________________
शब्दानुविद्धत्वसाधनम्] द्वादशारनयचक्रम्
७४९ त्तिव्यावृत्त्योवृत्तत्वात्, इत्थंभूतलक्षणा तृतीया वा हिताहितप्रवृत्तिव्यावृत्तिभ्यां वृत्तत्वात् स्तम्भाद्याश्रयोपसर्पणं हितप्रवृत्तिवृत्तत्वं गम्न्यिादिभयादन्यतो गमनमहितव्यावृत्तिवृत्तत्वञ्चेति सिद्धो हेतुर्वनस्पतिष्वपि, कृम्यादीनामुत्रासस्तम्भभ्रान्तिपलायितगतागतादिक्रिया भयाद्यविनाभाविन्यः सिद्धा एवातो हिताहितप्रवृत्तिव्यावृत्तिवृत्तता विद्यते शब्दानुविद्धचैतन्याविनाभाविनी यथा कुम्भकारे, तस्मात्तेपूभयेषु साध्यते, सुप्तद्ग्धादिषु तु जङ्गमेषु व्यक्तमेव पाणिप्रस्फोटनादिक्रियालिङ्गम् , तेन विज्ञानमविनाभावित्वात् सिद्धमेव, 5 शब्दानुविद्धत्वं तु साध्यत इति ।
नैतत् स्वाभिप्रेतोपत्तिबलादेव, किं तर्हि ?
भगवदर्हदाज्ञापि तथोपश्रूयते-'सबजीवाणं पि य णं अक्खरस्स अणंतभागो निचुग्धाडिओ' (नंदी० सू० ५१) इत्यादि,
(भगवदिति) भगवदाज्ञाऽपि तथोपश्रूयते-'सबजीवाणं पि' (नंदी० सू० ५१) इत्यादि, अक्ख- 10 राणक्खरसुतादिभेदेन श्रुतज्ञानप्ररूपणायामेकेन्द्रियादिस्वामिकमुक्तं सूत्रे, तथा भाष्येऽपि तं पि जदि आवरिजेज, तेण जीवो अजीवत्तं पावे, सुहृवि मेहसमुदये होइ पहा चंदसूराणं' ( )
अतो यथैव कुम्भकारकरणशब्दचेतनावैचित्र्यवृत्तितारतम्याध्यासनसमुपहितरूपा घटता नाम्नः साक्षाद्भवति तथा तथा तत्प्रभवमेव कुम्भकारमनुष्यशरीरं मृदादि च, शब्दोपयोगसम्बन्धात् योगवक्रताविसंवादनादेः, रूपादिमदर्थविरचनात्मकत्वात् कुम्भकारकार्य-14 वत् , यथा हि घटपिठरादिकुलालकार्य तेन तेन मृन्मर्दनादिप्रकारेणान्तःसन्निविष्टशब्दानुविद्धकुम्भकारप्रवृत्त्या निर्वर्तितत्वात् तत्प्रभवं तदात्मकं रूपादिमदर्थविरचनात्मकत्वात् तथा कुम्भकारशरीरमृदाद्यपि ।
अतो यथैवेत्यादि उक्तार्थोपसङ्ग्रहरूपेण दृष्टान्तदण्डको यावत्साक्षाद्भवति तथा तथेति, कुम्भकारः शब्दानुविद्धचेतनात्मकः तक्रियापि तदात्मिका विचित्रा पिण्डशिवकाद्यर्थपरिस्पन्दभेदा शब्दचेतनैव, 20 तस्या वैचित्र्येण वृत्तेस्तारतम्येणोत्तरोत्तरोत्कर्षपरम्परयाऽध्यासनं, तेन समुपहितं रूपमस्या घटतायाः सा
wwwwwwam
पाह-इत्थम्भूतेति, कंचित्प्रकार प्राप्त इत्थंभूतः, तदाख्याने तृतीयेत्यर्थः । पक्षे हेतुसिद्धिं दर्शयति-स्तम्भादीति । स्पष्टवचसामस्मदादीनां प्रवृत्तयः शब्दानुविद्धचैतन्याविनाभाविन्यः सुप्तदग्धादिजङ्गमानां पाणिप्रस्फोटनादिप्रवृत्तिदर्शनात् शब्दानुविद्धचैतन्यमनुमीयते, तत्र विज्ञानं तु वादिप्रतिवादिनोः सिद्धमेव शब्दात्मकत्वमेव साध्यत इत्याह-सुप्तेति । न विदं केवलमनुमानेनैव साध्यते किन्तु तथाऽऽगमेनापि साध्यत इत्याह-भगवदिति । व्याकरोति-अक्खरेति । प्रोक्तानुमाने दृष्टान्ततयोपन्यस्तं कुम्भकारवदिति 25 दृष्टान्तं सङ्घहरूपतो वर्णयति-अतो यथैवेति । तदेव व्याचष्टे-कुम्भकार इति, शब्दानुविद्धचेतनाविशेषकुम्भकारप्रवृत्तिमात्रस्य तत्प्रवृत्तित्वाच्छब्दानुविद्धचेतनात्मकत्वमेव कुम्भकारशक्तिरूपत्वात् ताश्च प्रवृत्तिलक्षणाः शक्तयो विचित्ररूपाः, तद्वैचित्र्येणैव विल क्षणोत्तरोत्तरकार्याणामुदयः, कारणवैचित्र्याद्धि कार्यवैचित्र्यमत एव क्रमसहभाविपिण्डशिवकादिना पृथुबुनादिना चोत्तरोत्तरतारतम्याध्यासितोत्कर्षपरम्परया सम्प्राप्तस्वरूपा घटता सापि शब्दादेव भवतीति भावः। वैचित्र्येण वृत्तेरिति, शब्दब्रह्मणः स्वातंत्र्यशक्ति
१ छा. भगवदर्हदा०। २ सि. अयेतो.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org