________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रत्यक्षत्वात् गोपालादय एव तद्भूता मुख्यया वृत्त्योच्यन्ते, ते तु भवकार्तिकेयादयः समयान्तरप्रसिद्धशब्दपरिकल्पगम्या न सर्वलोकप्रसिद्धशब्दाभिधेयाः, तस्मात्त एव तेषु प्रत्यक्षाः, येऽपि च ते स्कन्दादयस्तेष्वेकस्मिन्नितरयोरपि संज्ञयोः प्रवृत्तिनिमित्तसद्भावात् त्रयोऽपि परस्परसंज्ञानिर्देश्याः सङ्कीर्णाः स्युः, अन्यतमनिमित्तमात्रतत्त्वयाऽवधृतया संज्ञया 5 विवक्षितेष्टार्थव्यवहरणात्तु अन्तर्निविष्टशब्दानुविद्धचैतन्यनिमित्तः संज्ञाव्यवहारोऽभ्युपगतो न बहिर्निमित्तं प्रत्यक्षम् ।
प्रत्यक्षत्वादित्यादि यावत्त एव तेषु प्रत्यक्षाः, ते भवकार्तिकेयादयः समयान्तरप्रसिद्धशब्दपरिकल्पगम्या न सर्वलोकप्रसिद्धशब्दाभिधेयाः यथा गोपालादयः प्रत्यक्षाः सर्वलोकप्रसिद्धशब्दाभिधेयाश्चेति, तेषां सत्त्वं तच्छब्दात्मकत्वञ्चाप्रत्यक्षम् , उपचारगम्यश्चेत्येतेभ्यः कारणेभ्यः तद्भूताः-स्कन्दादिशब्दभूताः, 10 प्रत्यक्षाश्च गोपालादयो मुख्यया च वृत्त्योच्यन्ते, तस्मात्त एव-ते गोपालादय एव स्कन्दादयो न समयान्तरपरिकल्पिताः सन्तीति, तस्माच्छब्दशक्तिप्रभावादेव शब्दसन्निवेशः, न निमित्तान्तरात् , अभ्युपेत्यापि समयान्तरपरिकल्पितानां स्कन्दादीनामस्तित्वं निमित्तनियमाभावदोष उच्यते-येऽपि च त इत्यादि, स्कन्देऽपि रोदनेन्दने, [ ततः ] स रुद्र इन्द्रो वा किं न भवति ? तथा रुद्रेऽपि स्कन्दनेन्दने, ततः स इतर इतरश्च किं न भवति ? एकस्मिन्नितरयोरपि संज्ञयोः प्रवृत्तेनिमित्तमस्त्येव, तस्मात् त्रयोऽपि परस्परसंज्ञानिर्देश्याः 16 'संकीर्णाः स्युः, अथ मा भूदेष दोष इत्यन्यतमदेव निमित्तमेकं तत्त्वमिष्यतेऽसङ्कीर्णसंज्ञाव्यवहारार्थ स्कन्द एव न रुद्रो नेन्द्र इतीष्टार्थविवक्षया, एवं तन्यतमनिमित्तमात्रतत्त्वयाऽवधृतया संज्ञया विवक्षितेष्टा
www
समयान्तरप्रसिद्धशब्दपरिकल्पगम्याश्च, अतस्ते न स्कन्दादिशब्दभूता इत्याशयेनोत्तरयति-प्रत्यक्षत्वादिति । व्याचष्टे-त इति आगमान्तरेषु स्कन्दरुद्रादिशब्दानुद्वीक्ष्य परिकल्प्यते सन्ति केचिद्भवकार्तिकेयादयो देवताविशेषा इति, न तु सर्वलोकप्रसिद्ध
गोपालादिशब्दाभिधेयप्रत्यक्षगोपालादिवत् सर्वलोकप्रसिद्धशब्दाभिधेयत्वं भवकार्तिकेयादीनाम् , तस्मात् सर्वलोकप्रसिद्धशब्दाभिधेय20 त्वाच्छब्दात्मत्वात् प्रत्यक्षत्वादुपचारागम्यत्वाच्च गोपालादय एव स्कन्दादिशब्दभूता मुख्यया वृत्त्योच्यन्ते तैः तैः शब्दैरिति भावः ।
स्कन्दादीनां सत्त्वं स्कन्दशब्दात्मकत्वञ्चाप्रत्यक्षमुपचारगम्यञ्चेत्याह-तेषां सत्त्वमिति, एवञ्च ते भवकार्तिकेयादयः न सर्वलोकप्रसिद्धशब्दाभिधेया अशब्दात्मका अप्रत्यक्षा उपचारगम्याश्चेत्येतेभ्यः कारणेभ्यो न तद्धता न वा स्कन्दादिशब्दैर्मुख्यया वृत्त्योच्यन्तेऽतस्ते न सन्त्येवेति दर्शयति-न समयेति । कार्तिकेयादीनामभ्युपगमेऽपि शब्दसामर्थ्याच्छब्दसन्निवेशमनभ्युपगम्य निमित्तान्तराच्छब्दसन्निवेशेऽभ्युपगम्यमाने निमित्तान्तरस्य व्यभिचारितया व्यवस्था विशीर्येतेत्याशयेनाह-अभ्युपेत्यापीति । 25 निमित्तव्यभिचारं प्रकाशयति-स्कन्दपीति, रुद्रेन्द्रशब्दप्रवृत्तिनिमित्तभूतरोदनेन्दनयोस्तद्भिन्ने स्कन्देऽपि सद्भावात् स रुद्रः इन्द्रश्च
स्यादिति भावः । हेतुमाह-एकस्मिन्निति । बाधकमाह-त्रयोऽपीति, स्कन्दरुदेन्द्रादयोऽपि प्रत्येक स्कन्दरुद्रेन्द्रशब्दाभिधेयाः त्र्यात्मकत्वात्सङ्कीर्णाश्च भवेयुरिति भावः । अथ स्कन्दादौ स्कन्दनरोदनेन्दनादिनिमित्तानां सद्भावेऽपि स्कन्दनमेव निमित्तं मुख्यं तत्त्वं तस्य नेतरे असङ्कीर्णसंज्ञाव्यवहारार्थमभ्युपगम्यत इत्याशङ्ख्य समाधत्ते-अथ मा भूदिति । एवं तहीति, तर्कोऽयं तदा सम्भवति यदा शब्दशक्त्यपरिगृहीतस्यापि तर्कस्यागमार्थनिर्णयजनकत्वं स्यात्, न चैतदस्ति, तस्माच्छब्दा30 श्रितत्वात्तर्कस्य शब्द एव तत्र निमित्तं वक्तव्यमित्यन्तर्निविष्टस्कन्दशब्दानुविद्धचैतन्यमेव स्कन्दसंज्ञाव्यवहारे निमित्तमिति
खेष्टसिद्धिः त्वदभ्युपगतबहिनिमित्तपरित्यागात्त्वदिष्टत्यागश्चेति भावः । इमे एव त्वदिष्टत्यागखेष्टसिद्धी तुशब्देन दर्शिते इत्याह
---
--
---
-
-
--
--
१ सि.क्ष. रोदनं च स्रोतः।
२ सि.क्ष. छा. डे. इतरस्य । ३छा. संकारणस्यु।।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org