________________
क्रियानुपपत्तिसाधनम्] द्वादशारनयचक्रम्
७३३ इत्यादि, कालत एव[भावा]भावात्मकत्वविपर्ययेऽन्यदुदाहरणं पूर्ववद्गतार्थ[स]प्रसङ्गं, भिदेः कपालविषयत्वात्, घटस्योर्खताद्याकारत्वात् कालभेदादनुपपत्तिः, प्रस्तुतघटोदाहरणे भावयितुं उपादानमस्येति, अथवा पूर्व घटपटावुदाहृतौ, इह दर्शनविपर्ययेऽप्युदाहरणद्वयम् , तथा च क्षेत्रतो भावतश्च द्वे द्वे वक्ष्यति, भावनादृढीकरणार्थत्वात् क्रियान्तरगतत्वभावनातो न्यायव्याप्तिप्रदर्शनात् ।
क्षेत्रतः शून्यं...............तिष्ठति गच्छति.. ..............भावतोऽसंयतः प्रत्र-5 जति कथं घटते? एवमेव भव्यः सिद्ध्यतीति, कुम्भं करोतीत्यादावप्याह निर्वृत्त्युत्तरकाले च कृतः कुम्भ इति न तथा घटते, यदि स कुम्भ एवानिवृत्तोऽपि न क्रियते, भूतत्वात् , अन्त्यमृद्वत् , अथाभूतः, न क्रियते सः, अभूतत्वात् , खपुष्पवत् , कथमसत् कुम्भ उच्यते वा, अथोच्येत सत्यं प्रागभूत इदानीं क्रियते, क्रियमाणश्च भवतीति, न, भूताभूतविकल्पद्वयानतिवृत्तेः क्रियाऽभावः, न कस्याश्चिदप्यवस्थायां कुम्भो जायत इति का क्रिया? 10 क्रियमाणमेव हि क्रियते मृदाहरणादि।।
क्षेत्रतः शून्यमित्यादि, प्रवेशगमनस्थानानुपपत्तिः गतार्था तिष्ठति गच्छति विपर्ययेण प्रासङ्गिकमुदाहरणम्, भावतोऽसंयत इत्यादि, अनादिकालसम्बद्धदर्शनचारित्रमोहनीयोदयजाया अविरतेः पृथक् भावः प्रव्रज्या-प्रकर्षव्रजनं विरतिः, सा कथमसंयते घटते ? एवमेवेत्येकस्य भावाभावात्मकत्वाधिकारानुवृत्त्या भावतः सिद्धभब्यकालभेदादयुक्तमित्युदाहरति, अथ वैकस्मिन्नैवोदाहरणे द्रव्यादिचतुर्विधत्वं 15 योजयतीत्याह-कुम्भं करोतीत्यादावल्याह-मृन्मर्दनकालेऽप्याह, कुम्भं करोतीति कुम्भकारः, अपिशब्दात करणकाले निर्वृत्त्युत्तरकाले च कृतः कुम्भ इति, न तथा घटते, यथा लोको वदतीति वर्त्तते, यदि स कुम्भ एवानिवृत्तोऽपि मृदवस्थायां न क्रियते भूतत्वात् , यद्भूतं तन्न क्रियते, यथाऽन्त्या[मृ]त्, अथाभूतः
इति । एवं द्रव्यक्षेत्रकालभावैरित्यादिग्रन्थेन भावाभावात्मकत्वव्यवस्थानाय घटदृष्टान्त उपन्यस्तः, तत्र कालतो भावाभावात्मक त्वभावनाय तद्विपर्ययेऽपि इदमुदाहरणमनुरूपमिति दर्शयति-प्रस्तुतघटोदाहरण इति । प्रकारान्तरेग द्वितीयोदाहरण- 20 ग्रहणकारणमाह-अथवेति पूर्व 'तथा तद्विपर्ययेणेति ग्रन्थे घटपटौ निदर्शितौ तदनुरोधेन चात्राग्रेऽपि निदर्शने द्वे द्वे प्रदर्शिते इति भावः । तथा प्रदर्शनफलमाह-भावनेति । भावतो भावाभावात्मकतामाह-भावतोऽसंयत इति, असंयतः प्रव्रजति भव्यजीवः सिद्ध्यतीत्युदाहरणद्वयं न घटते, एकपर्यायस्यापरपर्यायासंस्पर्शात् , असंयतपर्यायस्य भव्यजीवतापर्यायस्य च प्रव्रज्यापर्यायात् सिद्धत्वपर्यायाचात्यन्तमिन्नत्वात्, यद्यसंयतो जीवः नासौ प्रव्रजति यदि तु प्रव्रजति न त_सावसंयत इत्यतोऽसंयतः प्रव्रजति, भव्यजीवः सिद्ध्यतीत्यादिप्रयोगा न घटन्त इति भावः । उदाहरणान्तरमाह-एवमेवेति, असंयतत्वप्रव्रज्याकालयोé- 25 दायुक्तत्ववदित्यर्थः, उदाहरणान्तरसाफल्यमाह-एकस्येति । घटोदाहारण एकस्मिन्नेव भावाभावात्मकत्वभावनां द्रव्यक्षेत्रादिभिर्दर्शयितुमाह-अथ वेति, आदौ मृन्मर्दनकाले करणकाले च कुम्भं करोतीत्याह-लोकः, उत्पत्त्युत्तरकाले च कृतः कुंभ इत्याह तदेतन्न घटते, अस्य मते न कश्चित् कुम्भकारः शिवकादिपर्यायस्य, कुम्भं करोतीति कुम्भकार इत्यभिधानं न सम्भवति, कुम्भपर्यायसमये स खावयवेभ्य एव निवृत्त इति कुम्भकारो नास्त्येव, निवृत्त्युत्तरकाले तु कुम्भः कृत इति न तदानीमपि तस्यापेक्षेति । आद्यावस्थायां नासौ कुम्भ इति दर्शयति-यदि स इति । अनिर्वृत्तावस्थायामपि यदि कुम्भो भूतस्तर्हि न क्रियमाण : स्यात् , 30. यद्धि निष्पन्नं तन्न क्रियते यथाऽन्त्या कुम्भपर्यायाकान्ता मृत्, अन्यथा करणव्यापारानुपरमः स्यात् , अभूतत्वपक्षे दोषमाह-अथाभूत
१सि.क्ष. प्राप्तिप्र। २सि.क्ष. एकमेयोदाहरणं । ३ सि.क्ष. कालो।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org