________________
न्यायागमानुसारिणीव्याख्यासमेतम्
न हि काचिदपि चेतना अशब्दाऽस्ति, अनादिकालप्रवृत्तशब्दव्यवहाराराभ्यासवासितत्वाद्विज्ञानस्य, चैतन्यमेव हि पश्यन्त्यवस्था मध्यमावैखर्योरवस्थयोरुत्थाने कारणं नामत्युच्यते, कारणात्मकत्वात् कार्याणाम्, यथोक्तं 'वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदतम्' ( वाक्य० का ० १ श्लो० १४३ ) इत्यादि ।
( न हीति ) न हि काचिदपि चेतना अशब्दाऽस्ति, अनादिकालप्रवृत्तशब्दव्यवहाराभ्यासवासितत्वात् विज्ञानस्य, चैतन्यमेव हि पश्यन्त्यवस्थानं मध्यमावैखर्योरवस्थयोरुत्थाने कारणं नामेत्युच्यते, कारणात्मकत्वात् कार्याणाम्, यथोक्तं 'वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम्' ।' ( वाक्य ० का ० १ श्लो० १४३ ) इत्यादि ।
शब्दव्यवहारानभिज्ञेष्वप्यव्यक्त चेतनेषु विज्ञानोत्थापितप्रवृत्तिसम्भवे व्यभिचरतीति
स्यान्मतं 10 चेनेत्युच्यते
येsयव्यक्तचेतना जङ्गमाः स्थावराश्च तेऽपि शब्दाभ्यासवासनाजनितान्तर्निविष्टस्वा - नुरूपचैतन्याः, हिताहितप्रवृत्तिव्यावृत्तिवृत्तत्वात् कुम्भकारवत् ।
"
येsयव्यक्तचेतना इत्यादि, कृमिपिपीलिकादीनां जङ्गमानां व्रततित्रपुपीसितकर्णिकादीनां स्थावराणाश्च शब्दाभ्यासवासनाजनितान्तर्निविष्टस्वानुरूपचैतन्यास्तित्वं प्रतिज्ञायते, हिताहितप्रवृत्तिव्या15 वृत्तिवृत्तत्वात्, कुम्भकारवत् - हिताहितयोः प्रवृत्तिव्यावृत्ती, निमित्तसप्तमी सम्बन्धषष्ठी वा हिताहितप्रवृ
www.
5
७४८
wwwwww
www.
Jain Education International 2010_04
20
नास्ति, चैतन्यस्य प्रकाशशून्यत्वादित्याशयेनोत्तरयति - न हीति । व्याचष्टे-न हीति, लोके शब्दानुगमं विना ज्ञानं नास्ति सर्वमपि ज्ञानं शब्दविषयकं शब्दार्थयोरभेदात्, अर्थस्य शब्दप्रकाश्यत्वनियमाच्च ज्ञानश्च सर्वं शब्दाकारानुविद्धम्, ज्ञानस्य च शब्दाकारताननुषङ्गे समुत्पन्नमपि ज्ञानं न प्रकाशेत तस्मान्नास्त्यशब्दा चेतनेति भावः । न हि काचिदित्यनेनोक्ता चेतना वैखरीत्युच्यते सा च श्रोत्रविषया श्लिष्टव्यक्तवर्णा प्राप्तसाधुभावा भ्रष्टसंस्कारा च अन्तःसन्निवेशिनी परिगृहीतक्रमेव बुद्धिमात्रोपादाना सूक्ष्मप्राणवृत्त्यनुगता मध्यमेत्युच्यते, प्रतिसंहृतक्रमा सत्यप्यभेदे समाविष्टक्रमशक्तिः पश्यन्तीत्युच्यते, इयञ्च मध्यमावैखर्योः कारणं नामात्मिकैव कार्याणां कारणात्मकत्वात् कार्यस्य नामात्मकत्वे कारणस्यापि तदनपायादित्याशयेनाह - चैतन्यमेव हीति, प्राह्यग्राहकाकारवर्जिताऽपरिच्छिन्ना सर्वतः संहृतक्रमा पश्यन्तीरूपा वाक्, स एवात्मा सर्वदेहव्यापकत्वेन वर्त्तते, अन्तः पश्यदवस्थया भोक्तृतारू पयाऽविद्यया, सैव पश्यन्तीरूपा वाक् अर्थप्रतिपादनेच्छ्योपलक्षिता मनोविज्ञानरूपत्वेनाऽऽस्थिता मध्यमा वागुच्यते, सैव च वक्त्रकुहरे प्राप्ता कण्ठादिस्थानभागेषु विभक्ताकारादिवर्णरूपा वैखरीत्युच्यते, ततः सैव बाह्यार्थवासनया विद्यारूपया क्रमेण घटपटायाकारै25 विवृत्ता चक्षुरादिना गृह्यते इति भावः । ननु बालमूकपशुपक्षिकृमिपिपीलिकावृक्षलतादीनां प्रवृत्तिदर्शनेनानुमितविज्ञानानां चेतनाऽशब्दैवेति कार्याणां कारणात्मकत्वं व्यभिचरतीत्याशङ्कते - स्यान्मतमिति । समाधत्ते - येऽपीति । व्याचष्टे - कृमीति । कृम्यादयः अङ्गमा व्रतत्यादयः स्थावराश्च शब्दाभ्यासवासना जनितान्तर्निविष्टखानुरूपचैतन्या एव, सर्वं हि विज्ञानं शब्दाकारानुस्यूतम्, संसारिगां बाह्यस्य लोकव्यवहारस्यान्तश्च सुखदुःखादिसंविद्रूपस्य साधनं वागेव, सर्वप्राणिषु वाङ्मात्रानतिक्रान्तचैतन्यस्यैव वर्त्तनात् वाङ्मात्रातिक्रान्तचैतन्ये हि बाह्यान्तः प्रवृत्तिरेव न स्यादिति बाह्यान्तर्हिताहित प्रवृत्तिव्यावृत्तिदर्शनमेव कृम्यादीना 30 शब्दानुविद्धचैतन्यात्मकत्वं साधयतीति भावः । अमुमेव हेतुं दर्शयति- हिताहितेति । हिताहितनिमित्तप्रवृत्तिनिवृत्त्योर्श्वत्तत्वात् हिताहित सम्बन्धि प्रवृत्तिनिवृत्योर्वृत्तत्वादिति हेत्वर्थमाह-निमित्तेति । हिताहितप्रवृत्तिनिवृत्तिप्रकारेण वृत्तत्वादिति हेत्वर्थाभिप्राये
१ सि. क्ष. छा. डे. रूपम् । २ सि.क्ष. छा. त्रपुसीसकचितकर्णिका० ।
[ उभयनियमारे
For Private & Personal Use Only
www.jainelibrary.org