________________
७५३
सर्वसर्वतापत्तिः]
द्वादशारनयचक्रम् र्थव्यवहरणादन्तर्निविष्टशब्दानुविद्धचैतन्यनिमित्तः संज्ञाव्यवहारोऽभ्युपगतो [न] बहिनिमित्तं प्रत्यक्षमिति दोषः, तुशब्दादनिष्टसंपरिग्रहेष्टत्यागौ विशेषयति । ... किश्चान्यत्
निमित्तप्रत्ययेन संज्ञाप्रवृत्तेश्च यावत् सम्भवं संज्ञासन्निवेशे सर्वव्यपदेशभात्त्वात् भावकादयोऽपि ते प्राप्ताः, तथा च यावत् किश्चित् भवननिमित्तग्रस्तं तस्य सर्वस्येन्द्रस्कन्दादिरर्थः, तद्वाचिनश्च पर्यायशब्दा एव, घटकुटशब्दवत्, एवं तावत्सर्वसर्वत्वमविशेषात् ।
निमित्तप्रत्ययेनेत्यादि, यदि स्कन्दनादिनिमित्तप्रत्ययेन संज्ञाप्रवृत्तिस्ततो यावत्सम्भवं यावनिमित्तानि भवनकरणशयनभाषणचङ्गमणवर्तनपरिणमनादीनि सम्भवन्ति, तावद्भिर्निमित्तैः संज्ञासन्निवेशे सति रोदनाद्रुद्रो भवनाद्भवो भावकः करणात् कारक इत्यादि सर्वव्यपदेशभाक्त्वात् भावकादयोऽपि ते प्राप्ताः ततश्च-तथा च यावदित्यादि, यत्परिमाणमस्य-यावत् , यावदेव किश्चिद्भवननिमित्तग्रस्तं सर्वमित्यर्थः, तस्य 10 सर्वस्य घटपटादेरिन्द्रस्कन्दादिरर्थः, सर्वधात्वर्थानामन्वर्थत्वात् पर्यायः, तद्वाचिनश्च पर्यायशब्दा एव किमिव ? घटकुटशब्दवत्-सर्व एव सर्वः-घटः स्कन्दः, पटः स्कन्दः, वैद्योऽपि स्कन्दः, एवं रुद्रेन्द्रादयश्च, स्कन्दोऽपि घटः पटश्चेत्यादि प्राप्तम् , एवं तावत् सर्वधातूंनामन्वर्थत्वात् सर्वसर्वत्वमविशेषात् ।
किञ्चान्यत्
विशेषतोऽपि सम्भवघटनादिस्कन्दनादित्वाच्च सर्वसर्वत्वम् , कतमद्रव्यं कतमेन निमि- 15 तेन नाभिधीयते ?,
(विशेषतोऽपीति) विशेषतोऽपि सम्भवैघटनादिस्कन्दनादित्वाच्च सर्वसर्वत्वम् , चेष्टाकौटिल्याद्य भिसन्ध्यनभिसन्धिपूर्वकपरिस्पन्दार्थत्वात्-परिणत्यर्थत्वात् सर्वेषां ज्ञानगत्यर्थानां स्कन्दनशोषणविसरणरोदनेन्दनस्तम्भनाद्यर्थानां यावतां यस्मिन्नर्थे सम्भवः तस्य तस्य तथार्थत्वे सर्वसर्वत्वं, वसनाद्वस्तु
wimwww
तुशब्दादिति । यदि संज्ञाव्यवहारो बहिर्निमित्तापेक्षः स्यात्तर्हि निमित्तानां बहूनां सम्भवात् प्रतिनिमित्तं संज्ञासन्निवेशे प्रतिवस्तु 20 सर्वसंज्ञाव्यपदेश्यं स्यादिति दोषान्तरमाह-निमित्तप्रत्ययेनेति । व्याचष्टे-यदीति, यावन्निमित्तं नामधेयशब्दाः, तैरर्थसम्प्रत्ययोऽर्थसंप्रत्ययाच्च व्यवहारो यदि स्यादित्यर्थः । एकस्मिन् वस्तुनि नानानिमित्तानि दर्शयति-भवनेति, भावशब्दनिमित्त भवनं कारकशब्दनिमित्तं करणं शायकशब्दनिमित्तं शयनं भाषकशब्दनिमित्तं भाषणं चमकशब्दनिमित्तं चमणं वर्त्तकशब्दनिमित्त वर्त्तनं परिणामकशब्दनिमित्तं परिणमनमित्येतानि निमित्तानि भवकार्तिकेयादी प्रत्येक सम्भवन्तीति तत्तच्छब्दैरपि ते व्यवह्रियेरनिति भावः । ततश्च को दोष इत्यत्राह-तथा चेति, घटपटादिसर्वपदार्थस्येन्द्रस्कन्दादिरर्थः पर्यायः, इन्दनादिधात्वर्थस्य संभवात् , 25 तद्वाचकशब्दाश्च पर्यायशब्दा भवेयुः, एवञ्च घटः इन्द्रस्कन्दादिनिखिलशब्दाभिधेयः स्यादेवं पटादयोऽपीति सर्व सर्वशब्दवाच्यमिति सर्वसर्वत्वं प्रसज्यत इति भावः । भवननिमित्तग्रस्तमिति यावत्किञ्चिद्भावमात्रमित्यर्थः । सर्वधात्वर्थानां प्रतिवस्तु अनुगतार्थवात् पर्यायत्वमित्याह-सर्वेति । इन्दनस्कन्दनभवनकरणादिधात्वर्थवाचिन इन्द्रस्कन्दभवकारकादिशब्दाः पर्यायशब्दा एवेत्याहतद्वाचिनश्चेति । आपत्तिमाह-सर्व एवेति । एवमविशेषात्सर्वसर्वत्वमापाद्य विशेषतोऽपि तदापादयति-विशेषतोऽपीति।
१ छा. सर्वधात्वर्थानात्वर्थत्वात् । २ सि. क्ष. छा. सर्वधातुरन्धर्थत्वात् । ३ सि.क्ष. छा. सम्भवविध० ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org