________________
wwwww
न्यायागमानुसारिणीव्याख्यासमेतम्
उभयनियमारे . (तत्रेति) तत्र नामद्रव्यार्थभवनं तावत्-स्वरूपतो नमयति प्रह्वीकरोति सर्वमात्मस्वभावेनेति नाम कारणं-करोतीति, द्रव्यं-प्राग्व्याख्यातार्थं भवत एव तावद्भवनं तद्रव्यं कारणनामेत्युच्यते-भवत्येव भवत्यवस्थितं विश्वस्य कारणं प्रागुक्तपुरुषादिकारणवदेकमेव नाम-शब्दः, आह-करोतीति कारणमुक्तं कार्याभावात् किं क्रियते ? यत् कुर्वत् तत् कारणं स्यात् , तस्मात् कार्याभावात् कारणत्वाभावः, कारणत्वा5 भावात् स्वलक्षणाभावात् खपुष्पवदसदिति, उच्यते-तदेव कार्य कारणमेव नाम कार्य नासत्, कुतः ? भवनात्मकत्वात् , स हि शब्दो भवनात्मकः, भवनान्यवस्थाविशेषाः, स्वप्नादिवत् पुरुषस्य, बालादिवद्वा, पिण्डादिरूपादिवद्वा घटस्य, तस्मात् स एव कारणं स्वावस्थाविशेषाणां कार्याणामिति ।
अस्योद्दिष्टस्य कार्यकारणभावस्य निरूपणार्थमुदाहृत्य घटं घटस्य हीत्यारभते
घटस्य हि कुम्भकारचेतना कारणं, नामूर्त्तात्मा, ततः किं कुम्भकारशरीरं कर्तृत्वात् 10 मूर्त्तत्वात् मृदाद्यात्मकत्वाद्धटस्य मूर्तस्य कारणं सम्भाव्येत ? यदस्तु तदस्तु कार्य कारणञ्च
सर्वथा चैतन्यरहितस्य मूर्त्तद्रव्यस्य मूर्तिरहितस्यापि वा चेतनस्य कारणत्वासम्भवान्मूर्तचैतन्यात्मकः कुम्भकारः, सर्वमपि चैतन्नामैव । - (घटस्य हीति) घटस्य हि कार्यस्य यस्मात् कुम्भकारचेतना कारणम्-कुम्भकरणसमर्थशरीर
सहिता, चेतनारहितस्याकारणात् , आत्मा तर्हि कारणमस्तु चेतनत्वादिति चेत् तन्नामूर्त्तात्मा, अका15 रणात् , ततः किं कुम्भकारशरीरं कर्तृत्वात् मूर्त्तत्वात् मृदाद्यात्मकत्वात् घटस्य मूर्तस्य कारणं सम्भाव्येत ?
मृत्सलिलाद्यात्मकत्वाद्धटस्य मृत्सलिलाद्यात्मकमेव कारणं सम्भाव्येत ?, यदस्तु तदस्तु कार्य कारणञ्च, नामेति।व्याचष्टे-स्वरूपत इति, सर्वभावान् खस्वभावेन यतो नमयति तत एवैतन्नाम कारणं द्रव्यञ्च भवति भवनक्रियानुभवनशीलस्य द्रव्यत्वादिति भावः । कृत्यल्युटो बहुलमिति बाहुलकात् कर्तरि यप्रत्ययेन निष्पन्नत्वाद्र्व्यशब्दस्य भवत एव भवनमर्थ इत्या
शयेनाह-प्राग्व्याख्यातार्थमिति। तच्च कारणमेकमेव पुरुषस्वभावकालनियत्यादिवदित्याह-भवत्येवेति । यदि सर्वमात्मस्वभावेन 20 नमयति तदा सर्वं नाम भवति, नाम चैकमुच्यते तर्हि तत्कारणं न भवेत् तद्व्यतिरिक्तस्य कस्यचिदप्यभावात् , तथा च किं जनयत्
तत् कारणं भवेत् तस्मात् कारणत्वलक्षणं नाम नास्ति खपुष्पवदित्याशङ्कते-करोतीति । सर्व ह्यात्मस्वभावेन नमयतीति मामोच्यते तदेव सर्वं कार्यभूतं नाम भवति तत्तद्रूपेण वा तस्यैव भवनात् तत्कार्यमपीत्याह-तदेव कार्यमिति, कारणभूतं नामैव कार्य भवनात्मकत्वादिति भावः । अवस्थाऽवस्थावतोरभेदाद्भवितुर्यद्भवनं तदेव कार्य पुरुषस्य बालादिवत् घटादेः रूपादिवदित्याह
सहीति, एक एव शब्दो नानाविधकार्यकारित्वेनानन्तशक्तित्वात् शक्तिभेदमाश्रित्य घटपटादिविचित्रावस्थाभिर्भवति यथा 25 घटपटादयोऽवस्थाः परस्परं भिन्ना अपि पृथिव्येव भवति तस्याश्च स्वतोऽभिन्नत्वादेककारणत्वं तथा शब्दोऽपीति भावः । मूर्तममूर्त
वा सर्वं शब्दस्यैवैकस्य विपरिवर्तस्वरूपमित्यादर्शयति-घटस्य हीति । व्याचष्टे-घटस्य हि कार्यस्येति, घटादिमूर्तकार्यस्य न केवलं चेतना कारणं विजातीयत्वात् न वाऽचेतनमात्रम्, चेतनां विना कार्याजननात् , किन्तु कुम्भकरणसमर्थशरीरविशिष्टचेतना कारणं स्यात् यथा च घटादिकार्येषु पृथिवीत्वादिजातिसमन्वयदर्शनात् तत्कारणं परमाण्वादिरपि पृथिवीत्वादिजातिसमन्वितो
भवति तथैव घटादिषु शब्दरूपानुगमात् तत्कारणस्यापि शब्दरूपत्वमास्थेयमिति सर्व कार्यजातं चेतनमचेतनं वा शब्दस्यैव 30 विपरिवत्तरूपम् ,सर्वेषां भावानां सर्वथा सर्वदा सर्वत्र नामधेयशब्देनान्वितत्वादिति भावः। कारणमिति, अनेन केवलस्याचेतनस
कारणता प्रतिक्षिप्ता । अकारणत्वादिति-अनेना मृतस्य मूर्त प्रति कारणता प्रतिक्षिप्ता । मूर्तस्य मूर्तमेव कारणममूर्तस्य चामूर्तमिति नियमेऽनाश्वासात्तचर्चाया अत्रानवसरत्वात् सम्भावनयोच्यते-कुम्भकारशरीरमिति । तदेवाह-यदस्तु तदस्त्विति ।
१ छा मृत्सलिलाधोव ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org