________________
शब्दप्रभवं जगत्]
द्वादशारनयचक्रम् - अत्राह-प्रत्यक्षत एव दण्डादिबहिनिमित्ताहते घटाद्यनिर्वृत्तेः कथमिदमवधार्यते नाम्नः साक्षाद्भवति न दण्डादिभ्य इत्यत्रोच्यते
नाम्न एव च प्रभावात् तत्प्रेरितप्रयत्नपरिस्पन्दजनितनिष्पत्तिवस्तुनो वस्तुत्वं लभ्यते न बहिनिमित्तापेक्षम् , तत्प्रवृत्तीनामपि स्थाने स्थाने शब्दचेतननियोजितानामात्मलाभात्तदात्मत्वम् , इतरथा स्वरूपप्रवृत्तिरेव दुर्लभा, कुतो वस्तुत्वम् ? तस्मात् सर्वकारकसान्निध्येऽपि 5 कर्तुरौदासीन्ये तदभावे वा क्रियायाः कार्यस्य चाभावाच्छब्दप्रभावप्रभवं सकलं जगत् , तथा हि स्कन्दरुद्रेन्द्राः स्कन्दनरोदनेन्दननिमित्तानुपपत्तावपि जीवस्याजीवस्य वा निमित्तनिरपेक्षाः संज्ञाः क्रियन्ते ।
___ नान एव चेत्यादि, दण्डादीनां सतामप्यकिञ्चित्करत्वाच्छब्दचैतन्यस्यैव प्रभावात् तत्प्रेरितप्रयत्नपरिस्पन्दजनितनिष्पत्तिघटाख्यस्य वस्तुनः तद्वस्तुत्वं घटत्वं नाम्न एव महिना लभ्यते, न बहिनिमित्तापे- 10 क्षम् , तत्प्रवृत्तीनामपि स्थाने स्थाने शब्दचेतननियोजितानामात्मलाभात्तदात्मत्वम् , इतरथा -तेषामतदात्मत्वे स्वरूपप्रवृत्तिरेव दुर्लभा, कुतो घटस्य घटत्वं वस्तुत्वम् ? तस्मात् सर्वकारकसान्निध्येऽपि कर्तुरौदासीन्ये तदभावे वा क्रियायाः कार्यस्य चाभावः घटौदनपटवागादेः, अतः शब्दप्रभावप्रभवं सकलं जगदिति, तथा हीत्यादितन्निरूपयति, हिशब्दो निदर्शने-एवञ्च कृत्वा स्कन्दरुद्रेन्द्राः-स्कन्दिर शोषणे, रुदिर अश्रुविमोचने, इदि परमैश्वर्य इति स्कन्दनेन निमित्तेन स्कन्दः, रोदनेन रुद्रः, इन्दनेनेन्द्र इत्येतेषां निमित्ताना- 15 मनुपपत्तावपि गोपालपशुपालादेर्जीवस्याजीवस्य वा काष्टकुड्यपाषाणादेनिमित्तनिरपेक्षा[:]संज्ञा[:]क्रियन्ते' स्कन्दो रुद्र इन्द्र इति, गोपालादीनामेव तैस्तैः शब्दैः समाख्याऽऽरोपवशाच्चोच्यते । . स्यान्मतं भवतीति भवो रोदितीति रुद्रः इन्दतीति इन्द्र इति देवताविशेषास्तन्निमित्तभूतार्थभाजः सन्त्यप्रत्यक्षाः समयान्तरप्रसिद्धाः तन्मुख्यप्रवृत्तेरितरत्रोपचारो भविष्यतीत्येतच्चायुक्तम्दर्शनादित्याशङ्कते-अबाहेति । शब्दचैतन्यव्यतिरिक्तयावत्कारणसत्त्वेऽपि कुलालरूपशब्दचैतन्यसत्त्व एव घटादिकार्योदयात्तद- 20 भावेऽनुदयात्स्वातंत्र्याच प्रधानकारणं शब्दचैतन्यमिति मत्त्वोत्तरयति-नाम्न एव चेति । व्याकरोति-दण्डादीनामिति, सर्व दण्डादिप्रवर्त्तनं शब्दचैतन्यप्रवृत्त्यैव प्रवर्त्तते न तु तामन्तरेण सर्वेषां शब्दचेतनप्रवृत्तित्वेन तदात्मत्वात् , यदि तेषां तदात्मता न स्यात् शब्दचैतन्यं न प्रवर्तत एव, जगत् प्रवर्तयितुं हि शब्दब्रह्मगः प्रवृत्तिः, तस्मात् घटः साक्षान्नाम्न एव भवतीति भावः। तत्प्रेरितेति, तेन प्रेरितो यः प्रयत्नजन्यः परिस्पन्दस्तेन जनिता निष्पत्तिर्यस्य घटस्येत्यर्थः। घटादिवस्तुप्रवृत्तरिव दण्डादीतरवस्तुप्रवृत्तीनामपि नाम्नःप्रभावादेवेत्याह-तत्प्रवृत्तीनामपीति, दण्डादिबहिनिमित्तप्रवृत्तीनामपीत्यर्थः । तत्प्रवृत्तित्वात्तदात्मत्वान-25 भ्युपगमे खासम्बद्धप्रवृत्त्यन्तरं प्रति वप्रवृत्तेरनुदयाच्छब्दब्रह्म न प्रवर्तेतैवेत्याह-तेषामतदात्मत्व इति । अथ निमित्तान्तरानपेक्षात् साक्षात् शब्दादेव सर्वेषां भावात् सर्वभावानां शब्दात्मकत्वाच्च घटनरोदनादिनिमित्तापेक्षामन्तरेणैव घटेन्द्रादिसंज्ञाः जीवस्याजीवस्य वा क्रियन्त इत्याह-तथा हीति, सकलस्य जगतः शब्दप्रभावप्रभवत्वाद्धीत्यर्थः । हि शब्दो न हेत्वर्थे अपि तु निदर्शनार्थ इत्याह-हिशब्द इति । भावं निरूपयति-एवञ्च कृत्वेति । स्कन्दरुद्रेन्द्रशब्दाः स्कन्दनादिनिमित्तवत्सु समयान्तरप्रसिद्धदेवताविशेषेषु मुख्यया वृत्त्या वर्तमानास्तथाविधनिमित्तविरहितेषु गोपालादिघूपचारेण प्रवर्त्तन्त इत्याशङ्कते-स्यान्मतमिति। 30 गोपालादय एव मुख्यया वृत्त्या स्कन्दादिशब्दैरभिधेयाः प्रत्यक्षत्वात् सबलोकप्रसिद्धशब्दाभिधेयत्वाच्च, कार्तिकेयादयस्तु अप्रत्यक्षाः,
१ सि.क्ष. छा. घटादिनिर्वृ० । २ सि. शब्दाचैः। ३ सि.क्ष. ते। ४ सि. क्ष. समव्यापारोपवशात् । छा. समन्यारोपवशात् ।
द्वा० १८ (९५)
monwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org