________________
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
wwwwwwww
कुम्भकारकरणशब्दचेतनावैचित्र्यवृत्तितारतम्याध्यासन [स] मुपहितरूपा घटता सा साक्षान्नाम्नो भवति तथा तथा - तेन तेन प्रकारेण पिण्डशिवकादि [ ना ] रूपादिपृथुबुघ्नादिना चेति दृष्टान्तः, दान्तिकोऽर्थोऽधुना - तथा तत्प्रभवमेव-शब्दचेतनाप्रभवमेव कुम्भकार मनुष्यशरीरं मृदादि - मृत्सिकता लोष्टवज्राश्मशिला दिपृथिवायतिर्यक्शरीरञ्च, आदिग्रहणादप्तेजोवायुवनस्पतितिर्यक्शरीरं देवशरीरं नारकीयञ्च तद्भावयति5 शब्दोपयोगेत्यादि, - शब्दात्मक उपयोगः श्रुतज्ञानं व्यक्ताव्यक्तं तत्सम्बन्धात्, 'कायवाङ्मनः कर्मयोगः' [ तत्त्वा० अ० ६ सू० १] शुभोऽशुभो वा, 'स आस्रव:' [ तत्त्वा० अ० ६ सू० २] 'पुण्यपापयोः एकेन्द्रियादिजाति नाम्नः तिर्यग्भेदस्य [ अशुभस्य ] योगवत्रताविसंवादनञ्च [ तत्त्वा० अ० ६ सू० २१] तद्विपरीतं योग।वक्रत्वमविसंवादनं शुभस्य मनुष्यदेवपञ्चेन्द्रियजातिनाम्नः, आदिग्रहणाद् [योगावऋत्वा ] विसं - वादनग्रहणात्, आदेरिति पञ्चमीनिर्देशाद्धेतोरित्यर्थः, कुम्भकारशरीरमृदादि तथा तथा तत्प्रभवमेवेति वर्तते, 10 उक्तमिदं प्रक्रियायुक्त्या, न पुनर्हेतुना शब्दानुविद्धचैतन्यात्मकत्वमिति चेदेतर्हि ब्रूमः - रूपादिमदर्थविरचनात्मकत्वात्, रूपरसगन्धशब्दस्पर्शसंख्या संस्थानादयो रूपादयः, ते यस्य सन्ति सोऽर्थः रूपादिमदर्थः, तस्य विरचना-परस्परसम्बन्धानुरूप्येण घटना [स] एवात्मा यस्य स्वरूपं मनुष्यतिर्यगङ्गोपाङ्गादिनामनिर्वृत्तकुम्भकारशरीरमृदादेरिति धर्मित्वेन सम्बध्यते, कुम्भकार कार्यवदिति दृष्टान्तः यथाहि घटपिठरादि कुलालकार्यं तेन तेन मृन्मर्दनादिप्रकारेणान्तः सन्निविष्टशब्दानुविद्धकुम्भकारप्रवृत्त्या निर्वर्त्तितत्वात् तत्प्रभवं तदात्मकं - 15 कुम्भकारप्रवृत्त्यात्मकं रूपादिमदर्थविरचनात्मकत्वात् तथा कुम्भकारशरीरमृदाद्यप्यन्तः सन्निविष्टशब्दानु- विद्धचैतन्यप्रवृत्त्यात्मकमिति ।
t
७५०
रूपस्य आरोपितकलाभेदादिविशिष्टस्य कालस्य सम्बन्धाद्वैचित्र्येण वृत्तिलाभः तथा च विशिष्ट कालसम्बन्धाल्लब्धपरिपाकाभिर्विचित्र शक्तिमिर्नानाविधकार्योदय इति भावः । इत्थं दृष्टान्ततात्पर्यमाख्याय दाष्टन्तिकार्थमाचष्टे - तथा तत्प्रभवमेवेति, शब्दसम्भूतमेव कुम्भकारादिमनुष्यशरीरं पृथिव्यादितिर्यक्छरीरं देवशरीरं नारकशरीरञ्चेति भावः । हेतुं दर्शयति-शब्दोपयोगेति मनुष्यतिर्थ देव20 नारकाणां यथायोगं व्यक्ताव्यक्तश्रुतज्ञानसम्बन्धादित्यर्थः । कायवागिति वीर्यान्तरायक्षयोपशमजन्यपर्यायेणात्मनः सम्बन्धो योगः, कायवाङ्मनोभेदात्रिविधः गमनादिभाषण चिन्तास्वात्मनः साधनम्, कायः शरीरं पुद्गलद्रव्यघटित आत्मन उपग्राहकः, तद्योगाजीवस्य वीर्यपरिणामः काययोगः, आत्मविशिष्टशरीराधीन विसृज्यमान वाग्वर्गणायोग्यस्कन्धा वाक्करणभूताः, एतत्सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः, शरीर विशिष्टात्मना सर्वप्रदेशैः परिगृहीतमनोवर्गणायोग्यस्कन्धा मननार्थं करणतां यान्ति, तत्सम्बन्धादात्मनो
विशेषो मनोयोगः, एते योगाः शुभाशुभभेदेन द्विविधाः, एष त्रिविधोऽपि योगः पुण्यपापयोरास्रवसंज्ञको भवति, तत्रैकेन्द्रिया25 दिजात्यादिद्र्यधिकाशीतिभेदस्या शुभस्याशुभो योग आस्रवः, सद्वेद्यादिद्विचत्वारिंशद्भेदस्य शुभस्य कर्मणः शुभो योग आस्रव इति भावः । अशुभस्यैकेन्द्रियादिजातिप्रभृतिनाम्नः आसवान्तरमाह-योगवक्रतेति, कायवाङ्मनोलक्षणयोगस्य कौटिल्य प्रवृत्तिर्योगवकता निर्दिदिक्षितस्यार्थस्यावस्थितस्वभावस्यान्यथाकरणं विसंवादनमशुभनाम्न आस्रव इत्यर्थः । शुभनाम्न आस्रवमाह तद्विपरीतमिति । शास्त्रीयप्रक्रियया शब्दानुविद्धचैतन्यात्मकत्वं कुम्भकारशरीरादेरभिधायानुमानेन तदाह - रूपादिमदिति । हेतुं व्याचष्टे - रूपरसेति । दृष्टान्तं घटयति-यथा हीति, स्पष्टम् । ननु घटः साक्षान्नाम्नो भवतीत्युक्तं तदयुक्तं प्रत्यक्षतो दण्डादेरेव साक्षात्तद्भवन
१ सि. xx । २ सि. क्ष. छा. तदातदात्मकं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org