प्रधानम् ,
15 - तत एव हि चास्योत्पत्तिः, प्रवृत्तोऽपि शब्दः परतन्त्रः, ज्ञानार्थत्वाच्छ्रोतरि प्रवृत्तेश्च, तादर्थेन ज्ञानं प्रधानं शिबिकावाहकयानेश्वरयानवत् , अतस्त्वदुक्तिवत् उपयोगविशेषभवनं प्रधानम् , तत्कार्यत्वाछब्दस्य । यदि शब्दस्येति, यदि शब्दो घटादेव्यं स्यात् तर्हि मृदाद्यभावे घटो भवत्विति शब्दप्रयोगादेव घट उत्पद्येत, तदुत्पादकघटशब्दसद्भावात् , परसैन्यविनाशाय च राजानः प्रभूतव्ययसाध्यसेनापरिरक्षणव्यतिरेकेण परबलं माभूदिति शब्देनैव तद्विनाशं कुर्युः, शब्दस्यैव 20 तत्कार्यकरणक्षमत्वादिति भावः । किं तर्हि कारणं प्रवृत्तौ निवृत्तौ चामिलाषुकाणामित्यत्राह-तस्मादिति, शब्दस्य कारणत्वे निरुक्तदोषप्रसङ्गादित्यर्थः, ज्ञानावरणक्षयोपशमजन्यज्ञानादेव प्रवृत्तिनिवृत्ती तत एव तयोर्दर्शनादिति भावः । तदपि हि ज्ञानं प्रवृत्ति निवृत्तिं वा करोतीति द्रव्यं स्यात् , ततश्चाप्रधानमेवेत्याशङ्कायामाह-सोऽपीति, ज्ञानावरणक्षयोपमजन्यो भावोऽपीत्यर्थः, पर्यायत्वेन क्षणे क्षणेऽन्यत्वान्नानुवृत्तत्वलक्षणं द्रव्यत्वं प्राप्नोति, किन्तु विशेष एव भवतीति प्रधानमेवेति भावः। भवत् प्रधानं कर्तृसाधनं प्रत्ययार्थः, भाव उपसर्जनं भावसाधनं प्रकृत्यर्थः, विशेष एव भवतीति भाव इत्यादि पूर्वग्रन्थेनैतन्नयवादिना शब्दार्थव्युत्पत्तिप्रधान-25 मुखेन विशेषस्यैव प्राधान्य प्रतिपादितमिति सूचयति-उक्तेति। तमेव ग्रन्थं स्मारयति-भवतीति । भावार्थोऽपि 'इह खरूपं घटो विशेषो न पटाद्यभावः, स एव प्रधानं भावः, सामान्य क्रिया भवनं प्रकृत्यर्थः उपसर्जनमप्रधानम् शिबिकावाहकयानेश्वरयानवैदिति' भावित एवेत्याह-वस्त्वर्थश्चेति । सोऽयं क्षायोपशमिको भावो भावागम उच्यते, तच्च ज्ञानं प्रधानम् सर्वव्यापाराणां तदर्थत्वात् , तस्माच ज्ञानात् परावबोधार्थ शब्द उत्थाप्यतेऽतः शब्दो द्रव्यागमो भवति, ज्ञानस्य कारणत्वात् , तच्छब्दं श्रुत्वा हि परस्थावबोधो भवति, तस्मादप्रधान शब्द इति कथं शब्दज्ञानयोरैक्यम्, एतादृशप्रतीतिक्रमविरोधादित्याशयेनाह-स हीति 130 ध्याचष्टे-यस्मादिति । आमर्यादयेति, अनाकारपूर्वकसाकाररूपया मर्यादयेत्यर्थः । अनुपयुक्तो ज्ञायको द्रव्यश्रुतमागमत उच्यत इत्यर्थकमार्ष वचनं प्रमाणयति शब्दस्याप्राधान्ये-तथा ह्याहुरिति । वक्त्रा ज्ञानेन परप्रतिपत्त्यर्थं शब्द उत्थाप्यत इति शब्दो वक्तर्यप्यप्रधानम् , श्रोतर्यपि शब्दो ज्ञानार्थ एवेत्यप्रधानम् , उभयत्र च ज्ञानमेव प्रधानमित्याह-तत एव हीति, वक्तृसमवेतज्ञाना
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org