________________
नामद्रव्यनिरूपणम् ]
क्रियाभवनं प्रकृत्यर्थ उपसर्जनमप्रधानम्, शिबिकावाहकयानेश्वरयानवदिति विशेषभवनमेव भावभवनमिति पर्यायनयभेदोऽयं सर्वद्रव्यार्थभवनप्रतिपक्षभूतः ।
क्रियाघटेत्यादि, क्रियायां कारकं - कर्ता, घटे रूपादिः, त्रीहौ मूलादिः, देवदत्तादौ बालादिः, एते भेदा यस्य तद्भवन सामान्यं भेदप्रधानं दृश्यते लोके विशेषेण - उपसर्जनीकृतप्रधानेनेत्युभयम्, अस्मात् कारणात् विधिर्नियमश्च नियम्येते - सामान्यमुपसर्जनमेव विशेष एव प्रधानमिति विधिनियमौ नियतौ, न 5 यथा पूर्वत्र - उभयमेते कामचारो वा, विधिर्विधीयते नियम्यते च, नियमो विधीयते नियम्यते चेति तुल्यकक्षौ, अनन्तरातीतनयमतवत् उभयचोभयं भावोऽपि भावो भवत्यभावश्च अभावोऽपि [ अभावो ] भावश्चेति, संकरदोषात्, इहेति, अस्मिन्नये स्वरूपं घटो विशेषो न पटाद्यभावः, स एव - विशेषः प्रधानं भावः, सामान्यं क्रियाभवनं प्रकृत्यर्थ उपसर्जनमप्रधानम्, किमिव ? शिविकावा है कयानेश्वरयानवत्-यथा शिबिकावाहकानां यानमीश्वरयानार्थत्वादप्रधानमतः शिविकावाहका यान्तीति नोच्यन्ते तैरूद्यमान ईश्वर एव 10 प्रधानत्वाद्यातीत्युच्यते तथा सामान्येन भवतापि अप्रधानेन भविता घट एव भवतीति प्राधान्यादुच्यते, तस्मान्निरूपितवस्तुस्वरूपमुपनयति - विशेषभवनमेव भावभवनमिति दाष्टन्तिकमर्थमित्थम्, पर्यवनयभेदोऽयम्, अस्य नयस्य पर्यायनयभेदत्वात् सर्वद्रव्यार्थभवनं प्रतिपक्षः तत्र विध्यादयो द्रव्यार्थभवनभेदा व्याख्याता दूषिताश्च 'समनन्तरानुलोमाः पूर्वविरुद्धाः निवृत्तिनिरनुशयाः' ( ) इति न्यायक्रमेण ते च द्रव्यार्थभेदाः ।
द्वादशारनयचक्रम्
नामस्थापनाद्रव्य[rर्थ]भवनयोरव्याख्यातयोर्व्याख्यानं कृत्वा दूषयिष्यति
तत्र नामद्रव्यार्थभवनं तावत् - स्वरूपतो नमयति प्रह्वीकरोति सर्वमात्मस्वभावेनेति नाम कारणं द्रव्यं तदेव कार्य नासत् भवनात्मकत्वात्, स हि शब्दो भवनात्मकः, भवनान्यवस्थाविशेषाः, स्वप्नादिवत् पुरुषस्य बालादिवद्वा, पिण्डादिरूपादिवद्वा घटस्य ।
3
Jain Education International 2010_04
७४५
क्रियायामिति, क्रियाघटादीनां कारकरूपादिव्यतिरेकेणाकिञ्चित्करत्वात्तदविनाभावित्वाच्च कारकादय एव प्रधानं क्रियाविसामान्य 20 नूपसर्जनमेवेति भावः । अत एव सामान्यमुपसर्जनमेव विशेष एव तु प्रधानमिति नियम्यते न तूभयमतवदुभयप्रधानविधिरुभयोभयनक्वदुभयोरुभयात्मकत्वमिति निरूपयति- अस्मात्कारणादिति । खमतं समर्थयति - अस्मिन्नय इति, मृदादेः खखरूपं घो विशेषस्तेन रूपेण तस्या भवनात् पटाद्यभावस्तु न विशेषस्तेन रूपेणाभवनात् तत्रापि घटादिविंशेष एव प्रधानं तदर्थं सामान्यस्य प्रवृत्तेः, अत एव सामान्यम प्रधानं भवित्रा विशेषेण वशीकृतत्वादिति भावः । अत्र दृष्टान्तमाह-शिविकेति, सामान्यस्थानीयं शिबिकावाहकयानं विशेषस्थानीयेश्वरयानार्थत्वादप्रधानं, शिबिकावाहकानाख गमनस्य सत्त्वेऽपि ते यान्तीति नोच्यन्ते, ऊह्यमान 28 ईश्वर एव यातीत्युच्यते तथा सामान्यं भवदपि अप्रधानत्वात् भवतीति नोच्यते किन्तु तेन भविता विशेष एव भवतीत्युच्यते प्राधान्यादिति भावः । निरूपितवस्तुखरूपं दाष्टन्तिकमर्थमित्थमुपनयतीत्याह- तस्मादिति । विशेषस्यैव प्राधान्येन प्रतिपादनात् पर्यायप्रधाननयविशेषोऽयं नय इत्याह- पर्यवनयेति । एतस्य प्रतिपक्षभूता द्रव्यार्थनयाः विध्यादयः, ते निरूपिता दूषिताश्चेत्याहसर्वद्रव्यार्थेति । एतदभिधानं वक्ष्यमाणार्थनिरूपणावसर प्रदानायेति ध्येयम् । नामस्थापनाद्रव्यभावरूपचतुर्विधभवनमध्ये नामस्थापनाद्रव्याणि द्रव्यार्थनयभेदरूपाणि तानि च न निरूपितानि निरूपितस्यैव व्यावर्त्तनसम्भवात्, अतस्तानि निरूपयति-तत्र 30
१ सि. क्ष. क्रियां घटेत्यादि । २ सि. क्ष. मता । ३ सि. क्ष. वाहकयानभेदश्च भयानवत् । ४ सि. क्ष. भवनं प्रतिपक्षसूत्रविध्या० ।
For Private & Personal Use Only
15
www.jainelibrary.org