________________
[ विधिनियमोभयारे
अयं पुनर्नयः कतमः शास्त्रविहितानामिति चेत् -
अयं पुनर्नयः ऋजुसूत्र देशत्वात् पर्यायास्तिकः, ऋजु प्रगुणं सूत्रयति तंत्रयत इति ऋजुसूत्रः, सूत्रपातवदृजुसूत्र इति वा परि समन्तात् अयति गच्छतीति पर्यायः, स एवास्तीति मतिर्यस्य स पर्यायास्तिकः ।
(अयमिति) ऋजुसूत्र देशत्वात् पर्यायास्तिकः, एकैकस्य नयस्य शतधा भेदाभ्युपगमात्, ऋजुसूत्र देशोऽयमृजुसूत्रभेदः, 'एक्केको य सयविहो पंचणयसता हवंति एवं नु बिति वि अ आदेसो सत्तणयसता हवन्नेवं' ) इति वचनात्, ऋजु प्रगुणं सूत्रयति तत्रयत इति ऋजुसूत्र:, सूत्रपातवदृजुसूत्र इति वा, परि समन्तादित्यादिना पर्यायास्तिकशब्दार्थं सव्युत्पत्तिं स्वयमेव व्याचष्टे । किमेताः स्वमनीषिका उच्यन्ते ? आहोस्विदस्य नयस्य निबन्धनमस्यार्षमिति, अस्तीत्युच्यते - उपनिबन्धनमप्यस्य ‘आता भंते ! परमाणु पोग्गले णो आता ? गोयमा ! सिआ आता परमाणुपोग्गला, सिआ णो आता, से केणट्टेणं भंते ! एवं वुच्चइ - सिआ आता सिआ नो आता ? गोयमा ! अप्पणो आदिट्ठे आता, परस्स आदिठ्ठे णो आता' ( श० १२ - उ० १० - सू० १६ - २४ ) इति ।
-
(उपनिबन्धनमिति) उपनिबन्धनमप्यस्य यतो निर्गमस्त दस्त्यार्थम् - तद्यथा आता भंते [परमाणु ] 15 पोग्गले इत्यादि पुद्गलानामात्मा – स्वरूपमिति नो आत्मा - पररूपमिति भावाभावौ विधिनियमाविति प्रश्नो गौतमस्येन्द्र भूतेर्गणधरस्य, व्याकरणं भगवानाह - गोयमा ! सिआ आता परमाणुपोग्गला सिआ णो आता, भवत्यपि 'सेकेणट्टेणं इत्यादिकारणप्रश्नः, एवमिति स्याच्छब्दार्थं प्रत्युच्चारयति, केनार्थेन स्यादात्मा परमाणुपुद्गलः ? स्यान्नो आत्मेति विवृणोति, तदत्र को निश्चय इति प्रश्नः, भगवानाह - 'गोयमा ! अप्पणो आदिट्ठे आता'-आत्मनः स्वरूपेणादिष्टेऽर्पिते विवक्षिते औत्मा भावो विधि: स्वरूपम्, 'परस्स आदिट्ठे णो 20 आता' - परस्यादिष्टे नो आत्माऽवृत्तिरभावो नियम इति, तथा द्विप्रदेशिकादिस्कन्धा आकाशाद्यस्तिकाया घटपटायचार्था यथा विस्तरशो व्याख्याता इति ॥
- इति नयचक्रटीकायां सप्तमोऽरः उभयोभयभङ्गः समाप्तः
5
10
७३८
न्यायागमानुसारिणीव्याख्यासमेतम्
wwwww
Jain Education International 2010_04
नामनुमानबुद्ध्या परिकल्पितो भेदः, वाक्यस्यैव लोके प्रयोगदर्शनादन्वयव्यतिरेकाभ्यां समुदायादपोद्धृतानां शब्दानां यथागमं भावनाभ्यासवशादुत्प्रेक्षया व्यावर्णनं क्रियत इति भावः । उभयोभयनयस्यास्य सप्तविधेषु नयेषु क्वान्तर्भाव इत्यत्राह - अयं पुनर्नय 25 इति। ऋजुसूत्रविशेषोऽयं पर्यायार्थिकनय इत्याह-ऋजुसूत्रेति । ऋजुसूत्रशब्दार्थमाह-ऋजु प्रगुणमिति यथा ऋजुः सूत्रपातः तथा ऋजु प्रगुणं सूत्रयति तंत्रयते ऋजुसूत्रः सर्वान् त्रिकालविषयानतिक्रम्य वर्त्तमानविषयकालमादत्ते, अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावादिति । पर्यायास्तिकशब्दार्थमाह-परि समन्तादिति । अस्य नयस्यार्षं मूलमाह - उपनिबन्धनमपीति । सूत्रार्थं व्याकरोति-पुद्गलानामिति विधिरूपा वा नियमरूपा वा पुद्गला इति प्रश्नार्थः । उभयमपि सम्भवतीत्त्युत्तरं भगवान हत्या - दर्शयति-व्याकरणं भगवानाहेति । तत्र कारणप्रश्नमुपन्यस्यति-से केणट्टेणं इति । खपरापेक्षया पुद्गलानां विधिनियम30 स्वरूपत्वं सम्भवतीति भगवतो व्याख्यामाह - भगवानाहेति । एवमन्येषामपि विधिनियमस्वरूपत्वमुपदर्शयति - तथेति ।
इत्याचार्य विजयलब्धिसूरिकृते द्वादशारनयचक्रस्य विषमपदविवेचने सप्तम उभयोभयभङ्गारः ॥
>*
-
१ सि. क्ष. छा. स्वरूपिनो । २ सि. क्ष. छा. आह भावो विधेः ।
३
सि.क्ष. छा. व्याख्यात मेति ।
For Private & Personal Use Only
www.jainelibrary.org