________________
७३४
न्यायागमानुसारिणीव्याख्यासमेतम्
[विधिनियमोभयारे
क्रियत इति मन्यसे न क्रियते सः, अभूतत्वात् खपुष्पवत् , कथमसन कुम्भ उच्यते या, अथोच्येत पक्षद्वयानाश्रयेण परिहारसमर्थं मत्वा पक्षान्तरं संश्रित्य, सत्यं, प्रागभूत इदानीं क्रियते क्रियमाणश्च भवतीति, अत्रापि भूताभूतविकल्पद्वयानतिवृत्तेः, यद्यभूतो न तर्हि कुम्भः स पटादिवत् , कुम्भत्वेनाभूतत्वात् , न क्रियते नापि कुम्भ इति वक्तव्यः, भूतत्वेऽपि घटादिवच्च सान्निध्ये कृते करणवैयर्थ्यान्न क्रियते, अथाभूतोऽपि 5 पिण्डादिः स्वपक्षे रागात् लोकानुवृत्त्या वा कुम्भ उच्यते पृथिव्यपि ते कुम्भ इति प्राप्ता, कुम्भत्वेनाभूतत्वात् , त्वदिष्टक्रियमाणकुम्भवत्, ततश्च क्रियाभावः, पृथिव्यर्थक्रियावैयर्थ्यवत् कुंभार्थक्रियाया अभावः, तद्भावयति-न कस्याश्चिदप्यवस्थायामित्यादि यावत् क्रियेति, द्रव्यतः सर्वप्रदेशात्मकस्य परमाणुमात्रेऽवरुद्धत्वात् क्रिया याः]द्रव्यान्तरे त्वभावादभावः, क्षेत्रतो बुध्नमध्योर्खादिभागावष्टब्धक्षेत्रव्यापित्वात् कतमो घटः क्रियते, कालतः प्रतिक्षणमन्योन्यप्रदेशस्पन्दावरोधात् , भावतः सर्वसंस्थानरूपादिसमाहारात्मकत्वे घटस्य 10 भावं भावं प्रति पृथक्त्वात् का क्रिया ? यस्मात् क्रियमाणमेव तु क्रियते मृदाहरणादीति चतुर्धाऽप्येतदुदाहरणम्।
अपर आह
कथं तर्हि सोऽक्रियमाणः कुम्भो जातः? को वा ब्रवीति जात इति, अहन्तु लोकमेवायुक्तवादिनं मन्ये द्रव्यादितो जन्मविनाशसमत्वात् भावाभावभाव एव वस्तु, स भावाभावात्म15 कोऽर्थो न जायत इति किं शक्यो वक्तुम् ? ओमित्युच्यते, विनश्यत्वात् , पूर्ववत्, न विनश्यतीत्यपि शक्यं वक्तुम् , जायमानत्वात् , उत्तरवत् , निर्वय॑विकार्यकर्मिकासु सर्वासु क्रियाखेषैव वार्ता।
इति, अभूतत्वे क्रियमाणता न स्यात्, यद्धि सर्वथाऽभूतं तन्न क्रियमाणं दृष्टम् , यथा खपुष्पादि, यथा वा पिण्डादिपर्यायकाले
तः तथा शिवकस्थासककुशूलादिपयोयकालेऽपीति सर्वदाऽभूतत्वान्न क्रियेतासाविति कथमसन् घट इत्युच्यतेति भावः । 20 अथ पक्षान्तरं प्रागभूतमपीदानी क्रियत इत्येवं रूपं दूषयितुमाह-अथोच्येतेति । प्रतिक्षिपति पूर्वविकल्पद्वयोपन्यसनेन
अत्रापीति । अभूतपक्षे दोषमाह-यद्यभूत इति, प्राकालावच्छेदेनाभूतं एतत्कालावच्छिन्नं यद्वस्तु तद्धटाभवनरूपञ्चेत् न स कुम्भः क्रियते, कुम्भ इति वा वक्तव्यः कुम्भत्वेनाभूतत्वात् कुम्भत्वेन भूत एव कुम्भः क्रियते तथा वक्तव्यश्च भवति नान्यः पटादिरिति भावः । पिण्डादेर्यदि कुम्भत्वेन भूतत्वमिष्यते घटवन्निवृत्तत्वेन करणं व्यर्थमेव स्यात् , अतो न क्रियते इत्याह
भूतत्वेऽपीति । अभूतोऽपि पिण्डादिर्यदि कुम्भ उच्यते तीभूतत्वाविशेषात् पृथिव्याद्यपि कुम्भः स्यादित्याह-यथाभूतो कपीति । भवतु नाम को दोष इत्यत्राह-ततश्चेति । द्रव्यादितः क्रियाया अभावमाह-द्रव्यत इति सर्वप्रदेशात्मकघटादिद्रव्यस्य विरुद्धधर्मानुषङ्गाद्भेदप्रसक्त्या विभागे क्रियमाणे परमाणावेव विश्रान्ततया तस्यैव वास्तविकद्रव्यत्वात् तत्रैव क्रिया सम्भाव्येत नासा घटः, प्रदेशान्तरे च क्रिया नास्ति, तस्मात् द्रव्यतो घटे क्रियाभावात् कतमो घटः क्रियत इति भावः । क्षेत्रतः क्रियाभावमाह-क्षेत्रत इति घटो हि बुनमध्योर्द्धादिभागावष्टब्धक्षेत्रव्यापी, क्रिया तु अवयवावष्टब्धक्षेत्रवर्तिनीति न
घटे क्रियाऽस्तीति भावः। कालतस्तमाह-प्रतिक्षणेति, घटादेः प्रतिक्षामन्यान्यप्रदेशेष्ववरुद्धत्वात् कतमो घटः क्रियत इति 30 भावः । एवं भावतोऽपि निखिलसंस्थानरूपादिसमुदायात्मको घट इति प्रतिभावं घटस्यान्यत्वात् न क्वापि क्रिया युज्यत इति
क्रियाया अभाव इत्याह-भावत इति । ननु यदि भूताभूतविकल्पद्वयानतिवृत्तेः क्रियाया अभावस्तर्हि अक्रियमाणः कथं कुम्भो जातः, न त्यक्रियमाणं कुम्भादि भवति, अन्यथा खपुष्पादेरपि जातत्वापत्तेरित्याशङ्कते-कथं तहीति । व्याचष्टे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org