________________
नानो मुख्यता] द्वादशारनयचक्रम्
७५५ शब्दानाम्, डित्थादिवत्, इदमप्यभियुक्तानामत एव स्मरणमुपपन्नम् नान्यथा, यथा 'अनेकार्था धातवः' इति, गतार्थं यावद् दृश्यतामिति ।
चेतनाचेतनभेदस्यास्य जगतो भावकं नाम, तस्मादेव घटो भवति, घटस्य द्रव्यं कारणम् , घटं भावयति नाम, घटस्य ततो भवनात्, यद्यतो भवति तत्तस्य कारणं दृष्टम् , यथा मृत्, अनया यथा घटस्तथा नाम्ना, घटक्रियात्मकत्वं वा भावकत्वम् , तस्माद् घटं भावयति । नाम, रूपाद्युपयोगभवनं वाऽन्तर्निविष्टशब्दानुबद्धम् , रूपणाद्रूपम् , रस्यत इति रसः घ्रायत इति गन्धः श्रोत्रग्रहणं शब्द इति लक्षणात् रूपादिरपि शब्दो भवति, तस्मान्नामद्रव्यस्यानुपसर्जनतैव ।
चेतनाचेतनेत्यादि, अनेन प्रकारेण यदुक्तं नाम तच्चेतनाचेतनभेदस्य कुम्भकारघटादेः पृथिव्यादिमनुष्यनारकतिर्यसिद्धपरमाणुकालाकाशादेः समस्तस्यास्य जगतो भावकं नाम-समस्तं जगन्नाम्नो 10 भवतीति भावितम् , तस्मादेव घटो भवति घटस्य द्रव्यं कारणं घटं भावयति नाम, ततो भवनात्, ततो भवतीति प्रतिपादितत्वात् सिद्धो हेतुः। यद्यतो भवति तत्तस्य कारणं दृष्टम् , यथा मृत्-मृदो भुवो घटस्य कारणं, तथा नाम घटस्य कारणमित्येतमर्थमुपनयति अनयेत्यादि, यथा घटस्य मृद्रव्यं भवति तथा नामेत्यर्थः, घटक्रियात्मकत्वं वा भावकत्वम् , नाम्न इति वर्तते, शब्दो द्रव्यं तावत् घटकरणात्मकत्वात् पूर्वोक्तात् प्रतिपद्यते, तस्माद्धटं भावयति नाम, नाम्नो घटो भवतीत्यर्थः, रूपाद्युपयोगेत्यादि, अथवा 15 रूपाद्युपयोगो-रूपादिज्ञानं तस्य भवनमन्तर्निविष्टशब्दानुबद्धं तच्छब्दात्मकं रूपणाद्रूपं रस्यत इति रसः, वायत
mmmmm
manawwwww
mmwww
शब्दप्रवृत्तेस्तस्य च सर्वेष्वर्थेषु सम्भवादेवानेकार्थप्रतिपादकत्वं धातूनामुक्तमभियुक्तैरपील्याह-इदमपीति । गतार्थमिति, अत्र मूलं मृग्यम् । अथ कुम्भकारशरीरमृदादिसर्व जगत् शब्दप्रभवं शब्दात्मकञ्च रूपादिमदर्थविरचनात्मकत्वात् कुम्भकारकार्यवदिति यत्पूर्वमुक्तं तदित्थं भावितमिति स्मारयति-चेतनाचेतनेति । व्याचष्टे-अनेनेति । निखिलं वस्तु दर्शयति-कुम्भकारेति। नाम कुम्भकारादीन् भावयति जनयति परिणमयतीति भावकमिति तात्पर्यमाह-समस्तमिति । भावकत्वमेव स्फुटीकरोति- 20 तस्मादेवेति, नाम्न एवेत्यर्थः। तत्पूर्वमेव व्यावर्णितमतो नामप्रभवत्वान्नाम कारणमित्यत्र नामप्रभवत्वं नासिद्धमित्याह-ततो भवतीति । अमुमेव व्याप्तिं दर्शयति-यद्यत इति । उपनयार्थमाह-यथेति । भाव्यत इति भावकस्तस्य भावो भावकत्वमित्याशयेनाह-घटक्रियात्मकत्वं वेति, भवदेव भवतीति शब्दो भवनात्मकः भवनान्यवस्थाविशेषाः, अवस्थावस्थावतोरमेदेन नामैवाऽवस्थाः कारणश्च शब्दस्यैव तत्तदवस्थाभिर्भवनात्, अत: घटक्रियात्मकत्वाच्छब्दो द्रव्यम्, न हि तदनात्मकघटनादिक्रिया प्रति तत्कारणं भवितुमर्हति, तस्माद्धटं भावयति नामेति भावः । किञ्च विज्ञानमात्रस्य शब्दानुविद्धत्वाद् यद् येनानुविद्धं तत्तदात्म- 25 कमिति व्याप्या रूपादिविज्ञानं शब्दात्मकमित्याशयेनाह-अथवेति, रूपादिसर्वं ज्ञानं शब्दसंसृष्टं भासते निर्विकल्पकं सविकल्पक वा, तस्मादभेदेन शब्दसंसृष्टत्वाच्छब्दात्मकमिति भावः । रूपादिविषयं ज्ञानं यदा रूपपिति रूप्यते तदा तद्रूपमुच्यते यदा रस इति रस्यते तदा रस इति गंध इति घ्रायते यदा तदा गन्ध इत्युच्यते रूपाद्याकारेणैव विज्ञानस्यावभासनात्, तच ज्ञानं शब्दानुविद्धत्वाच्छब्दात्मकमिति विज्ञानात्मका रूपादयोऽपि शब्दात्मका एवेति सर्वस्य श्रोत्रग्राह्यत्वाच्छन्द एव प्रधानमित्याह-रूपणादिति ।
१ सि.क्ष. डे, नान्यथेति नास्ति । २ सि.क्ष. भवो।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org