SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ 5 ७५४ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभय नियमारे वैस्तूनां शयनस्थानासनाद्येकार्थत्वाच्च गतिनिवृत्तिपर्यायाणां शेषधातूनाश्च वस्त्वर्थानतिवृत्तेः कतमद्रव्यं कतमेन निमित्तेन नाभिधीयते ? ततः सर्वसर्वत्वम् । 10 स्यान्मतमेवं तर्हि सुतरामतिप्रसङ्गापादानद्वारेण त्वयैव सर्वस्य बहिर्निमित्तापेक्षत्वं समर्थितम्, त्वत्पक्षेऽपि च सर्वसर्वाभिधानातिप्रसङ्गो दुर्निवार इत्येतच्चायुक्तमुक्तन्यायेनैव एवमपि तु स्थिते सर्वसर्वाभिधानलक्षणाव्यवस्थाव्यावर्त्तनार्थं बहिर्निमित्तनिरपेक्षसंज्ञामात्रसन्निवेशिनियतार्थाभिधायिस्कन्दादित्वमभ्युपगन्तव्यम्, एवं हि सङ्केतमात्रत्वाच्छब्दार्थसम्बन्धस्य मुख्यार्थाः सर्वदेशभाषा इत्येतदयलसिद्धम्, नियतनिरपेक्षत्वात् सङ्केतस्य, स्वोपयोग प्रतिपादन समर्थत्वाच्च शब्दानाम्, डित्थादिवत्, अत एवेदमप्यभियुक्तानां स्मरणमुपपन्नं 'अनेकार्था धातवः' इति .. ... दृश्यतामिति । एवमपि तु स्थित इत्यादि यावत् स्कन्दादित्वमभ्युपगन्तव्यमिति, स्वप्रतिपिपादयिषितार्थप्रतिपादनार्थत्वाच्छब्द प्रयोगस्य प्रसक्तेऽपि सर्वसर्वत्वे सर्वसर्वाभिधानलक्षणाव्यवस्था प्राप्तैव सा मा भूदिति तद्वयावर्तनार्थं स्कन्दादिशब्दाः कस्मिंश्चिदर्थे बहिर्निमित्तनिरपेक्षाः संज्ञामात्रत्वेन सन्निवेशिताः सन्तो नियमेन तमेवार्थमभिदधतीति प्राप्तम् इतरथा सर्वसर्वाभिधानाव्यवस्थाऽवश्यम्भाविनी, तस्मात् संज्ञासंनिवेशात् न मे कश्चिद्दोष इति तस्माच्चोद्याभासमेतत् समानदोषत्वादिति, एवं हीत्यादि, अस्य न्यायस्य 15 व्याप्तिप्रदर्शनम् एवञ्च कृत्वा सङ्केतमात्रत्वाच्छब्दार्थसम्बन्धस्य मुख्यार्थाः सर्वदेशभाषा इत्येतदयत्नसिद्धम्-घटः कुटः कुम्भः, क्षीरं पयः पालि दुग्धम्, अग्निरातुरः किचु मङ्गल इत्यादीनाञ्च सङ्केतवशादभिधित्सितैकार्थवाचित्वं सिद्धम्, नियतनिरपेक्षत्वात् सङ्केतस्य, खोपयोगप्रतिपादनसमर्थत्वाश्च तेषां तेषां wwwwwwwwwwwwwww ननु मां प्रति दोषं प्रदिदर्शयिषुणा भवतापि सर्वाभिधेयानां वहिर्निमित्तापेक्षत्वं समर्थितमेव, एवं समर्थयतो भवतोऽपि सर्वसर्वाभि धानप्रसङ्गो दुर्वार इत्याशङ्कते - स्यान्मतमिति । स्याद्यदि वहिर्निमित्तापेक्षाऽभिधान प्रवृत्तिरित्यभ्युपगम्येत, न चैवमभ्युपगम्यते, 20 उक्तदोषादेव, किन्तु शब्द प्रभाव प्रभवाऽभिधानप्रवृत्तिरिष्यते इत्याशयेनोत्तरयति - एवमपीति । वक्ता हि परस्य स्वाभिलषितमर्थं प्रतिपादयितुं शब्दान् प्रयोक्तुमभिवाञ्छति, स च शब्दप्रयोगो यदि वहिर्निमित्तसापेक्षोऽर्थं प्रतिपादयेत् तर्हि सर्वसर्वत्वाद्वस्तुनः प्रोक्तरीत्या सर्वसर्वाभिधानलक्षणाऽव्यवस्था स्यादिति तद्व्यावर्त्तनाय नियतार्थाभिधायित्वं शब्दानामभ्युपेयम्, तच्च बहिर्निमित्तानपेक्षं शब्दप्रभावादेव नान्यथेत्याशयेन व्याचष्टे - स्वेति । स्वप्रभावादेव नियतार्थप्रतिपादकत्वानभ्युपगमे दोषमादर्शयति- इतरथेति । अन्तःसंनिविष्टशब्दानुविद्धचैतन्यनिमित्तः संज्ञाव्यवहार इत्यभ्युपगच्छतो मे न कश्चिद्दोष इत्याशयेनाह - तस्मादिति । प्रयोक्तुः 25 सङ्केतवशादेव शब्दानामर्थेषु प्रवृत्तेः निखिलदेशभाषाणामपि सङ्केतेन प्रवृत्तत्वात् मुख्यार्थवाचकत्वमेवेत्याशयेन सङ्केतपूर्वक प्रवृत्तेर्व्यापकत्वमाह - अस्य न्यायस्येति । नानादेशेष्वेकस्यैव घटादेर्नानाशब्दैरभिधानं दर्शयति-घटः कुट इति । पयसो - नामान्तरण्याह-क्षीरं पय इति । अग्नेर्नामान्तराण्याह- अग्निरातुर इति । शब्दो हि वक्त्राऽभिधातुमिष्टं वस्तु सङ्केतवशादेव प्रतिपादयति, सङ्केतस्तुन यत्किञ्चिन्निमित्तमपेक्ष्य क्रियत इति नियमनिरपेक्षत्वात् सङ्केतमात्रत एव शब्दोऽभिधातुरुपयोगं प्रतिपादयितुं क्षम इत्याह-नियतनिरपेक्षत्वादिति, शब्दस्यार्थप्रतिपादने सङ्केतातिरिक्तार्थापेक्षावैधुर्यस्य नियतत्वादित्यर्थः । सङ्केतदेव १. क्ष. डे छा. वास्तुनी । २ छा. सर्वसर्वस्वे सर्वा० । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy