________________
७३५
15
प्राप्यकर्मादेरक्रियता
द्वादशारनयचक्रम् (कथमिति) कथं तर्हि सोऽक्रियमाणः कुम्भो जातः, क्रियाया अभावात् , अक्रियमाणत्वात् [न] कुम्भो जायते खपुष्पवदिति प्राप्तम् , अनिष्टश्चैतत् , लोकप्रसिद्ध्युपरोधित्वादिति, अत्रोच्यते, को वा ब्रवीति जात इति, अहन्तु लोकमेवायुक्तवादिनं मन्ये, द्रव्यादितो जन्मविनाशसमत्वात्-य एव जातः स एव विनष्टो यत्रैव च तत्रैव, यदैव तदैव, यथैव तथैवेति भावाभावयोर्भावो-भवनं स एव भावाभावभावो वस्तु, सदसदात्मकभवनं वस्तुत्वात् , पूर्वाभाव एव भावोऽस्य पिण्डादेः-पूर्वभावस्याभावो विनाशः, स एवोत्तरो भावो । जन्मेति जन्मविनाश[यो]र्लक्षणम् , तयो[व]स्तुत्वात् , इतर आह-स भावाभावात्मकोऽर्थो न जायत इति किं शक्यो वक्तुमिति, ओमित्युच्यते, स न जायत इति शक्यो वक्तुमिति, कस्मात् ? विनश्यत्वात् , घटावस्था हि जन्म, सा विनश्यदवस्थैत्र, उक्तन्यायात्, पूर्ववदिति', विनष्टानन्तरघटावस्था[व]त् (?) न विनश्यतीत्यपि शक्यं वक्तम् , जायमानत्वात् , उत्तरवत्-घटावस्थावदिति, एतदुदाहरणं निवर्त्यघटादिकर्मविषयासु करणपचनादिक्रियासु विकार्यपलालादिविषयासु च दहनादिक्रियासु सर्वास्वपि तावेषैव वार्ता नास्ति काचित् क्रियेति, 10
ग्रामं गच्छतीत्यादिप्राप्यक्रियासु कथमिति चेत्
प्राप्यकर्मक्रियास्वपि च कासुचित्, कासुचित्तु हिमवदादित्यश्रयणदर्शनादिषु नैषा वार्ता, कृतदग्धगतादिशब्दैश्चोक्तानां क्रियाणां कृतत्वानुपपत्तेः सुतरां प्रयोगाभावः, एवं तावड्युत्पन्नशब्दानां क्रियावाचिनां नाम्नां शुक्लादिगुणशब्दानाञ्च निर्विषयता, द्रव्यशब्देष्वपि उक्तन्यायेन तदसंस्पर्शात कुतः तत्त्वोपनिपातिवचनम?
प्राप्यकर्मक्रियास्वपि च कासुचिदिति, गच्छतिप्रव्रजत्यादिषु भावितम् , कासुचित्तु क्रियाया अभावादिति क्रियाया अभावादक्रियमाणः, अक्रियमाणत्वादसौ न कुम्भो जायते, खपुष्पवदिति भावः । लोकप्रसिद्धिप्रतिबन्धकत्वेन न जायत एवेत्यनिष्टमभ्युपगन्तुमित्याह-अनिष्टश्चैतदिति । नानिष्टमेतत् , किन्त्विष्टमेव, लोकप्रसिद्धिस्त्वयुक्तैवेत्याह-को वा ब्रवीतीति । द्रव्यक्षेत्रकालभावैः जन्मविनाशयोरेककालत्वादिति हेतुमाह-द्रव्यादित इति, य एवेति द्रव्यतः, यत्रैवेति क्षेत्रतो यदेवेति कालतो यथैवेति भावतः, एकद्रव्यक्षेत्रकालभावावच्छेदेन जन्मविनाशाभ्यां भवनात्मकमेव वस्तु इति दर्शयति-20 भावाभावयोरिति । पूर्वभावस्य पिण्डस्याभावः शिवककाले स एव विनाश उच्यते, उत्तरो भावः शिवकादि जन्म उच्यत इति विनाशजन्मनोर्लक्षणमादर्शयति-पूर्वभावस्येति। एवञ्च वस्तुनः उत्पादविनाशात्मकत्वमुक्तं भवति, भावैकदेश उत्पादस्तथा च भावोन जायत इति प्रसक्तं तत्कि युक्तमिति पृच्छति-सभावाभावात्मक इति। तत्रेष्टापत्तिमाह-ओमिति।