________________
शब्दार्थवाक्याएँ]
द्वादशारनयचक्रम् 'विकल्पयोनयः शब्दो' विकल्पाः शब्दयोनयः । तेषामन्योऽन्यसम्बन्धो नार्थं शब्दाः स्पृशन्त्यमी ॥' (दिन्नस्येयंकारिका.) इति, एवं वस्तुनो भावाभावात्मकत्वस्यानिर्देशत्वात् परमार्थस्यावाचकः, संवृतिसतस्तु व्यवहारे वाचक इवोपलक्षणभूत[:]शब्दः ।
अत्र च अपोहः शब्दार्थः, यस्मादाह-'शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्ते' ( ) इति, प्रतिभा च वाक्यार्थः ।
अत्र चेत्यादि, नयमतेन वस्तुस्वरूपं शब्दार्थसम्बन्धं चावधार्य शब्दार्थः श्रुत्य[T]वधार्यते, अत्र च-विधिनियमविधिनियमभङ्गे चेति, अपोहः शब्दार्थः, यस्मादाह-शब्दान्तरार्थेत्यादि, शब्दादन्ये शब्दाः शब्दान्तराणि, तेषामर्थानयोहते घटशब्दः पटादिशब्दानां स्वतोऽन्येषां व्यवहारा[न]नुपातात्, स्वार्थे कुर्वती श्रुतिरिति वचनेन भावाभावात्मकमर्थं दर्शयति, अभिधत्त इत्युच्यत इति, न परमार्थतोऽभिधत्ते वा, आत्मनोऽनभिलाप्यत्वात् , संज्ञापरमार्थत्वात् , अभिधत्त इवाभाति लक्षयन सङ्केतवशादर्थमित्येष पदार्थः, 10 वाक्यार्थस्तर्हि कः ? उच्यते-प्रतिभा च वाक्यार्थः, शब्दाभ्यासवासनाजनिताऽर्थेषु प्रतिभा वाक्येभ्यो जायते तिरश्चां मनुष्याणाञ्च यथाभ्यासं स्वजातिनियता स्वप्रत्ययानुकारेण शूरकातरादीनामिव व्याघ्रादिशब्दश्रवणात् कोपहर्षभयादिनिमित्तेत्यादि यथावदनुगन्तव्यम्, वाक्यार्थप्रतिपत्त्युपायः पदार्थासत्त्वात् वाक्यौदपोद्धृत्य उत्प्रेक्षया व्याख्यायते । च्यम् , न च सामान्यपुरस्कारेण निखिलेषु भेदेषु सङ्केतसम्भवः, सामान्यस्यैवाभावात् , भावेऽप्यदृष्टेषु अतीतानागतभेदेषु 15 अनन्तेषु न समयः सम्भवत्यतिप्रसङ्गात् , विकल्पबुद्ध्या व्याहृत्य समयः क्रियत इति चेत्तर्हि विकल्पसमारोपितार्थविषय एव शब्दः न परमार्थभेदविषय इति प्राप्तम् , अतीतानागतभेदानाञ्चासत्त्वात्तद्विकल्पबुद्धिरपि निर्विषयैवेति नामी शब्दा अर्थ स्पृशन्ति, नहि बाह्येऽर्थे शब्दाः प्रतीतिं जनयन्ति, यतस्ते विकल्पमात्राधीनजन्मानः, खमहिमानमनुवर्तमाना बाह्यार्थासंस्पर्शान् विकल्पानेवोत्पादयन्ति, यथाऽगुल्यग्रे हस्तियूथशतमास्त इति, तथा च विकल्पजन्मानः शब्दाः शब्दजन्मानो विकल्पा इति शब्दविकल्पयोरेवान्योऽन्यसम्बन्धो जन्यजनकभावलक्षणः इति कारिकाभिप्रायः। परमार्थस्य भावाभावात्मकस्य वस्तुनः वाक्पथातीतविषयत्वात् शब्दो 20 न तस्य वाचकः, अस्य तु वस्तुनोऽविकल्पकं ज्ञानं भवति ततश्च सकलव्यवहाराङ्गभूतो विकल्पो