________________
अथोभयनियमारः।
__marw.mm
विधिनियमभङ्गसमस्तवृत्तिसत्यत्वप्रतिपादनाधिकारे पूर्वनयदृष्टावपरितुष्टेरुत्तरनयसमारम्भः तद्यथा
भावाभावभावनायां भावो विधिरभावो विशेषः, स च पराभाव इष्टो न स्वरूपस्यैव विशेष इति तदभावे स्वत्वं परत्वं चाव्यवस्थितं परस्वाभावविशेषतुल्यत्वात् , सति च स्वपरविशेषत्वाभावे भावाभावयोर्भेदेनोपनिपातो न स्यात् , स्वतोऽप्यसत्त्वं स्यात् ।
भावाभावभावनायामित्यादि, यदि भावाभावात्मकं वस्त्विति भावो-विधिरभावो-विशेषः, स च पराभाव इष्टो न स्वरूपस्यैव-भावस्य विशेषो-नियम इति, ततस्तदभावे-स्वगतविशेषाभावे परस्यापि स्वगतविशेषाभावे स्वत्वं परत्वं चाव्यवस्थितं, परस्वाभावविशेषतुल्यत्वात्-वं स्वं न भवति, पराभावविशेषत्वात् परवत्, पराभावविशेषत्वं वस्तुत्वात् स्ववत् , स्वभावविशेषशून्यत्वात् परमपि परं न भवति-स्वभावविशेषशून्यत्वात् , स्ववत् , स्वाभावविशेष[त्वं वस्तु]त्वात् परवत् पक्षे धर्मसिद्धिः, ततश्च 10 द्वयोरपि-खपरयोरितरेतरात्मापत्तेः स्वस्य स्वत्वं परस्य च परत्वमित्येष विशेषो नास्ति, सति च स्वपरविशेषत्वा भावे]भावाभावयोः-सामान्यविशेषयोभदेनोपनिपातो न स्यात् , न स्यादिति सम्भावनया, मा मुखनिष्ठुरं वोचमिति, एवमैक्यापत्तिरनयोः, नैक्यापत्तिरेव, किं तर्हि ? सङ्करोऽपीत्यत आह-स्वतोऽप्यसत्त्वं, भावितार्थमेव, अपिशब्दात् परतोऽसत्त्वं त्वदभ्युपगतमेव, परतश्च सत्त्वं स्यात्, अनिष्टश्चैतत् ।
अथ विध्यादिसर्वभङ्गात्मकैकवृत्तिसम्यग्दर्शनाधिकारे प्रतिपादनीये प्रत्येकवृत्तिमिथ्यात्वं तदन्तरेण तदभावादापादयता मूल- 15 कृता प्रवृत्तिरूपमितरेतराभावलक्षणमभवद्भवनस्वरूपं वस्त्विति उभयोभयैकान्तनयमतमुपदर्य सम्प्रति तन्मिथ्यात्वोपपादनार्थमन्तरमारच्यत इति दर्शयति-विधिनियमभङ्गेति, निरूपितेऽस्मिन्नपि दर्शने पराभावस्य विशेषस्य स्वरूपविशेषासम्भवेऽनवस्थानाइयोरप्यभावसङ्कररूपादिदोषात्तद्भङ्गस्यायुक्तेभवितृप्रधानं भवनोपसर्जनं वस्त्वित्यष्टमभङ्गाभिप्रायः। नन्वभवद्भवनात्मकं वस्त्वित्यनेन भावाभावात्मकं वस्त्वित्युक्तं भवति, तत्र भावाभावौ व्याख्याय तदात्मकवस्त्वसम्भवमुद्भावयितुकाम आह-भावाभावभावनायामिति । एतदेव व्याचष्टे-यदीति । अभावपदेन वाद्यमिप्रेतं दर्शयति-सचेति, परगतस्य विशेषस्यैवाभावो-नियमो न 20 तु स्वगतविशेषस्य नियम इष्ट इति भावः । तथासति को दोष इत्यत्राह-ततस्तदभाव इति, यदि खगतविशेषस्य नियमो न स्यात् तदा परत्वेनाभिमतोऽपि विशेषः परस्य स्वरूपं न स्यात्, तथा च कथं तस्य परत्वम्, परस्यैवायमित्यनियमनात् विशेषोऽयं परोऽयञ्च व इति विशेषस्य नियामकाभावादव्यवस्थिते खत्वपरत्वे इति भावः । अव्यवस्थितत्वे हेतुमाह-परस्वेति, खपरेत्यादिवक्तव्ये परखेत्यभिधानं साध्यक्रमेण हेतुक्रमलाभाय, परगतविशेषः परस्यैव, स्वगतविशेषः स्वस्यैवेति नियमाभावेन स्वपरयोः समानत्वादिति भावः । क्रमेण व्याकरोति-खं स्वमिति यथा परस्मिन् विशेषोऽनियतस्तथा स्वस्मिन्नपि विशेषोऽनियत 25 इति पराभावविशेषत्वं स्वस्मिन्नपीति तत्स्वमेव न भवतीति भावः, परत्वं हि स्वभावेऽनियतं स्वरूपस्य नियमात्, एवञ्च परत्वं परस्मिन्निव म्वस्मिन्नपि भवेदतो न खं खमिति यावत् । एवं स्वरूपस्यानियमादेव स्वत्वमपि न खस्मिन्नियतमतः परस्मिन्नपि खत्वसम्भवात् परं न परमित्याशयेनाह-स्वभावविशेषेति । फलितार्थमाह-ततश्चेति, एवञ्च स्वस्यैव स्वत्वं परस्यैव परत्वमिति नियमो नास्ति खातिरिक्ते खत्वस्य परातिरिक्ते परत्वस्य भावात् अयं भाव एव नाभावः, अयन्त्वभाव एव न भाव इति विवेक्तुमशक्यतया भावस्याभावत्वादभावस्यापि भावत्वाद्भावाभावात्मकं वस्त्विति भावाभावयोविशिष्याभिधानं न युक्तमिति भावः । स्वतोऽ- 30 प्यसत्त्वमित्युक्त्या परतोऽसत्त्वं प्रतीयते, तचेष्टमेवेति अपिशब्दसूचितमनिष्टापादनं सूचयति-अपिशब्दादिति, परतः सत्त्व
१ सि.क्ष. छा. परत्वाभाव० । २ सि.क्ष. छा. पराभावविशेषत्वात्पूर्ववत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org