हेतुमाह-विनश्यत्वादिति विनश्यदवस्थत्वात् , यद्धि विनश्यदवस्थं तन्न जायते घटावस्थायां प्रागवस्थावत् । एवं विनश्यतीत्यपि वक्तुं न शक्यते जायमानत्वात् , यद्धि जायमान न तद्विनश्यतीति व्यपदेश्यम् , उत्तरघटावस्थावदित्याह-न विनश्यतीति । तदेवमुत्पादविनाशक्रिययोर-25 सम्भवं निर्वत्यविकार्यप्राप्यस्वरूपत्रिविधकर्मविषये दर्शयति-एतद्दाहरणमिति, मृदा घटं करोतीति घटो निर्वयं कर्म, प्रकृतेरभेदेनानाश्रयणात् , यद्यपि निर्वृत्तिरात्मलाभः क्रियाकृतो नयान्तरापेक्षया, काष्ठानि भस्मीकरोति काण्ड लुनाति इत्यादौ काष्ठादिविकार्य कर्म, भस्मादिकार्यस्य प्रकृत्युच्छेदसम्भूतत्वात् , अत्रापि विकारो भस्म क्रियाकृतः, तथापि ऋजुसूत्रनयमते उक्तन्यायात् क्रियाया अभाव एव, भावाभावभावत्वाद्वस्तुन इति भावः । कर्तुः क्रियाविषयभावमात्रेणेप्सिततमं प्राप्यं कर्मोच्यते, तत्र केषुचित् कर्मसु क्रियाकृतो विशेषोऽस्ति, केषुचित्तु नास्ति, ग्रामं गच्छति प्रव्रजतीत्यादौ क्रियाकृतविशेषसद्भावेऽपि क्रियाया अभावः 30 यत्र तु तथाविधो विशेषो नास्ति तत्र तु सुतरामिति दर्शयति-प्राप्यकर्मेति, गच्छतीति, ग्रामं गच्छतीत्यादौ गमनक्रियाजनितद्विष्ठसंयोगविशेषस्य ग्रामादौ सत्त्वेऽपि न क्रियाऽस्ति, प्रोक्तन्यायात् हिमवन्तमुपश्रयति आदित्यं पश्यतीत्यादौ च नैषा वार्ता, उपश्रयणसंदर्शनादिक्रियाकृतविशेषाभावात् क्रियमाणकृतत्वन्यायोऽत्र नास्ति, शब्दं शृणोति घटं पश्यतीत्यादौ तु श्रवणदर्शनादि. क्रियोपहितः सौम्यत्वादसंलक्षितो विशेषो यदि समुन्नीयते तद्यत्रापि क्रियमाणकृतत्वन्याय्योऽस्त्येवेत्याशयः स्यादिति प्रतिभाति । तदेवं क्रियावाचकशब्देनाख्यातेन भावाभावभावस्वरूपं वस्तु न स्पृश्यत इत्युपदर्य क्तप्रत्ययान्तक्रिया- 35 १क्ष. अभावादि क्रियमाणो क्रियमाणस्वात। २ सि.क्ष. त्वाद्रव्यादित आह। ३ डे. दितिरन्विष्टानंतराघटावस्थात् ।
द्वा० न० १६ (९३)
mmmmm
ते घटावस्थाया प्रा
-नविनश्यतातियो निर्वत्त्ये कम,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org