________________
सामान्यविशेषयोः प्रधानत्वभङ्गः ]
द्वादशारनयचक्रम्
७४१
शक्तीनामप्यर्थानामङ्गाङ्गिभावदर्शनात्, यथा शिबिका वाहकानामिवेति एतच्च [न] शिबिकावाह कवदित्यादि यावत्प्रयोजयितुरभावादिति, न हेत्वसिद्धिः, शिबिकावाहकानामिव प्रधानभूत ईश्वरो यथा प्रयोजयिता संहत्यकारिणामङ्गाङ्गिभावहेतुरस्ति वहनक्रियायां न तथा कश्चित् सामान्यविशेषयोः घटादेः पिण्डशिवकादेश्च प्रधानभूतोऽन्यः कश्चित् प्रयोजयिताऽस्ति, तस्माद्वैधर्म्यादयुक्तदृष्टान्तमिदमुत्तरमिति, उत्तरभावः प्रयोजयितेति चेत्-पिण्डस्योत्तरो भावः शिवकादिः स प्रयोजयिता प्रधानभूतः, तस्यापि स्थासककोशककु- 5 शूलकादिरुत्तरो यावत् पश्चिमो घटः पुनरावृत्त्येति, एवचेन्मन्यसे तदपि न, तदाऽभूतत्वात् - उत्तरस्य भावस्य तस्मिन् कालेऽनुत्पन्नत्वादसतः प्रयोजकत्वाभावात् कुतः प्रधानत्वं खपुष्पस्येव ? |
किञ्चान्यत्
अभ्युपेत्यापि तदुत्पत्तिमुत्पन्नस्यापि तदात्मकत्वात् पूर्वमेवोत्तरः कथमात्मानमेव प्रयोजयितुमर्हति ? भेदमभ्युपगम्यापि शिबिकावाहक वदस्वतंत्रत्वादप्रवर्त्तकत्वम् ।
নম য
(अभ्युपेत्यापीति ) अभ्युपेत्यापि तदुत्पत्तिमुत्पन्नस्यापि तदात्मकत्वात् - मृत्पिण्डाद्यात्मकत्वात् उत्तरोत्तरभारतस्य स्वबीजाद्य भिन्नत्वात् पूर्व एवोत्तरः स कथमात्मानमेव प्रयोजयितुमर्हति ? भेदमभ्युपगम्यापि शिबिकावाहकवदस्वतंत्रत्वात् - परवशवर्त्तित्वाद्प्रवर्त्तकत्वं पूर्वोत्तरयोर्दिक्तः कालतो वा भिन्नयोरपि भावाभावयोर प्रधानत्वादीश्वर प्रेरितशिबिका वाहकवत्, एवं तावत् प्रधानयोर प्रवृत्तिः सामान्यविशेषयोः । वक्ष्य
अथ सन्मित्रवदन्यतरोपसर्जनप्रधानभावेन सामान्यविशेषयोरविशिष्टतेति चेन्न, माणैतन्नयमतादन्यतरोपसर्जनप्रधानभावाभावात्, अथोपसर्जनावेव भावाभावौ ततस्तयोः प्रधानेनान्येनावश्यं भवितव्यम्, तदभावे प्रवृत्त्यभावात् दृष्टा हि प्रवृत्तिरबलयोर्बलवदाश्रया,
"
Jain Education International 2010_04
10
कयोर्वैषम्यं प्रकाशयति-शिबिकावाहकवदिति, तुल्यशक्तीनामपि केषाञ्चिदङ्गाङ्गिभावेन मिलित्वा यत्किञ्चित्कार्यं प्रवृत्तौ कश्चित् प्रयोजयितेश्वरादिर्दृश्यते, सामान्यविशेषयोर्भावाभावयोस्तु प्रधानयोस्तथाप्रवृत्तौ न कश्चित् प्रयोजको विद्यत इति परम्परानपेक्षत्वं सिद्धमेवेति भावः । पूर्वपूर्वभावस्य प्रवृत्तावुत्तरोत्तरभाव एवात्रापि प्रयोजकोऽस्त्येवेति तद्दोषतादवस्थ्यमा - 20 शङ्कते-उत्तरभाव इति । व्याचष्टे पूर्वपक्षम् - पिण्डस्येति । घटस्यापि कपालादिस्तस्यापि कपालिकादिरित्येवं भाव्यमिति दर्शयति-पुनरावृत्त्येति । विद्यमानानामेव प्रयोजकत्वादुत्तरभावानां शिवकादीनां पूर्वभावप्रवृत्तिकालेऽविद्यमानत्वात् न तेषां प्रयोजकत्वं सम्भवतीति समाधत्ते तदाऽभूतत्वादिति, पूर्वभावप्रवृत्तिकाले उत्तर भावानामनुत्पन्नत्वादित्यर्थः । ननु तदानीमसतोऽपि प्रयोजकत्वं दृश्यते कृषीवलादिप्रवृत्तेः व्रीह्यादिरिति शङ्कायामाह - अभ्युपेत्यापीति । प्रयोजकत्वेनाभिमतस्योत्तरस्य पूर्वभावादभिन्नत्वे भिन्नत्वे वोभयथापि न प्रवर्त्तकत्वसम्भव इत्याह- तदात्मकत्वादिति । पूर्वभावात्मकत्वादुत्तरभावस्य स्वयमेव प्रयोजकः स्वयमेव च प्रयोज्य इति कथं सम्भवेदिति भावः । भिन्नत्वपक्षे दोषमाह-भेदमभ्युपगम्यापीति, स्वतंत्र एव प्रवर्तको भवति यथा शिबिकावाहकानां राजादिः, न तु अस्वतंत्रः, यथा शिबिकावाहकाः, एवमुत्तरो भावः स्वोत्तरभावप्रेरितः प्रयोजको भवेत्, तथा च सत्यसौ परभूतम्वोत्तरभाववशवर्त्तित्वेनास्वतंत्रत्वादप्रयोजक एव भवेदिति भावः । भेदप्रयोजकमाहपूर्वोत्तरयोरिति । इत्थमुभयोः प्रधानयोः प्रवृत्तिर्न स्यादिति प्रथमविकल्पविचामुपसंहरति- एवं तावदिति । अन्यतरोपसर्जनप्रधानविकल्पमुत्थापयति-अथेति । व्याख्याति - यथेति, भावाभावयोरन्यतर उपसर्जनात्मकः क्वचिद्भावः क्वचिदभावो वेति, 30
25
१ सि. क्ष. छा. स्वबीजादिभिन्नत्वात् । २ छा. ईश्वराप्रेरित० ।
For Private & Personal Use Only
15
www.jainelibrary.org