SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ७३२ maamanam न्यायागमानुसारिणीव्याख्यासमेतम् [विधिनियमोभयारे कालतोऽपि चेत्यादि, विनाशोत्पादयोरेककालत्वात् पिण्डशिवकादीनां पिण्डो न भूतः शिवको भूत इत्येकमेव भूतमभूतश्च, काल[]भेदात्, अतीतानागताभ्यां वृत्तिभ्यामसंमृष्टतत्त्वा [मृत् ]शिवकादिना वर्तमानैककाला, न[तथा] या लोको वदतीत्यविज्ञातार्थतत्त्वो लोको मिथ्या ब्रूत इति वैधर्योदाहरणं पलालमग्निर्दहतीति, एतत्स्ववचनानुमानप्रत्यक्षविरुद्धं वचनमिति, तद्भावयति5 यदि तद्दह्यत एवेत्यादि यावद्भस्मीकरणानुपपत्तेः पूर्ववत्-पलालकालवत् , कालस्य भिन्नत्वाभ्युपगमात् , परः परिहरमान:-अन्तर्देशः पलालस्य दह्यते स च पलालमेवेति, तस्योत्तरं तथापीत्यादि गतार्थं यावद्देशस्यापि भस्मीकरणानुपपत्तेरिति, अथाकाशव्यतिरेकेणेत्या दि], स्यान्मतं द्रव्यार्थिकनयमतेऽभेदात् पलालादिमूर्त्तद्रव्येष्वेव सम्भवादाकाशाद्यमूर्त्तद्रव्यव्यतिरेकेण पलालमेव दह्यते नाकाशादीति, तदपि नेत्यादि, अभूततद्भावेऽर्थे च्चिप्रत्ययः, तदन्तेन भस्मीकरणेनान्यो दाहो वर्तते, अन्यच्च पलालमिति भिन्नार्थत्वाद10 परिहारः, अथाप्येकत्वं पलालस्येष्यते द्रव्यार्थाभेदात् ततस्तस्य दाह्यता नास्ति, भस्मत्वाभूतेरिति, तथा घट नयस्य ऋजुसूत्रविशेषत्वात् तेन च वर्तमानत्वव्याप्तभावत्वाभ्युपगमेन भावत्वस्यातीतानागतसम्बन्धाभावव्याप्यतया विमिन्नकालिकविनाशोत्पादावच्छिन्नेकद्रव्यस्याभावात् उत्पादस्यैव विनाशाव्यभिचारित्वमभ्युपगम्यत इत्याशयेनाह-विनाशोत्पादयोरिति, उत्पादकालस्यैव विनाशकालत्वादिति भावः । तथा च शिवकभवनमेव पिण्डविनाशलक्षणमभवनमिति वर्तमानककालावच्छेदेनापि वस्तु भवनाभवनात्मकमिति दर्शयति-पिण्डेति, पिण्डशिवकस्थासकादिभावानां मध्ये इत्यर्थः । हेतुमाह-कालाभेदादिति । 15 वर्तमानैककालावच्छिन्नं प्रत्युत्पन्नमेव वस्तु न विभिन्नकालावच्छिन्नावस्थासंसर्गमनुभवतीत्याह-अतीतेति । पलालमनिर्दहतीति यल्लोको वदति सा लोकोक्तिः वस्तुतत्त्वविज्ञानविधुरताप्रयुक्तैवेति दर्शयितुं वैधर्म्यदृष्टान्त निदर्शयतीत्याह-यथा लोक इति । कर्य मिथ्येत्यत्राह-एतदिति पलालमग्निर्दहतीति वचनमित्यर्थः, यदि तद्दह्यत एवेति, दहधातूपात्तप्रधानीभूतव्यापारजन्यफलाश्रय एवेत्यर्थः, तादृशफलाश्रयीभूते पलालत्वं तादृशफलजनकक्रिया चानुपपद्यते, पलालत्वस्य तथाविधफलाश्रयत्वावस्थाविलक्षणत्वात् , दह्यमानदाहाश्रययोरेककालत्वात् पलाले दहन क्रियान्वयस्यायोग्यत्वात् पलालं दहत्यनिरिति व्यवहारो विरुद्ध एवेति भावः । 20 निदर्शनमाह-पूर्ववदिति, पलालकाले यथा भस्मीकरणं नोपपन्नं पलालकालस्य भस्मीकरणकालापेक्षया मिन्नकालत्वात् तथा दह्यमानदग्धयोरेककालत्वे एतत्पलालस्यापि भिन्नकालत्वेन यो यः पलाशो नासौ दह्यते यश्च भस्मभावमनुभवति नासौ पलाल इति दाहाश्रयस्य च पलालत्वासम्भवेन पलालस्य भस्मीकरणानुपपत्तिरिति भावः । यद्यप्येवं पलालस्य भस्मीभावोऽनुपपन्न एव तथापि पलालावयवा अन्तर्देशरूप आकाशो वा दह्यते, देशदेशिनोरभेदात् ते देशाः पलाल एवेति तस्यापि भस्मीकरणमिति शङ्कते अन्तर्देश इति, समुदायाभिधायिनां शब्दानां अवयवेषु वृत्तिदर्शनादिति भावः । समाधत्ते-तथापीति, अन्तर्देशस्य पलाल25 त्वेऽपि तदवस्थायाः दह्यमानदग्धत्वावस्थामिन्नत्वेन तेन समं दहनादिक्रियासम्बन्धस्यानुपपत्तिरिति भावः, यद्वा देशस्याकाशात्म कस्यामूर्त्तद्रव्यस्य मूर्त्तद्रव्येष्वेव सम्भविनो दाहस्याऽयोग्यत्वादिति भावः। यद्यप्याकाशपलालयोर्द्रव्यार्थिकमतेनैकत्वं परन्तु पर्यायार्थिकस्यास्य मतेन भेदात् पलालादिमूर्त्तद्रव्येष्वेव दाहस्य सम्भवः, अभेदपक्षेऽप्येवमेवेति पलालं दह्यत इत्युच्यत इति शङ्कतेअथाकाशेति । दह्यत इति हि दह भस्मीकरण इति धातुनिष्पन्न रूपम्, भस्मीकरणञ्चाभस्मनो भस्मकरणमिति च्चिप्रत्ययेन निष्पन्नम् , तथा चाभस्मनः पलालस्य भस्मकरणमित्युक्त्यैव पलालमन्यत् भस्मान्यदिति गम्यते तस्मात् कथं पलाल दह्यते, 30 यद्यत्यन्तभिन्नयोरपि दाहदाह्यभावस्तर्हि न पलालमेव दह्यते किन्तु सर्व दह्यत इति स्यादिति समाधत्ते-अभूतेति । अथ द्रव्यार्थिक नयात् पलालदाहयोरभेद इष्यते तर्हि दाहस्य पलालस्वरूपान्तर्गतत्वेन पूर्ववददाह्यतैव तस्य भवेदित्याह-अथाप्येकत्वमिति । हेतुमाह-भस्मत्व , भस्मभावानापन्नत्वात् भिन्नावस्थत्वादिति भावः । यथा लोको वदति घटो भिद्यत इति तन्न घटते घटकालभेदकालयोभिन्नत्वात् , भेदाश्रयो हि कपालशकलः, स च न घट इति भिन्नविषयत्वं घटमेदयोरित्याह-तथा घट १ सि. क्ष. कालाद्यथा। २ सि. क्ष. डे. यथालोकवाद इत्य० । ३ सि. न. केत्यासान्मतं । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy