________________
विशेषप्रधानता] - द्वादशारनयचक्रम्
७४३ नतेति भवत् प्रधानं कर्तृसाधनं प्रत्ययार्थः, भाव उपसर्जनं भावसाधनं प्रकृत्यर्थः, प्रकृत्यर्थविवक्षायामपि कर्बर्थप्राधान्याद् भावसाधनत्वेऽपि कर्बर्थ एवोच्यते, यत्तेन भूयते यदसौ भवति भवनमापद्यते भवनक्रियामनुभवति स्वरूपप्रतिलम्भे गुणभूतं क्रियात्वं प्रतिपद्यमानोऽर्थो विपरिवर्तत इत्युक्तं भवति नटपरमार्थनृपत्ववत् । - (न चेति) न च प्रधानेन विनोपसर्जनम् , अस्तीति वर्त्तते, भृतकादिरिव स्वामिना, तस्मादक- । ल्पनेयमपीति, स्यान्मतमुपकार्योपकारिभावेन विनापि भवति वस्त्विति, एतदपि न च प्रधानोपसर्जनभावेनेत्यादि यावद्वस्तुप्रवृत्तिरिति, भोक्ता प्रधानं तदर्थं भोग्यमुपसर्जनम् , ओदनवर्द्धितकशरीरादिवत् आत्मनः शरीरमेव भोक्तृचेतनाधिष्ठितं तदर्थमुपसर्जनमाहारादि, आदिग्रहणात् वस्त्रशय्यासनगृहादि, आहारार्थ शाल्यादि शाल्याद्यर्थं सलिलादि, यथैतद्भोक्तृभोग्यादि गुणप्रधानभावेनैव प्रवर्तते न विना तेनेति, दृश्यते च वस्तुनः प्रवृत्तिरित्यप्रत्यक्षीकृतमिति तयोरेव-भावाभावयोः प्रधानोपसर्जनेता-गुणप्रधानभावः, तृतीयव- 10 स्त्वभावात् , इतिशब्दस्य हेत्वर्थत्वात्-एतस्मात् कारणादेवमवस्थिते कतरत् कथं नियतमित्युभयनियम उच्यते तद्यथा-भवत् प्रधानं कर्तृसाधनं प्रत्ययार्थः, भाव उपसर्जनं भावसाधनं प्रकृत्यर्थः, को भवतीति चेदुच्यतेअर्थत:-प्रकृत्यर्थविवक्षायामपि कर्बर्थप्राधान्यात् भावसाधनत्वेऽपि कर्थ एवोच्यते, अतस्तत्प्रदर्शनार्थमाहयत्तेन भूयते, किमुक्तं भवति ? विशेषः, स एव भवतीति भावः, णप्रत्ययान्तेन कर्तृवाचिना शब्देनोच्यते, पूर्वनयव्याख्याव्युत्पत्तिवत् , भवतीति चेदुच्यते यदसौ भवति भवनमापद्यते भवनक्रियामनुभवति स्वरूपप्रतिलम्भे 15 गुणभूतं क्रियात्वं प्रतिपद्यमानोऽर्थो विपरिवर्तत इत्युक्तं भवति, किमिव ? नटपरमार्थनृपत्ववत्, यथा नटः परमार्थतो नट' एव सन् राजवेषधारी राजक्रियास्वाज्ञापनादिषु च वर्त्तमानो नटत्वप्रधानस्तद्विशेषपरमार्थः, एवं घटाख्यो विशेषः जलधारणादिभवनेषु वर्तमानो घटत्वप्रधानः तद्विशेषपरमार्थो भवतीति ।
विना न ह्युपसर्जनस्योपकार्यस्य प्रवृत्ति तकादेः, न वोपसर्जनत्वमिति दर्शयति-न च प्रधानेनेति । उपकार्योपकारित्वप्रयुक्तप्रधानोपसर्जनभावो न वस्तुत्वव्यापक इत्याशङ्कय समाधत्ते-स्यान्मतमिति । उपकार्योपकारिभावप्रयुक्तप्रधानोपसर्जनभावत्वव्याप्यं वस्तु- 20 त्वमिति दृढीकर्तुं दृष्टान्तपरम्परां दर्शयति-भोक्तेति, भोक्ताऽऽत्मा प्रधानं शरीरमुपसर्जनं शरीरं प्रधानमाहारवस्त्रशय्यादिरुपसर्जनमाहारं प्रधानं शाल्याद्युपसर्जनं शाल्यादि प्रधान सलिलाद्युपसर्जनमित्येवं भावाभावयोर्गुणप्रधानभावेनैव प्रवृत्तिदर्शनाद्गुणप्रधानभावव्याप्तं वस्तुत्वं तच्च भावाभावत्वव्याप्तं तद्व्यतिरिक्तवस्त्वभावादिति भावः। एवं प्रधानोपसर्जनभावत्वे सिद्धे प्रकृतिप्रत्ययार्थयोस्तन्नैयत्यं न तु पूर्वनयवदनैयत्यमिति निरूपयति-कतरदिति । भवनक्रियाया अनुभविता यो भावः स एव प्रधानभूतः प्रत्ययार्थः भवितुर्यद्भवनं स भाव उपसर्जनं प्रकृत्यर्थ इति निरूपयति-भवदिति, भवनक्रियाकर्ता भवतीति भाव इति व्युत्पत्तिविषयो भाव 25 इत्यत्र भूधातूत्तरणप्रत्ययार्थभूतो भावः प्रधानमिति भावः । भाव इति, भवनक्रियाकर्तुर्यद्भवनं भूयत इति भवनमिति व्युत्पत्तिविषयः भवनत्वं प्रतिपद्यमान एव सन् भवतीति भवति विशेषरूपतया भवतीति व्यपदिश्यमानो भूप्रकृत्यर्थो भाव उपसर्जनमिति भावः । एनमर्थमेव स्फुटीकरोति-को भवतीति । भावसाधनत्वेऽपि कर्बर्थत्वे दृष्टान्तमाह-नटेति । भवित्रैव भूयते न तु भवनेन
१ छा. सि.क्ष. डे. वर्द्धितकवत् शरीरादि । सि.xx।
द्वा० न०१७ (९४)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org