भवति, स च विकल्पः कल्पितवस्तुविषयत्वान्निर्विषय इति शब्दोऽपि तथाविधं विकल्पं जनयतीत्याह-एवं वस्तुन इति संवृत्तिसतो घटादेरपि व्यवहारे । वाचकवत् उपलक्षणभूतः शब्दो वस्तुनो देवदत्तगृहादेः काकादिरिवेति भावः । एतन्नयमतेन भावाभावात्मकं वस्त्विति वस्तुस्वरूपमवधार्य भ्रक्षेपादिवत् कृतसङ्केतानामभिधेयाभिमतार्थपर्यायप्रतिपत्त्युपायः शब्द इति शब्दार्थसम्बन्धञ्चावधार्य शब्दार्थश्च क इत्यवधार्यते इत्याह-नयमतेनेति । शब्दार्थमाह-अपोह इति, अतद्रूपपरावृत्तिरूपं सामान्य विकल्पस्य विषयः, यश्च विकल्पस्य 25 विषयः स एव शब्दस्येति सामान्यमतद्रूपपरावृत्तिरूपमन्यापोहाभिधानं शब्दस्यार्थ इति भावः । अत्रार्थे प्रमाणवाक्यमाह-शब्दान्तरेति, घटादिशब्दभिन्नपटादिशब्दानामर्थानपोहते घटशब्दः, तथाविधेऽर्थे घटशब्दस्यैवोपयोगात् , ततोऽन्येषां पटादिशब्दानां तदर्थव्यवहृतावननुकूलत्वात् तमपोहं दृश्यविकल्प्ययोरमेदं विदधच्छब्दोऽभिधत्ते इति तदर्थः । अभिधत्ते इति पदस्य वस्तुतो वाचकत्वबोधकत्वं न सम्भवति, स्वलक्षगस्याखिलशब्दाविषयत्वात् , किं तु तमर्थ लक्षयन् अभिधायक इवावभासत इति दर्शयतिअभिधत्त इतीति शब्दान्तरार्थापोहमित्यन्तेनाभावात्मकत्वं स्वार्थ कुर्वती श्रुतिरित्यनेन भावात्मकत्वं पूर्णवचनेन भावाभावात्म-30 कोऽर्थ इति दर्शितं भवतीत्याह-स्वार्थ कुर्वतीति । वाक्यार्थमाह-प्रतिभा चेति । प्रतिभा परिचाययति-शब्दाभ्यासेति यं कचिद्विषयमधिकृत्य शब्दस्य पौनःपुन्यप्रवृत्तिदर्शनमभ्यासः, नियतसाधनावच्छिन्न क्रियाप्रतिपत्त्यनुकूला प्रज्ञा प्रतिभा, सा प्रयोगदर्शनावृत्तिसहितेन शब्देन जन्यते, प्रतिवाक्यं प्रतिपुरुषञ्च सा भिद्यते बालानां तिरश्वां च भवति, यथा व्याघ्रतिशब्दश्रवणाच्छूरस्य क्रोधनिमित्ता प्रतिभा जायते तजातिनियतत्वात्तत्प्रत्ययानुकारित्वात् कातरस्य च भयादिनिमित्ता भवति, यथा हि अङ्कशाभिघातादयो । हस्त्यादीनामर्थप्रतिपत्तौ क्रियमाणायां प्रतिभाहेतवो भवन्ति तथा सर्वेऽर्थवत्त्वेनामिमता वृक्षादिशब्दा यथाभ्यासं प्रतिभामात्रहेतवो 35 भवन्तीति भावार्थः । कथं वाक्यार्थस्य प्रतिपत्तिरि यत्र तदुपायमाह वाक्यार्थप्रतिपत्त्युपाय इति अपोद्धारपदार्थश्चात्यन्तसंसृष्टा
सि. क्ष. हे. शब्दार्थो श्रुत्यवधार्यते छा. 'श्रुत्यवधार्थते । २ सि. छा. वाक्यादयोद्धृत्योरे., क्ष. वाक्यादपो. दृत्मोत्प्रे० । सि. क्ष. छा. डे. मत्यन्त, न्त्यपि',
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org