________________
न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे हिमवदादित्यश्रयणदर्शनादिषु यद्यपि नैषा वार्ता शब्दघटश्रवणदर्शनादिष्वेषैव वार्ता, क्रिञ्च-कृतदग्धगतादिशब्दैश्च क्तप्रत्ययान्तैर्याः क्रिया उच्यन्ते तासां निष्ठितत्वात् भूतकालविहितत्वाञ्च क्तस्य किञ्चिन्निष्ठित किश्चिदनिष्ठितं मृत्पलालादिकर्मेति कृताकृतत्वानुपपत्तेः सुतरां प्रयोगाभाव इति सुष्ठच्यते यथा लोको
वदति न तथा घटत इति । एवं तावद्ध्युत्पन्नशब्दानां क्रियावाचिनामाख्यातानां, नाम्नां-पाचकादीनां । शुक्लादिगुणशब्दानाञ्च निर्विषयता-निरर्थकतेत्यर्थः, द्रव्यशब्देष्वपीत्यादि यावद्वचनमिति, सर्वभावा भावाभावात्मका इत्युक्तं विस्तरतः, तद्वाच्यभिमतानां शब्दानामुक्तन्यायेन तदसंस्पर्शात् कुतः तत्त्वं-भावाभावात्मकं वस्तु उपनिपतितुं वचनस्य शीलं धर्मः साधुकारिता वा कस्यचिदिति ।
एवं तर्हि शब्दार्थव्यवहारहानिरिति चेनेत्युच्यते, अस्ति शब्दार्थव्यवहारः संज्ञासंज्ञिसम्बन्धसन्निवेशात्मकः10 भ्रूक्षेपादिवत्त्वभिधेयाभिमतार्थपर्यायमात्रपरमार्थत्वात्तदर्थप्रतिपत्त्युपायः शब्दः ।
(भ्रूक्षेपादिवत्त्विति) भ्रूक्षेपादिवत्तु-अक्षिनिकोचैः पाणिविहारैर्भूक्षेपादिभिश्चाङ्गविकारैः स्वाभिप्रायसूचनं कृतसङ्केतानां क्रियते, अभिप्रेतार्थपर्यायमात्रत्वात्तासां क्रियाणां तथा शब्दस्याप्यभिधेयाभिमतार्थपर्यायमात्रपरमार्थत्वात् तदर्थप्रतिपत्त्युपायः शब्दों भ्रक्षेपादिवत् संज्ञा, संज्ञैव संज्ञापनामात्रवाचकः शब्दः
पुरुषाणां कृतसङ्केतानां प्रतिपत्त्युपायः, अकृतसंकेतानान्तु शब्दगतमात्रसंप्रत्ययनिमित्तत्वात् , यथोक्तं 15 प्रवृत्तिनिमित्तकशब्दादपि तद्वस्तु न वाच्यमित्यादर्शयति-कृतदग्धेति, भूते तान्ताः कृतादिशब्दाः, तत्तक्रियाणां निष्ठितत्वं
प्रकाशयति, तथा च मृत् घटः कृता पलालो दग्धः ग्रामो गत इत्यादौ मृत् पलालादयश्च किञ्चिन्निष्ठिताः किञ्चिदनिष्ठिताश्च सर्वथा घटभस्मादिरूपतया निष्ठिताश्चेत्तर्हि मृत्पलालादिशब्दा न प्रवत्तरन्, एवञ्च यदि मृदादि कृतं तर्हि तन्मृदादि कथम् ? यद्यकृतं तन्न तर्हि तत्कृतं भवतीति न तथाविधाः प्रयोगाः घटन्ते इति लोकवादस्तथाविधो मिथ्यावाद एवेति भावः । एवं क्रियागुणप्रवृत्तिनिमित्तकाः शब्दाः भावाभावात्मकमजुसूत्राभिमतं वस्तु न स्पृशन्तीति निर्विषया एवेत्याह-एवमिति । द्रव्यवाचकशब्दा अपि 20 तथेत्याह-द्रव्यशब्देष्वपीति भावाभावात्मकवस्तुनः