________________
७५६
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
इति गन्धः श्रोत्रग्रहणं शब्द इति लक्षणात् तस्योपयोगस्य शब्दात्मकत्वात् रूपादीनाञ्च तदात्मकत्वात् शब्दो रूपादिरपि भवति, तस्मान्नामद्रव्यस्यानुपसर्जनतैव - प्राधान्यमेवेत्यर्थः, एष नामद्रव्यार्थ नयपूर्वपक्ष: । अत्रोत्तरमुभयनियमभङ्गारः शब्दनयो वक्ष्यत्यतः
अस्यापि नियमः, प्राधान्येन तु विशेषो नियत इत्युक्तः, अर्थार्थत्वाच्छब्दप्रयोगस्यार्थः D प्रधानं न शब्दः, अर्थस्यापि ज्ञानोत्पत्तिनिमित्तत्वात् ज्ञानमेव प्रधानम्, न च ज्ञानशब्दयोरैक्यम्, प्रत्यक्षप्रतीतिविरोधाभ्याम्, प्रत्यक्षमेव हि न नाम्नो घटादिर्भवति, ततस्तु श्रोत्राभिघात एवोत्पद्यते ।
अस्यापि नियम इत्यादि, एषोऽपि नामद्रव्यार्थभावो नियतः उपसर्जनत्वेनेष्यते, न प्राधान्येन, प्राधान्येन तु विशेषो नियत इत्युक्तः, न ब्रूमः शब्दो निमित्तमात्रव्यावृत्तो ज्ञानोपकारी नास्तीति, 10 ज्ञानस्यैव प्रधानस्योपकारकत्वेन वर्त्तते, ज्ञानेनैव चोत्थाप्यते, अर्थप्रत्यायनार्थत्वाच्छब्दप्रयोगस्य, तस्मादर्थार्थत्वाच्छब्दप्रयोगस्यार्थः प्रधानं न शब्दः, तस्याशब्दार्थत्वात्, अर्थस्यापि ज्ञानोत्पत्तिनिमित्तत्वात् ज्ञानमेव प्रधानम्, न च ज्ञानशब्दयोरैक्यम्, प्रत्यक्षप्रतीतिविरोधाभ्याम्, यस्मात् प्रत्यक्षमेव न नान्न:शब्दात् श्रोत्राभिघातकरात् घटादिर्भवति, न शब्दः कारणं घटस्य, ततोऽनुत्पत्तेः, ततस्तु - शब्दात् श्रोत्राभिघात एवोत्पद्यते, तस्माच्छब्दः श्रोत्राभिघाते हेतुर्न घटे न ज्ञाने ।
15
तथा च यदि शब्दस्य घटोत्पत्तौ द्रव्यत्वं स्यात्ततो घटार्थिनो भवतु घट इति प्रब्रवीरन्, अरिविमाशार्थिनश्च राजानः परबलमेति मा भूदिति वा ब्रूयुः, तस्मात् प्रवृत्तिनिवृत्तिकारणमर्थार्थिनाञ्च क्षायोपशमिको भावः, सोऽपि द्रव्यार्थतां हित्वा भवति, क्षणिकत्वात्, तेनापि
तदात्मकत्वादिति, उपयोगात्मकत्वादित्यर्थः । एवं शब्दप्राधान्यवादिनामद्रव्यार्थनयमतमित्युपसंहरति- एष इति । शब्दनयभूतोऽयमुभयनियमनयः उक्तं नामप्राधान्यनयं शिक्षयति-अस्यापीति । त्वदभिमतो द्रव्यभूतः शब्दो न प्रधानम्, विशेषस्यैव 20 प्राधान्यात् किन्तूपसर्जनभूत एवेति व्याचष्टे - एषोऽपीति । नैतावता उभयनियमनये शब्दोऽनुपकारित्वान्नास्तीति भ्रमितव्यमित्याह-न ब्रूम इति । तर्हि किमित्यत्राह - ज्ञानस्यैवेति । वस्तु स्वयं ज्ञात्वा परं बोधयितुं शब्द आश्रीयते, तस्माज्ज्ञानेन शब्द उत्थाप्यते, तेन च शब्देनार्थ प्रत्ययो भवति परस्य, तथा चार्थप्रत्यायनार्थशब्दोत्थापकतया ज्ञानमेव प्रधानं शब्द उपसर्जनमित्याहज्ञानेनैवेति । यो यदर्थस्तत्प्रधानमित रदुपसर्जनम्, यथा भोजनार्थः पाकः, अर्थार्थश्व शब्द इत्यर्थः प्रधानं शब्द उपसर्जनम्, एवं अर्थोऽपि ज्ञानार्थं इति ज्ञानमेव प्रधानमुपसर्जनमर्थ इत्याह- तस्मादर्थार्थत्वादिति । ननु ज्ञानं शब्दानुविद्धमतः शब्दात्मक25 मित्युक्तमित्याशङ्कायामाह-न च ज्ञानशब्दयोरिति । विरोधं स्फुटयति-यस्मादिति, नामरूपो हि शब्दः केवलं श्रोत्रम - भिघातयतीति दृष्टम्, अतः श्रोत्राभिघाते कारणं सः न तु घटादौ, घटादिशब्दात्तदुत्पत्तेरदर्शनात्, यदि शब्दः कारणं द्रव्यं स्यात्तर्हि मृदो घट इव शब्दादपि स उत्पद्येत, ततश्चाभेदाद्वटः शब्दः स्यात् घटाच ज्ञानोत्पत्तेः ज्ञानमपि शब्दः स्यात् न चैवं दृश्यतेऽतो विरोध इति भावः । शब्दस्य घटादिकारणद्रव्यत्वेऽनुपपत्तिं प्रसञ्जयति तथा चेति । तदेव व्याचष्टे
१ सि. क्ष. छा. नानीति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org