________________
Amwamam
शब्दात्मकत्वसाधनम्
द्वादशारनयचक्रम् सर्वथा चैतन्यरहितस्य मूर्त्तद्रव्यस्य घटसजातीयस्यापि मूर्तिरहितस्यापि वा चेतनस्यासजातीय[स्य]घटकारणत्वासम्भवात् मूर्तचैतन्यात्मकः कुम्भकारः-पृथिव्यप्तेजोवाय्वाकाशात्मानः संहत्य कुम्भकाराख्या भवन्ति, तञ्च सर्वमपि चैतन्नामैव-शब्द एव, शब्दब्रह्मण एवैकस्य विपरिवर्तस्वरूपं पृथिव्यात्मादिमूर्तीमूर्त्तभेदप्रभेदं जगत् ।
अपर आह-शब्दस्वतत्त्वमाकाशगुणो वा शब्दः, श्रोत्रग्राह्यस्यार्थस्य शब्दसंज्ञत्वादिति केचि- 5 त्प्रतिपन्नाः, तत्कयोपपत्त्येदमुच्यते शब्द एव सर्वमित्यत्रोच्यते
कुम्भकारो ह्यात्मा तत्सन्निविष्टशब्दानुविद्धचैतन्यस्वरूपत्वाच्छब्दात्मकः, तदनुरूपान्तःशब्दानुविद्धचैतन्यप्रेरितपिण्डशिवकाद्यनुक्रमप्रवृत्तयोऽपि तदात्मिकाः, तत्प्रवृत्तित्वात् , मृत्प्रवृत्त्यात्मकघटवत् , तद्भावे तद्भावात् , तदभावे न प्रवर्तते, तन्तुवायवत् ।
कुम्भकारो हीत्यादि, हिशब्दो हेत्वर्थे, कुम्भकारस्तावदात्मा, तत्सन्निविष्टशब्दानुविद्धचैत- 10 न्यस्वरूपत्वाच्छब्दात्मकः, तदनुरूपान्तःशब्दानुविद्धचैतन्यप्रेरितपिण्डशिवकाद्यनुक्रमप्रवृत्तयः-क्रिया अपि तदात्मिकाः, तत्प्रवृत्तित्वात् , मृत्प्रवृत्त्यात्मकघटवत्, तद्भावे भावात् , वैधम्र्येण तदभावे-तदनुरूपान्त:सन्निविष्ट[शब्दानुविद्ध] चैतन्याभावे न प्रवर्त्तते, तन्तुवायवत् ।
स्यान्मतं तदनुरूपैचैतन्यात्मकत्वमस्तु, प्रवृत्तेश्चैतन्याविनाभावात् शब्दात्मकत्वं तु साध्यमित्यत्रोच्यते, किमत्र साध्यम् ? सिद्धमेवैतत्
भावार्थमाह-सर्वथेति, मूर्त्तत्वेन घटसजातीयत्वेऽपि कुम्भकारशरीरमात्रस्यासजातीयस्य चात्ममात्रस्य घटकारणत्वासम्भवात् मूर्तचैतन्यात्मकः कुम्भकारः कारणम् , स च पृथिव्यप्तेजोवाय्वाकाशात्मरूप इति भावः । पृथिवीति, अनेन वस्तुमात्रं प्रदर्शित वस्तुमात्रस्य शब्दात्मकत्वप्रदर्शनाय । तच्च सर्वमपीति, पृथिव्यतेजोवाय्वाकाशात्मस्वरूपं सर्वमपीत्यर्थः । नामैवेति शब्दार्थयोस्तादात्म्यात् पश्यन्तीवाग्रूपं शब्दब्रह्मैवेति भावः । भावार्थमाह-शब्देति । ननु सर्व जगत् शब्दात्मकमेवेत्ययुक्तम् , सांख्यैः शब्दस्य केवलमाकाशकारणतया वैशेषिकैराकाशगुणत्वेन स्वीकारात् योऽर्थो हि श्रोत्रेन्द्रियेग गृह्यते स एव शब्द उच्यते न सर्वे 20 घटपटरूपादय इत्याशङ्कां मनसिकृत्य समाधत्ते-कुम्भकारो हीति । ये यदाकारानुस्यूतास्ते तन्मयाः यथा घटशरावोदश्चनादयो मृद्विकारा मृदाकारानुगताः पदार्था भृन्मयत्वेन प्रसिद्धास्तथाशब्दाकारानुस्यूताश्च सर्वभावाः, एवञ्च निर्विकल्पकं सविकल्पकं वा ज्ञानं गौः शुकः चलः डित्थ इति शब्दविशिष्टमेवार्थमवबोधयति, शब्दाख्यविशेषणानुरक्तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयति शब्दापरित्यागलब्धप्रकाशस्वरूपया वाऽनुभूत्याऽनुभवतीति सोऽपि विशेष्यः शब्दरूप एवेति शब्द एवार्थोपारूढः प्रतिभातीत्याशयेनाह कुम्भकारस्तावदिति, अयं विशेष्यो वाचकत्वेन स्वविशेषणीभूतशब्दसम्मिश्रचैतन्यखरूपत्वात् शब्दार्थयोश्च तादात्म्याच्छब्दा- 25 त्मक एव कुम्भकार इति भावः । तादात्म्यात् अभ्यन्तरीकृतयोग्यशब्दानुविद्धचैतन्यस्य याः मृत्पिण्डशिवकाद्यनुक्रमप्रवृत्तयस्तद्गतविचित्रकार्यजनकशक्तिवैचित्र्यात् कालात्मकस्वतंत्रशक्तिप्रेरितात् भवन्ति ता अपि तदात्मिका एव, पिण्डादीनां तत्प्रवृत्तिरूपत्वादित्यनुमानमाह-तदनरूपेति । व्याप्तिं ग्राहयति-तद्धाव इति । प्रवृत्तिं प्रति चैतन्यस्य कारणत्वेन पिण्डादिप्रवृत्तयः पिण्डादि. -प्रवृत्त्यनुरूपचैतन्यात्मका भवन्तु कथं शब्दात्मकत्वं तासामित्याशङ्कते-स्यान्मतमिति । सर्वः प्रत्यय उपजायमानो नानुल्लिखित-.. शब्दक उपजायते तदुल्लेखरहितस्यानवाप्तप्रकाशखभावत्वेनानुदितकल्पत्वात्, इदं ईदृशश्चेति परामर्शरहिते हि वेदने वेदनात्मकतैव 30
१ सि. क्ष. डे. छा. तस्मानिविष्टिशब्दा०। २ सि. xx। ३ सि. xx।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org