निखिलशब्दातीतस्वभावत्वात् तद्वस्तु च द्रव्यादितो जन्मविनाशसममिति स्थिरत्वाभावात् सङ्केतासम्भवेन न वाच्यता तस्येति भावः । घटादिवस्तु हि अनेकपरमाणुसञ्चयस्वभाव, निखिलावयवपरिग्रहेण तु शब्दो न तद् बोधयितुं क्षमः, वस्तुन उत्पादविनाशात्मकत्वात् , तथा च शब्देन यदवयवद्वारा घटः प्रोच्यते सोऽवयवो न घट इति घटो न शब्दवाच्यः, सोऽवयवोऽपि न शब्दगम्यः संकेतासम्भवादित्याशयेनाह-उक्तन्यायेन तदसंस्पर्शादिति, शब्दग्राह्योऽवयवो न घटः, घटश्च न शब्दग्राह्यः, उत्पादविनाशस्वभावत्वादिति न्यायेन शब्दसंस्पर्शः वस्तुनो नास्तीति भावः । अथ 25 शब्देन वस्त्ववबोधने योऽयं लोके व्यवहारः प्रवर्तते तद्विरुध्यते, मूकमेव जगद्भवेदित्याशय समाधत्ते-एवं तीति, शब्देभ्यो
ये पदार्थव्यवहाराः घटाद्यानयननयनादयो दृश्यन्ते शब्दस्यार्थासंस्पर्शित्वे ते न घटन्त इति शङ्कार्थः । समाधत्ते-नेति, संज्ञासंज्ञिसम्बन्धसन्निवेशात्मकः शब्दार्थसंव्यवहारोऽस्तीति नोच्यत इति योजना, वाच्यवाचकभावनिबन्धनः शब्दार्थव्यवहारोऽस्तीति न खीक्रियत इति भावः। तर्हि कथं व्यवहार इत्यत्राह-भ्रक्षेपादिवत्त्विति. तुर्विशेषणे, संज्ञासंज्ञिसम्बन्धनिवन्धनशब्दार्थव्यवहार विशिनष्टि, इत्थं मयाऽक्षिनिकोचो यदा क्रियते तदा त्वयैवं विज्ञायेतेत्यादिसंकेतानन्तरं तथा क्रियमाणे तेन यथा सोऽर्थो विज्ञायते 30 तथैवैवं मया शब्दे उच्चारिते त्वया एषोऽर्थों विज्ञेय इति सङ्केतानन्तरं तथोच्चारणे तेन तथैव विज्ञायते व्यवह्रियते चेत्येवं शब्दार्थव्यवहारः प्रवृत्त इति, यस्तु तथाविधं सङ्केतं न वेत्ति तस्य तु तथाविधशब्दश्रवणात् केवलं शब्दपरिज्ञानमेवोदेतीति भावः । एनं भावमेव स्फुटयति-अक्षिनिकोचैरिति । अभिप्रेतार्थति यथा भ्रक्षेपादयः कल्पितार्थस्य पर्यायमात्रविषयास्तथा शब्दोऽपि अभिधेयत्वेनामिमतस्यार्थपर्यायस्यैव पर्यायः शब्दो न वस्तुभूतमर्थ स्पृशतीति भावः। एवञ्च संज्ञा शब्दः संज्ञापनं ज्ञानं विकल्पात्मकं
तन्मात्रमुत्पादयति, न त्वर्थ स्पृशति, कृतसङ्केतानां कल्पितार्थविषयविकल्पसाधनमेवेति भावः । अत्राथै दिडागकारिका प्रमाणयति36 विकल्पेति, भावाभावात्मकमृजुसूत्राभिमतं वस्तु वर्तमानक्षणमात्ररूपतया तस्य सङ्केतव्यवहारकालव्याह्यभावात् न शब्दवा
सि.क्ष. डे. 'श्रवण. छा. हिमवदाश्रित्यश्रवण । २सि.क्ष. दे. तावत्पन्न. xxहे.। ३ सि.क्ष. डे. बाचक त्वेष्टापु. ४ सि.क्ष. डे. छा. °गडु. ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org