________________
omwwwwww
७४२
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे एतावती च प्रवृत्तिः सामान्यविशेषयोर्भवन्ती भवेत् , सर्वथा साऽनुपपन्ना, भावाभावयोरेव पर्यायमात्रत्वात् , गुणगुण्यादिकल्पनास्वपि भावाभावत्वव्यतिरिक्तार्थाभावाविधैव स्यात् , तथा वस्तु परीक्ष्यमाणं चतुर्धाऽपि न घटते ।
अथ सन्मित्रवदित्यादि, अन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति पूर्व5 पक्षयति, यथा संहत्यकारिणोः सन्मित्रयोः परस्परमतानुवर्तिनोरर्थवशादेकस्योपसर्जनता, इतरस्य प्राधान्यमिति चेत्-एवञ्चेन्मन्यसे तदपि न, वक्ष्यमाणेत्यादि यावदभावादिति, भवितुर्विशेषस्यैव प्राधान्यं सामान्यस्य भवनस्यैवोपसर्जनत्वमिति उभयमेवार्थत्वं भावशब्दस्य नान्यथेति वक्ष्यतेऽस्य नयस्य मतम् , तस्मानान्यतरोपसर्जनप्रधानभावः, अथोपसर्जनावेव भावाभावौ, ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यम् ,
बलवताऽऽश्रयभूतेन द्वयोरिव राजपुरुषयोपतिना प्रवर्त्तयित्रा, तदभावे प्रवृत्त्यभावात्, दृष्टा हि प्रवृत्ति10 रबलयोर्बलवदाश्रया, एतावती च प्रवृत्तिः सामान्यविशेषयोर्भवन्ती भवेत् , सर्वथा साऽनुपपन्ना
भावाभावयोरेव पर्यायमात्रत्वात् , तत्त्वान्यत्वादिधर्माणां वस्त्वन्तराभावात् , भावः सामान्यं प्रवृत्तिर्द्रव्यं विधिरन्दयो धर्मीति पर्यायाः, अनावो विशेषोऽन्यत्वं निवृत्तिः पर्यायो नियमो धर्म इति पर्यायाः, गुणगुण्यादिकल्पनास्वपि भावाभावत्वव्यतिरिक्तार्थासद्भावात् द्विधैव स्यात्, तथा - इत्थं वस्तु परीक्ष्यमाणं चतुर्धापि न घटते, तस्माद्भावाभावव्यतिरिक्तस्यार्थस्याभावादुपसर्जनयोरप्रवृत्तिरिति ।
स्यान्मतं प्रधानेन विनापि उपसर्जनयोः प्रवृत्तिर्भविष्यतीति एतदपि
न च प्रधानेन विनोपसर्जनम् , भृतकादिरिव स्वामिना, न च प्रधानोपसर्जनभावेन विना दृश्यते भोक्तृचेतनाधिष्ठितशरीराद्यर्थाऽऽहारादिवस्तुप्रवृत्तिरिति तयोरेव प्रधानोपसर्जअन्यतरस्य च प्रधानत्वं क्वचिदभावस्य क्वचिद्भावस्य वा प्रयोजनवशादिति पूर्वपक्षाशयः । तं निराकरोति-भवितरिति विधिनियमयोः विधिः विधीयते नियम्यते च, नियमोऽपि विधीयते नियम्यते च, भावः भावोऽप्यभावोऽपि, अभावो भावोऽप्यभावोऽपीति 20 पूर्वनयमतवन्न स्वीक्रियते सांकर्यात् , अपि तूभयं नियम्यते-विधिनियमौ, सामान्यमुपसर्जनमेव, विशेष एव प्रधानमिति, तत्रापि विशेषः स्वरूपं घटादिरेव, न पटाद्यभावः स एव प्रधानभूतो भावः, भवनसामान्यमुपसर्जनभूतो भाव इत्युभयमपि भाव एव, अत एव भावात्मकं वस्तु न भावाभावात्मकमिति नयस्यास्य मतम् , तस्मान्न तयोः कामचारता युक्तेति भावः । अथ चतुर्थमुभयोरुपसर्जनत्वविकल्पं शङ्कते-अथेति यदि भावाभावयोद्धयोरुपसर्जनता तर्हि उपसर्जनत्वस्य प्रधानत्वव्याप्यत्वादवश्यं प्रधानेन केनचिद्भाव्य
मन्यथोभयप्राधान्यपक्ष इवोभयोपसर्जनत्वपक्षेऽपि तयोः परस्परनिरपेक्षत्वात् प्रवृत्तिर्न स्यात् , दृष्टा च प्रवृत्तिः, सा चाप्रधानयोर्भावा25 भावयोः प्रधानेन प्रवर्त्तयित्रा केनचिद्भवेत् , नास्ति च प्रवर्त्तयिता कश्चित् भावाभावभिन्न इति भावः । तमेव स्फुटीकरोति
भावाभावयोरेवेति । ननु भावाभावव्यतिरिक्तस्यासत्त्वं न युज्यते वक्तुम् , भावाभावभिन्नानां तद्धर्मभूतानां भावत्वाभावत्वादीनां सत्त्वात्, न हि धर्मविना धर्मी भवितुं व्यपदेष्टुं वाऽहतीत्याशङ्कायामाह तत्त्वान्यत्वादीति, तत्त्वं भावत्वम्, तच्छदार्थस्यान्वयरूपत्वात् , अन्यत्वमभावत्वमन्यशब्दार्थस्य भेदरूपत्वादिति भावः । धर्माणां भावाभावात्मकवस्तुव्यतिरिक्तत्वाभावे वस्तुरूपत्वे
युक्तिमाह-भाव इति । गुणगुणिक्रियाक्रियावजातिव्यक्त्यादीनामपि भावाभावात्मकत्वमेवेत्याह-गुणगुण्यादीति । तत्त्वान्य30 त्वादिचतुर्विधानां भावाभावव्यतिरिक्तत्वासम्भवेन तयोरुपसर्जनत्वं तदन्यस्य प्रधानस्य कस्यचिदभावादनुपपन्नमिति निगमयति
इत्थमिति । प्रधानेन विनोपसर्जनस्य प्रवृत्तिसम्पादकत्वं न सम्भवतीति दृष्टान्तैर्दर्शयति-न चेति । उपकारिणा स्वामिना प्रधानेन
15
१ छा. यावदाभावा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org