________________
७४४
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे
भावना
घटः कर्ता तेन का भवित्रा भूयते, स एव भवतीति भवति, न भवनेन का भूयते, उपसर्जनस्वात् , तेन भवनेन भूयते चेत् खपुष्पमपि भवेत् , यद्यभवद्भवेत् खपुष्पमपि भवेत् । भवनस्य द्रव्यत्वापत्तेः। 5 (घट इति) घटः कर्ता तेन क; भवित्रा भूयते, स एव भवतीति भवति, न भवनेन का भूयते-न भवनं घटो भवति, उपसर्जनत्वात्-कर्तृ भवितुं न शक्नोति, तेन भवनेन भूयते चेत् खपुष्पमपि भवेत्, यद्यभवद्भवेत्-अभवित्रा भवनमनुभूयेत खपुष्पेणाप्यनुभूयेत, न ह्यभवितृत्वात् खपुष्पं भवनमनुभवति तथा भवनमभवितृत्वान्नानुभवतीत्यर्थः, कस्मान्नानुभवति भवनमिति चेदुच्यते-भवनस्य द्रव्यत्वापत्तः
द्रव्यशब्दस्व कर्तृप्रत्ययान्तत्वात् , द्रवतीति द्रव्यं भव्यं 'कृत्यल्युटो बहुलम्' (पा० ३-३-११३) 10 कर्तरीति लक्षणात् , यदि भवति द्रव्यं स्यात्, अनिष्टश्चैतदिति ।।
एवं तर्हि भविताऽप्यभवनः खपुष्पवन्न स्यादिति तुल्यमनिष्टापादनम् , यथा भवित्रा विना भवनं नास्ति तद्विशिष्टं दृष्टं तथा भवितापि भवनेन विना नास्ति तद्विशिष्टो दृष्टः, इत्येतच्च
ननु भवनमविशेष सामान्यमानं क्वचिदपि भवद् दृष्टम् , विशेषेण तु भवित्रा वशीकृतं दृष्टम् , सत्यमेतत् , वयमपि न ब्रूमो भवनं नास्त्येवेति, विशेषप्रधानं स्वोपसर्जनं तु दृष्टमिति । 15 (नन्विति) ननु भवनमविशेष सामान्यमानं कचिदपि भवद् दृष्टम् , विशेषेण तु भवित्रा वशीकृतं दृष्टम् , सत्यमेतत् वयमपि न ब्रूमो भवनं नास्त्येवेति, किं तर्हि ? विशेषप्रधानं स्वोपसर्जनं तु दृष्टमिति न तुल्यत्वमनयोः ।।
क तद् दृश्यत इति चेदुच्यते
क्रियाघटव्रीहिदेवदत्तादौ कारकरूपादिमूलादिबालादिभेदं भवनसामान्यं भेदप्रधान 20 दृश्यते लोके विशेषेणेत्युभयं नियम्यते सामान्यमुपसर्जनमेव विशेष एव प्रधानमिति,
न यथा पूर्वत्र, इह स्वरूपं घटो विशेषो न पटाद्यभावः, स एव प्रधानं भावः, सामान्य
भूयत इति भावयति-घट इति । व्याकरोति-घटः कति . भवितैव भवनमनुभवति प्रधानत्वात . न तु भवनं भवित भवत्यः पसर्जनत्वादिति भावः । भवितृव्यतिरिक्तमपि यदि भवनमनुभवेत्तर्हि गगनकुसुममपि भवनमनुभवेदित्याह-तेन भवनेनेति ।
एतदेव व्याचष्टे-यदीति, यदि भवनमपि भवनमनुभवेत् तर्हि तद्रव्यमेव भवेत् द्रवतीति द्रव्यमिति कर्तृप्रत्ययान्तार्थत्वात् । 25 अनिष्टमेतदित्याह-कस्मादिति । द्रव्यशब्दस्य कर्तृप्रत्ययान्तत्वे व्याकरणं प्रमाणयति-कृत्यल्युट इति। अभवतो यथा
भवनं नास्तीति तदसत् एवमभवनस्यापि भवितुर्भवनं न स्यादिति शङ्कते-एवं तहीति । व्याचष्टे-यथा भवित्रेति, एवञ्च भावाभावयोरुभयोरपि भावाभावात्मकत्वमिति पूर्वपक्षाशयः, भवनं हि निर्विशेषं सामान्यमानं भवन्न दृष्टमपि तु भवित्रा वशीकृतमेवेति न खपुष्पसमतेति भावः । समाधत्ते-सत्यमेतदिति । सामान्यविशेषयोरुभयोः सामान्यविशेषात्मकत्वे विधिर्यदा विधीयते नियम्यते च तदा विधेः, नियमो यदा विधीयते नियम्यते च तदा नियमस्य प्राधान्यं स्यात्, न चैतद्दष्ट सामान्यस्य प्राधान्यमित्याशयेनाह-किं तहीति। विशेषस्यैव प्रधानत्वे दृष्टान्तानाह-क्रियाघटेति । व्याचष्टे
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org