________________
७४०
न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे किश्चान्यत्-किमेतौ भावाभावौ द्वावपि प्रधानौ ? भावः प्रधानं विशेष उपसर्जनम् ? विशेषः प्रधानं भाव उपसर्जनम् ? उभयमुपसर्जनं? वेति ।
(किश्चान्यदिति) किञ्चान्यत्-इदमिह सम्प्रधार्यम्-किमेतौ भावाभावौ द्वावपि प्रधानौ विजिगीषू इवान्योऽन्यनिरपेक्षौ ? भावः प्रधानं विशेष उपसर्जनम् ? विशेषः प्रधानं भाव उपसर्जनम् ? उभय5 मुपसर्जनमिति चतुर्पु विकल्पेषु त्रीन् विकल्पान् व्युदस्य भावोपसर्जनं विशेषप्रधानं नयस्यास्य मतं साधयिष्यामः ।
तत्र तावद्यदि द्वावपि प्रधानं ततोऽङ्गाङ्गिभावो न स्यात् , परस्परानपेक्षत्वात् तयोः, परस्परानपेक्षत्वं अपरार्थत्वात् , अपरार्थत्वं प्रधानत्वात् , विजिगीषुवत् , ततो विरोधादेकत्र प्रवृत्त्यभावाद्वस्तु भावाभावात्मकं न भवति, कथं तर्हि भवतीति चेत् ? घटः स्वेनैव भवति, 10 न पटादिभावेन नाभावेन वा, उक्तसङ्करविशेषासत्त्वदोषभयात् , पटोऽप्येवमेव ।
तत्र तावद्यदि द्वावपीत्यादि, उभयप्राधान्येऽनिष्टापादनं यावद्विजिगीषुवदिति, इतरस्य प्रधानस्यार्थं साधयितुमङ्गं प्रवर्त्तमानमङ्गिनमपेक्षते, अङ्ग्यप्यङ्गमित्यङ्गाङ्गिभावः, स न स्यात् , परस्परानपेक्षत्वात्तयोः, परस्परानपेक्षत्वमपरार्थत्वात् , अपरार्थत्वं प्रधानत्वात् , यथा विजिगीष्वोः, ततो विरोधादेकत्र प्रवृत्त्यभावात् वस्तु भावाभावात्मक न भवतीति, कथं तर्हि भवतीति चेत् ? घटो घटभावेन स्वेनैव 15 भवति-स्वभवनप्राधान्येन, न पटादिभावेन, उक्तसङ्करविशेषासत्त्वदोषभयात् , नाभावेन वा-पटादेरात्मनाउक्तदोषादेव, पटोऽप्येवमेव-खेनैव पदभावेन भवति न घटभावेन, अभावेनैव वा।
शिबिकावाहकवत्तुल्यशक्तीनामप्यर्थानामङ्गाङ्गिभावदर्शनादिति चेन्न, शिबिकावाहकवत् सामान्यविशेषयोः प्रधानभूतस्यान्यस्य प्रयोजयितुरभावात् , उत्तरभावः प्रयोजयितेति चेन्न, तदाऽभूतत्वात् ।
शिबिकावाहकेत्यादि यावत् चेदिति, स्यान्मतं परस्परनिरपेक्षत्वादित्यादि हेत्वसिद्धिः, तुल्य
20
मपि स्यात् , स्वत्वपरत्वयोरितरेतरात्मत्वात् स्वत्वं परत्वमपि परत्वं स्वत्वमपीति स्वतः सत्त्वं परतःसत्त्वमपि परतःसत्त्वं खतःसत्त्वमपीति सार्यमिति भावः । दोषान्तरमाह-किश्चान्यदिति। भवनाभवनात्मकत्वं वस्तुनोऽभ्युपगच्छतस्ते भावाभावावुभावपि प्रधानतया विवक्षितौ, उपसर्जनतया, अन्यतरोपसर्जनान्यतरप्रधानतया वेति पक्षेषु कतमः त्वया वाच्य इत्यनुयुज्यैतन्नयसम्मतं पक्षमुपदर्य व्युदस्यानि मतान्यादर्शयति-किमेताविति । उभयप्राधान्यपक्षे दोषमादर्शयति-तत्र तावदिति । भावाभावयो
योः प्रधानत्वे हि परस्परं जिगीषू मल्लप्रतिमल्लाविव तावङ्गाङ्गिभूतो न स्याताम् , अङ्गाङ्गिभावौ तु परस्परसापेक्षौ, अङ्गस्याङ्यर्थत्वादङ्गिनश्चाङ्गार्थत्वात् , न हि सापेक्षं प्रधानं नामेत्याह-इतरस्येति। अपरार्थत्वमिति, परप्रयोजनानपेक्षप्रवृत्तिमत्त्वमिति भावः । तथा च भावाभावयोरुभयोः प्रधानत्वे एकार्थोद्देशेनोभयोर्विरोधात् प्रवृत्त्यसम्भवात् कथं भावाभावात्मकं वस्तु भवेदित्याह-तत इति । उभयोः प्राधान्ये वस्तु भावात्मकमेव भवति न तु भावाभावात्मकं, परवाभावविशेषतुल्यत्वेनोभयोः साङ्कर्येण च स्वत्वपरत्वयोरव्यवस्थितत्वादित्याह-कथं तहीति । घटादिः खरूपेणैव भवति, तु पटादिरूपेण 30 अभावरूपेण वा भवति न भवतीति वा न ब्रूमः, तथा च भावात्मकमेव वस्तु न भावाभावात्मकमित्याशयेनाह-घट इति ।
ननूभयप्राधान्येऽङ्गाङ्गिभावो न स्यात्, परस्परानपेक्षत्वात् विजिगीषुवदिति परस्परानपेक्षत्वाङ्गाङ्गिभावाभावयोः व्याप्यव्यापकभावोऽस्तु, तथापि प्रधानानामपि परस्परापेक्षत्वमस्ति, प्रधानानां शिबिकावाहकादीनामप्यङ्गाङ्गिभावदर्शनात् परस्परापेक्षत्वादित्याशङ्कते-शिषिकेति । व्याचष्टे-स्यान्मतमिति, तुल्यशक्तीनामित्यनेन प्राधान्यं सूचितम् । दृष्टान्तदान्ति,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org